________________
९५८
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे दार्टान्तिकं समासजतेदानीम्
यथा विदं तुल्ये वृत्तिरतुल्येऽवृत्तिरिति व्याचक्षाणस्य तव मते पितृकल्पस्य दर्शनात् स्वार्थस्य परार्थस्य तदन्यस्य तदपोहस्य वाऽप्रतिपत्तिरिति, अथ वा यदि हि स्वार्थः सामा
न्योपसर्जनो विशेषः समस्तः शिंशपादिरभिहितः स्यात् तेनापोढश्च संपिण्ड्यायमन्योऽस्मादिति । गृहीतः स्यात् तत एवं प्रतिपद्येतायं अयमेव भवति, ततोऽन्योऽयं न भवतीति, प्रत्यक्षस्वादुभयस्य, नात्यन्ताविदितवृक्षावृक्षशब्दतायां न चात्यन्तादृष्टवृक्षावृक्षस्वरूपतायां वा सा प्रतिपत्तुर्भवितुमर्हति, खपुष्पवन्ध्यापुत्रादिवत् ।।
यथा त्विदमित्यादि, यथा त्वयेष्टं तुल्ये वृत्तिरतुल्ये चावृत्तिरित्युद्राहेण यावत् सर्वथाऽनुमानासम्भव इति ग्रन्थं व्याचक्षाणेनैव गतप्रत्यागतन्यायेन त्वदुक्तेनैव तथा सर्वस्यादर्शनात् पितृकल्पस्येत्यादिना 10 दार्शन्तिकवैषम्यापादनं गतार्थं यावत्तदपोहस्य वाऽप्रतिपत्तिरिति, त्वन्मतेन कस्यचिदेव स्वार्थस्य परार्थस्य
चादर्शनादपि पितृत्वप्रत्ययाभाव एवेति पिण्डार्थः, अथवा सर्वस्यादर्शनादित्यादिना प्रकारान्तरेण दोषं ब्रूमः यदि हि स्वार्थ इत्यादि वृक्ष इत्युक्तेऽस्मदुक्तेन न्यायेन सामान्योपसर्जनो विशेषः समस्तः शिंशपादिरभिहितः स्यात् , तेनापोढश्चावृक्षः सभेदो घटपटादिः सम्पिण्ड्यायमन्योऽस्मादृक्षादिति गृहीतः स्यात् तत एवं प्रतिपद्येत–अयं वृक्षोऽयमेव-वृक्ष एव भवति, ततोऽन्योऽयं-घटापटादिरवृक्षो वृक्षो न भवतीति, किं कारणं? 16 प्रत्यक्षत्वादुभयस्य, नात्यन्ताविदितवृक्षावृक्षशब्दतायां न चात्यन्तादृष्टवृक्षावृक्षस्वरूपतायां वा सा प्रतिपत्तुभवितुमर्हति, अयं वृक्षोऽयं न भवतीति, खपुष्पवन्ध्यापुत्रादिवदिति ।
मात्रेण प्रतीतिहीत्यर्थः । अथ दाह्रन्तिके घटयति-यथा त्विदमिति । ननु त्वया तुल्ये वृत्तिरतुल्ये चावृत्तिरिति ग्रन्थं व्याचक्षाणेन नहि सर्वत्र लिङ्गिनि लिङ्गस्य सम्भवोऽस्ति इति खार्थस्य न हि सम्भवोऽस्ति सर्ववृक्षेषु वृक्षशब्दस्येति परार्थस्य च दर्शनेन प्रतिपत्ति
सम्भवो गुणसमुदायखरूपडित्थादिष्वपि काणकुण्टादिसर्वावयानां शब्दागम्यत्वेनासम्भव एवातोऽन्वयासम्भवेन व्यतिरेकस्याप्यसम्भव20 इति सर्वथाऽनुमानाभावः, अतुल्ये सत्यप्यानन्येऽशक्यमदर्शनमात्रेणाख्यानम् , दर्शनस्य हि सर्वत्रासम्भवः, सत्यपि च दर्शने
सर्वथाऽनुमानाभाव इत्येवं सर्वस्यादर्शनत्वनिरूपणात् पितृतुल्यः खार्थो धूमान्यादिः परार्थः वृक्षादिशब्दस्तदर्थश्च तदन्योऽनम्न्यवृक्षादिः तदपोहो वाऽदर्शनान्नास्त्येव कस्यापि प्रतिपत्तिरित्याह-यथा त्वयेष्टमिति । तात्पर्यार्थमाह-त्वन्मतेनेति । सर्वस्यादर्शनादिति प्रन्थं प्रकारान्तरेण व्याचष्टे-अथवेति।शब्देन यदि सामान्योपसृष्टो यावद्विशेषोऽभिधीयेत तदा सामान्यावच्छिन्नतावद्विशेषव्यतिरि'तानामप्यनुगतरूपतो ग्रहणं स्यादयं भिन्नोऽस्माक्षादिति, ततश्चायमेव वृक्षोन घटादिः, घटादिरेव वृक्षादन्यो न वृक्षः कश्चिदाम्रादिरिति, 25 यतो व्यावृत्तानां व्यावानाञ्चान्यत्वप्रतियोग्यनुयोगिनां प्रत्यक्षग्राह्यत्वादिति भावः । एतदेव निरूपयति-वृक्ष इत्युक्त इति,
वृक्षत्वावच्छिन्नत्वेन निखिलवृक्षाणां सति ग्रहणे तदवच्छिन्न प्रतियोगिताकमेदत्वेन निखिलघटपटादीनां ग्रहणसम्भवात् , वृक्षो वृक्षत्वावच्छिन्न एव, न तु वृक्षत्वावच्छिन्नप्रतियोगिकमेदवान , घटपटादयश्च वृक्षत्वावच्छिन्नप्रतियोगिकमेदवन्त एव, न तु वृक्षत्वावच्छिन्ना इति प्रतिपत्तिः स्यात्, भेदप्रतियोग्यनुयोगिनोः प्रत्यक्षविषयत्वादिति भावः। वृक्षशब्दोऽवृक्षशब्दश्च नितरामज्ञातः
शब्दान्तरापोहेन प्रतिपत्तुं न शक्यते, तथा वृक्षखरूपमवृक्षस्वरूपञ्च सुतरामदृष्टमर्थान्तरापोहेन प्रतिपत्तुं न शक्यत इत्याह30 नात्यन्तेति, अत्यन्तमविदितौ वृक्षावृक्षशब्दौ, तद्भावस्तस्यामिति विग्रहः, एवमग्रेऽपि । इममर्थ दृढीकर्तुं निदर्शनमादर्शयतीत्याह
१सि.क्ष. छा. डे. प्रन्थोव्याचक्षाणएव गतपामतं न्यायेन ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org