SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ९६० न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे न्तरवृत्तिः सच्छब्दोऽङ्गीकृतार्थान्तरवृत्तिर्वा स्यात् , तत्र व्युदस्तभेदसामान्यमात्रवृत्तिरनङ्गीकृतार्थान्तरवृत्तिः शब्दोऽपोहः केवलो व्यावृत्त्यर्थो निर्निबन्धनः, सदित्युक्तेऽसन्न भवतीति, द्विर्नञ्प्रयोगाद्विध्यर्थ एव ज्ञायते, ततः सिद्धे सत्यारम्भो नियमार्थ इति नियम्यते सत्त्वमेव, यो न भवति यथा वा न भवतीति, तस्य द्विविधस्याप्यत्र सम्बन्धो नास्तीत्युक्तं भवति, 5 स च प्रतिषधो न विधिप्रधानपर्युदासः, प्रसज्यप्रतिषेधमानं तत् , ततश्च अयमस्मादन्य इत्यन्यस्याभावात् पर्युदासात्मकान्यशब्दार्थान्तरापोहस्वार्थाभिधानलक्षणाभ्युपगमत्यागदोषाः स्युः। (सामान्यशब्दार्थेष्विति) सामान्यशब्दार्थेषु तावदुदाहरणं सदित्यसन्न भवतीति, अत्र द्वयी वृत्तिश्चिन्त्यते-अनङ्गीकृतार्थान्तरवृत्तिः सच्छब्दोऽङ्गीकृतार्थान्तरवृत्तिर्वा स्यात् , तत्र प्रथमं तावत्व्युदस्तभेदसामान्यवृत्तिरनगीकृतार्थान्तरवृत्तिः शब्दः, स कीदृश इति चेत्तन्निरूपणार्थमाह-अपोहः केवलो 10 व्यावृत्त्यर्थो निर्निबन्धन उच्यते, तदुदाहरणं-सदित्युक्तेऽसन्न भवतीति, द्विर्नप्रयोगात् प्रवृत्तीवन्तर्भवत्येवेति विध्यर्थ एव ज्ञायते, ततः किं संवृत्तम् ? सिद्धे सत्यारम्भो नियमार्थ इत्यसन्न भवतीति द्वाभ्यां प्रतिषेधाभ्यां नियम्यते विहितं सत्त्वमेव, तत्कथमिति चेदुच्यते यो न भवति खपुष्यादिः, यथा वा न भवति-घटपटादिप्रकारेण, तस्य द्विविधस्यापि-असम्भवनस्यात्र-वृक्षे सम्बन्धो नास्तीत्युक्तम्भवतीति, स च प्रतिषेधो[न] विधिप्रधानः पर्युदासः, ततोऽन्यत्र विधिः, असच्छब्दश्च तदर्थः, इत्थञ्चोक्तन्यायेनासच्छब्दार्थो विधि15 प्रधानपयुदासात्मकः त्यक्तः स्यात् , स[न]एव वृक्षो भवति सत्त्वात् , सतोऽन्यस्यासतोऽत्यन्ताभावात् प्रसज्यप्रतिषेधमात्रम[स]त् प्रसक्तं प्रतिषिद्धमित्येषोऽर्थः स्यात्, तस्मात्-प्रसज्यप्रतिषेधमात्रार्थत्वात् ततश्चायमस्मादन्य इत्यन्यस्याभावादन्यापोहः शब्दार्थः] इत्यस्याभ्युपगमस्य त्यागः कृत इति wwwwwwwww तदतत्त्वं सदिति सामान्यशब्दार्थे भावयति-सामान्येति, सदिति शब्दार्थस्तावदसन्न भवतीति, तत्र किमयं सच्छब्दोऽर्थान्तरं प्रतिषेध्यमनङ्गीकृत्य तदपोहं विदधत् स्वार्थे वर्त्तते, उत प्रतिषेध्यमभ्युपगम्येति विचार्यमिति भावः । तत्र येन शब्देन भेदे सामान्ये 20 वा वर्तनं खस्य निरस्यते स शब्दोऽनङ्गीकृतार्थान्तरवृत्तिः शब्द उच्यते इत्याह-व्यदस्तेति । यतोऽपोहो व्यावृत्तिरूपोऽत एव सामान्यरूपं विशेषरूपं वा निबन्धनं नास्तीत्याह-अपोह इति । तदेव निरूपणायोदाहरणमाह-सदित्युक्त इति, असन्न भवतीत्यसतोऽपोहः क्रियते, प्रतिषेधद्वयमर्थवदेव दृष्टमिति व्यावृत्तिप्रतिषेधः प्रवृत्तिरेवेति विध्यर्थ एवासन्न भवतीत्यनेन ज्ञायत इति भावः । तस्य फलमाह-ततः किमिति । नवयं प्रकृतमर्थमेव प्रकाशयति, तस्य सिद्धत्वेन तदारम्भणवैयापत्तः, किन्तु सिद्धे सत्यारम्भः प्रकृतमर्थ दृढयति नियमेन, यथा वृक्षः सन्नित्युक्तावसन्न भवति किन्तु सदेवेत्यर्थः स्यात्, अत्र सतोऽत्यन्ताभावस्य खपु25 ष्पादेः, येन केनचिद् घटपटादिना सतोऽभावस्य चात्र वृक्षे सम्बन्धो नास्तीति, एवञ्चासतोऽयं प्रतिषेधोऽभावप्राधान्यात् प्रसज्यप्रतिषेधरूप एव सञ्जातः न पर्युदासरूप इति भावः। प्रसक्तस्य प्रतिषेधमादर्शयति सन एवेति, प्रसक्तमसत्त्वं प्रतिषिद्ध्यत इति भावः। तथा च स्वाभ्युपगमत्यागप्रसङ्ग इत्याह प्रसज्येति । असच्छब्दश्चेति, सन्न भवतीत्यसच्छब्दार्थो यः खपुष्पादिः स न भवति, यश्च सत्त्वप्रकारेण भवन् घटपटादिप्रकारेण न भवति, अमू अभावौ स्याताम् , एवञ्च सदभावस्य घटपटादिना सदभावस्य सति सम्भवो नास्तीत्यर्थः स्यात् , एवञ्चासच्छब्दार्थो विधिप्रधानः पर्युदासरूपो न भवति, किन्तु प्रसज्यप्रतिषेधरूप एव स्यात् , तन्मात्रार्थत्वे 30 चान्यापोह इत्यत्रान्यपदार्थस्यान्यत्वस्याभावः, असच्छब्दार्थस्य प्रसज्यप्रतिषेधरूपत्वात् , तथा चायं वृक्षादन्योऽवृक्षः, अयञ्चावृक्षा दन्य इत्यन्यत्वस्याभावादन्यापोहशब्दार्थत्याग इति भावः, अन्यस्याभावादेवान्योऽर्थोऽर्थान्तरमित्यर्थान्तरमपि नास्ति. ततश्चार्था १ सि. क्ष. छा. डे. प्रवृत्त्यापान्तर्भवः । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy