Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 403
________________ ૨૭૨ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनिषमारे त्यादि-एतत्पक्षसंश्रयदर्शनार्थ भाष्यग्रन्थमाह-स्वसम्बन्धिभ्योऽन्यत्रादर्शनादित्यादि, अस्य व्याख्याटीकाग्रन्थः-यंत्र दृष्ट इत्यादि यावदवृक्षोऽनग्निर्वा न भवतीति गतार्थः, एवश्च कृत्वेत्यादि यावदुपपन्न भवतीति, अनेकाविनाभाविनां पृथिवीद्रव्यत्वादीनां वृक्षशब्दाळूमाच्चानुबन्धिनामनुमानं युज्यते, तद्दर्शनस्पर्शने, वृक्षत्वात् पृथिवी द्रव्यं सच्च, धूमत्वाच्च, वृक्षवदग्निवञ्चेति, इतरथा वित्यादि, अत्यन्तव्यतिरेके । सम्बन्धित्वाभावेऽनुबन्धिनां द्रव्य[ त्वा ]दीनामप्यन्यत्वादतुल्ये विपक्षे एव वृत्तेरपक्षधर्मत्वादनैकान्तिकत्वविरुद्धत्वानुमानाभासदोषाः स्युः, अनुबन्धिनां द्रव्य[ त्वा ]दीनां त्यागे तदविनाभाविनो वृक्षस्य स्वार्थस्यासम्भव एवेति च दोषः, ततः प्रत्याय्यप्रत्यायनयोः-अर्थशब्दयोरनुपपत्तिः, तस्मात् स्वसन्धिभावेत्याद्युक्तोपसंहारः सम्बन्धिनोऽर्थान्तरस्य भावे दर्शनात् सम्बन्धिन एव भावाभावेऽदर्शनाच्चानुमानस्याभिप्रेतस्य सिद्धिरिति । 10 अनोत्तरमुच्यते एवं तर्हि यदि सत्त्वादीनि विशेषणानि वृक्षस्य वृक्षादभिन्नानि वृक्षो भवन्ति स वा वृक्षस्तानि भवति तेन तानि विशेष्यन्ते देवदत्तपाण्यादिवदेकभवनात्मना, तस्मिन्नेकभवने प्रयोगः शाखादिमति दर्शनमित्युच्यते, तत्स्वात्मवत् , ततोऽन्यत्वात् द्रव्यादिवृक्षभावदर्शनात्, भावः । तद्व्यतिरिक्तेष्विति, सत्त्वादिधर्मावच्छिन्नशिंशपादिभेदव्यतिरिक्तेषु घटपटादिषु यत एवानन्त्याद्दर्शनं संस्पर्शनञ्च न 16 भवतोऽत एव तत्रान्यापोहस्य प्रवृत्तिरिति नात्र पूर्वोदितपक्षदोषा इति भावः । अयमेव पक्षोऽस्माकं सम्मत इति वाचार्यभाष्यग्रन्थ प्रमाणयति-एतत्पक्षेति । सर्वत्र यतो दर्शनं न सम्भवति सत्यपि च क्वचिद्दर्शने नानुमानसम्भवोऽत एवं यत्र पत्र वृक्षशब्दादिदृष्टः स एव स्वसम्बन्धिपदग्राह्यः वृक्षशब्दादिना ग्राह्यः, न तु ते शिंशपादयो यैर्विना न संभवन्ति गुणादिभिः ते सर्वे सम्बन्धिन इत्याशयेन व्याकृतं भाष्यटीकाग्रन्थमुपन्यस्यति-अस्य व्याख्याटीकाग्रन्थ इति । यत्र यत्र वृक्षशब्दः धूमादिलिङ्गश्च दृष्टं तत्रैव शब्दलिङ्गयोर्दर्शनादभिधेयत्वानुमेयत्वे, ततोऽन्यत्र शब्दलिङ्गयोरदर्शनात् तद्ववच्छेदानुमानमयमवृक्षो 20 न भवत्ययमनग्निर्न भवतीति तद्न्थमुपदर्शयति-यत्र दृष्ट इत्यादीति। यथा चाभिधेयानुमेयवृक्षाग्न्यादेरन्यत्र वृक्षशब्दधूमलिङ्गयोरदर्शनात्ताभ्यामवृक्षानग्निव्यवच्छेदानुमानं भवति तथैव पृथिवीद्रव्यत्वाद्यभावेऽपि वृक्षशब्दधूमलिङ्गयोरदर्शनात्ताभ्यां पृथिवीद्रव्यत्वाद्यनुमानं भवतीत्याह-अनेकाविनाभाविनामिति, अनेकैः सह शब्दलिङ्गैरविनाभाविनामित्यर्थः । तदर्शनस्पर्शने इति, पृथिवीद्रव्यत्वादेरनुमानाभिधाने इत्यर्थः । तदेवाह-वृक्षत्वादिति । वृक्षाग्न्यादिभिः सह सत्ताद्रव्यत्वादिसामान्यधर्माः शिंशपादिभेदाश्च तादात्म्यादविनाभाविनः, अत एव च सम्बन्धिनः, यदि तेषां तादात्म्यं न स्यात्तर्हि अत्यन्तं 25 व्यतिरिक्ताः तैर्विना भवन्तोऽसम्बन्धिनः स्युः, एवञ्च द्रव्यत्वादयो वृक्षादावसन्तोऽन्यत्रैव भवेयुः तथा चातुल्ये विपक्ष एव वृत्तेरपृथिव्यादिव्यवच्छेदानुमानं न स्यात्, अपृथिव्यादिव्यवच्छेदस्य पक्षस्य वृक्षाच्यादेधर्मत्वाभावात्, वृक्षशब्दादेरपृथिव्यादौ वृत्तेरनैकान्तिकत्वात् , अपृथिव्याद्यविनाभावित्वेन वृक्षशब्दादेविरुद्धत्वादनुमानासम्भव इत्याह-अत्यन्तेति । वृक्षादिभिः सह द्रव्यत्वादेरत्यन्तभिन्नत्वेनासम्बन्धाद्यदि द्रव्यत्वादीनि त्यज्यन्ते तर्हि तदविनाभाविनस्तत्वरूपस्य वृक्षादेरेवासम्भवः स्यादित्याह अनुबन्धिनामिति । एवञ्च खार्थस्यैवाभावात् कोऽसौ प्रत्यायकः, प्रत्याय्यो वा भवेदित्याह-तत इति । एवञ्च स्वसम्बन्धिनः 30 सत्त्वद्रव्यत्वाद्यवच्छिन्नवृक्षादेर्भावे दर्शनाद् वृक्षशब्दादेस्तदभावे चादर्शनादवृक्षादिव्यवच्छेदानुमानं भवतीत्याह-सम्बन्धिन इति । तदेवंवादिना सामान्यधर्मधर्मिणोस्तादात्म्याभ्युपगमेन वपक्षे दृढीकृते सत्त्वादीनां तादात्म्येन विशेषणे दोषमाहाचार्यः-एवं ३ सि. क्ष. डे. छा. वृक्षत्वादग्नि। सि.क्ष. छा. डे. अन्न। २सि.क्ष. स्पर्शन, छा. तदर्शनस्पर्शन । ४सि.क्ष. छा. डे. सम्बन्ध्यभावे० । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430