________________
mmmmmmmmm
mmmmmmmmmm
अन्यानन्यत्वसाधनम् ] द्वादशारनयचक्रम्
९५९ एतदर्थनिदर्शनार्थं दृष्टान्तमाह
वृक्षशब्दादंहिपशब्दोऽनन्यत्वाद्वृक्षः तथा तदर्थोऽग्नेर्वयादिः, उभयत्र वा सत्त्वद्रव्यत्वादि सामान्यविशेषधर्मेभ्योऽनग्निरवृक्षश्चेति विदितसकलवृक्षावृक्षाम्यनग्निशब्दार्थस्यैव तज्ज्ञानं दृष्टम् , न हि क्वचिदर्शनमात्राद्वा तद्वृत्तिनियमौ भवतः, व्यभिचारात् , घटमानपादपतरुशाखिभेदवृक्षव्यभिचारात् वृक्षोऽवृक्षो घटोऽघटश्च, अन्योऽपि हि भवन्ननन्यो भवति, 5 पीलुहस्तिवृक्षवत् सामान्यविशेषशब्दपर्यायशब्दार्थेभ्यः ।
(वृक्षशब्दादिति) वृक्षशब्दादंहि[प]शब्दोऽनन्यत्वाद्वृक्षः, तथा तदर्थः, अग्नेर्वह्नयादिः, उभयत्र वा सत्त्वद्रव्यत्वादिसामान्यविशेषधर्मेभ्योऽनग्निरवृक्षश्चेति विदितसकल[वृक्षावृक्षाम्यनग्निशब्दार्थस्यैव तज्ज्ञानं दृष्टम् , तथाऽऽकाशशब्दादिषु खगगनवियदादिसत्त्वद्रव्यत्वादिधर्मापेक्षं तदतत्त्वं योज्यम् , न हि कचिदित्यादि, न हि किश्चिद्दर्शनमात्राद्वा[तद]तद्वृत्तिनियमौ वा भवतः, कस्मात् ? 10 व्यभिचारात्-वृक्षान्वैयेऽपि तक्षकपुरुषव्यभिचाराद्रश्चनधर्माभावव्यभिचारादवृक्ष एव, अवृक्षघटोऽपि घटमानपादपतरुशाखिभेदवृक्षव्यभिचाराद्वृक्षोऽवृक्षो घटोऽघटश्च, अन्योऽपि हि भवन्न[न]न्यो भवति, पीलुह स्तिवृक्षादिवत् सामान्यविशेषशब्दपर्यायशब्देभ्यः ।
सामान्यशब्दार्थेषु तावत् सदित्यसन्न भवतीति, अत्र द्वयी वृत्तिः-अनङ्गीकृतार्थाएतदर्थेति । पर्यायशब्दानां तदर्थानाञ्चानन्यत्वमाह-वृक्षशब्दादिति। अन्यानन्यत्वं प्रकाशयितुमादावनन्यत्वमेकार्थप्रतिपादक- 15 त्वादाह-वृक्षेति, अंहिपशब्दो वृक्षाख्यैकार्थवाचकत्वादवृक्षशब्दोऽपि सन् वृक्षशब्द उच्यते, उभयशब्दयोर्भिन्नानुपूर्वीकत्वेनाहिपशब्दोऽवृक्षशब्द इति भावः । अर्थानामप्यन्यानन्यत्वमाह-तथा तदर्थ इति, शब्दार्थ इत्यर्थः, वह्वयात्मकोऽर्थोऽग्नेरनन्यः, एकार्थक्रियाकारित्वादिति भावः । अन्यत्वमाह-उभयत्र वेति, वृक्षशब्देऽवृक्षशब्देऽर्थे वृक्षेऽवृक्षे वा, अग्नौ लिङ्गिन्यनग्नौ वा विद्यमानो धर्मः सत्त्वं द्रव्यत्वादि वा अन्य एव, न हि यदेव सत्त्वं वृक्षे तदेवावृक्षे वर्तते, एवं द्रव्यत्वादि, तस्मादुभयोरन्यत्वमपि, धर्मभेदादिति भावः। वृक्षादिशब्दस्य तदन्यस्य वृक्षार्थस्य तदन्यस्य च सामान्योपसर्जनद्वारा साकल्येन तदतत्त्वेन परिज्ञानवतामेवायं 20 वृक्ष एव भवति, तदन्यो घटपटादिरवृक्षः वृक्षो न भवतीति तत्तदन्यज्ञानं भवितुमर्हतीत्याह-इति विदितेति । एवमेवान्यपर्यायशब्दतदर्थयोस्तदतत्त्वं यथायथं योजनीयमित्याह-तथाऽऽकाशशब्दादिष्विति, आकाशशब्दात् खशब्दोऽनन्यत्वादाकाशः, अर्थादाकाशादपि खमनन्यत्वादाकाशम् , उभयत्र च सत्त्वद्रव्यत्वादिधर्मेभ्योऽनाकाशञ्चेत्येवं योज्यमिति भावः । न हि तुल्यातुल्ययोवृत्त्यवृत्तिदर्शनमात्रात्तदतच्छन्दतायाः तदतर्थताया वा शक्यते नियमः कर्तुमित्याह-नहि किञ्चिदिति, न हीषद्दर्शनमात्रादित्यर्थः । नियमाभवने हेतुमाह-व्यभिचारादिति, व्यभिचारमेव दर्शयति-वृक्षान्वयेऽपीति, वृक्ष इति व्यवहारविषयेऽपि वृक्ष- 25 . त्वसामान्यावच्छिन्नेऽपि वेयर्थः, वृक्षान्वयोऽपीति पाठे वृक्षस्यान्वयो यस्मिन्निति विग्रहे वृक्षत्वसामान्यावच्छिन्नोऽपीत्यर्थः, वृक्षभूतः कश्चित्पनसादिः वृक्षशब्दप्रवृत्तिनिमित्तेन व्रश्चनधर्मेण रहितत्वाद्यभिचारादवृक्ष एवेति स्वजनकल्पस्य पनसादेवृक्षत्वमवृक्षत्वञ्च, व्रश्चनधर्माभावे छेदकपुरुषाभावः कारणमिति दर्शयति-तक्षकपूरुषव्यभिचारादिति, अनेन वृक्षोऽपि सन्नवृक्षो भवतीत्युपदर्शितम् । अथान्योऽपि सन्ननन्यो भवतीत्युपदर्शयति-अवक्षघटोऽपीति, अवृक्षभूतोऽपि घटः घटमानताया अभावे वृक्षपर्यायशब्दप्रवृत्तिनिमित्तधर्माकान्तो वृक्षो भवति तदेवं वृक्षोऽप्यवृक्षोऽपि वृक्षो घटोऽप्यघटोऽपि घटो भवतीति भावः । 30 अत्र पर्यायशब्देषु तदतत्त्वमुक्तमेवमन्यत्रापि भाव्यमित्याह-पीलहस्तिवृक्षादिवदिति, "दुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ।। इत्यमरः, एतत्तत्त्वमग्रे व्यक्तीभविष्यति । अथ सामान्यशब्दार्थेषु तदतत्त्वं भावयति-सामान्यश
वदिति ।
१सि. क्ष. °नन्यस्वादवृक्षः । छा. डे, ननवादखुवृक्ष। २ सि.क्ष. छा. डे. वृक्षांन्वयोऽपिवृक्षक।
द्वा० न० ४४ (१२१)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org