Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 401
________________ ९७० न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे ___ ततश्च वृक्ष इत्यवृक्षो न भवतीत्युक्ते इदमुक्तं भवेत् योऽभावाभावः स वृक्ष इति नान्यदभावनिवृत्तेः, ततो घटपटादीनां वृक्षतावत् वृक्षशब्दार्थत्वप्राप्तेः कुतोऽपोहस्तेषां स्थात्, सर्वथा वा गतिर्भवेत् , अतः सर्वदर्शननिराकाऋतायां सत्यां. शब्दादनुमानाद्वाऽभावाभावमात्रवृक्षाग्नित्वाद् विशेषवचनप्रत्ययानर्थक्यम्, अभावाभावमात्रस्यैकत्वात् , भेदविषयवचनानुमान5 व्यवहारनिर्विषयत्वात्, अभूतभेदविषयत्वाद्वा खपुष्पादिवत्, अगतिरज्ञानं वा वृक्षशब्दोच्चार णाद्भवेत् सर्वथा, गंतव्याभावात् , अभावाभावमात्रवृत्तित्वाच्छब्दानुमानयोरिति । ..ततश्चेत्यादि, अस्मादुक्तन्यायादेष शब्दार्थः संवृत्तः, वृक्ष इत्यवृक्षो न भवतीत्युक्ते इदमुक्तं भवेत् सम्भाव्येत, योऽभावेत्यादि, अभावस्याभावो वृक्ष इत्युक्तं स्यात् , नान्यदभावनिवृत्तेः, ततो घटपटादीनामभावनिवृत्तिमात्रत्वात् वृक्षतावत् वृक्षशब्दार्थवत्वं प्राप्तम् , कुतोऽपोहस्तेषां स्यात् ? तत्संस्पर्शे हि स्यादपोह10 स्तेऽवृक्षो न भवतीति, इत्थमपोहाभावः, अनिष्टञ्चैतत् , किश्चान्यत्-सर्वथा वा गतिर्भवेत्-अभावाभावमात्रं हि वृक्षोऽग्निर्वा स्यात् , न सपक्षासपक्षभेदसंस्पर्शन दृष्टवत्, अतः सर्वदर्शननिराकाङ्कता, तस्याश्च सत्यां शब्दात्-वृक्षात अनुमानाद्वा-धूमादभावाभावमात्रवृक्षाग्नित्वात् दृष्टभेदासंस्पर्शादेव त्वदुक्तात् वृक्षोऽग्निरिति च विशेषवचनप्रत्ययानर्थक्यं स्यात् , कस्मात् ? अभावाभावमात्रस्यैकत्वादिति, स्वपरार्थानुमानयोः सामान्येन हेतुः खपुष्पादिवदिति दृष्टान्तः, विशेष्य वा हेतुः-भेदविषयवचनानुमानव्यवहारनिर्विषयत्वात् , 15 अभूतभेदविषयत्वादिति, सामान्येन स एव दृष्टान्तः सर्वत्रान्तेऽभिहितत्वात् , अयमन्यो व्याख्याविकल्पः, AA रूपे यद्यवृक्षो व्यतिरेको भेदं न स्पृशति तथा तदपोहोऽन्वयोऽपि भेदं न स्पृशति तीभावाभावमात्रं वृक्षशब्दार्थः स्यादित्याहततश्चेति । व्याचष्टे-अस्मादुक्तन्यायादिति, गुणसमुदायमात्रार्थत्वाभावसामान्यव्यावर्त्तनन्यायादित्यर्थः । वृक्षशब्दस्यावृक्षो न भवतीत्यर्थकत्वे किमुक्तं भवेदिति सम्भाव्यत इत्यत्राह-योऽभावेत्यादीति, योऽभावाभावः-अभावसामान्यस्याभावः स एव वृक्ष इत्युक्तं सम्भाव्यते, तथा सति सर्व घटपटादि वस्तु अभावनिवृत्तिरूपत्वादृक्षस्वरूपं प्राप्तम् , तद्वत् वृक्षशब्दार्थत्वमपि घटपटादीनां 20 प्राप्तम् , वृक्षस्य वृक्षशब्दार्थत्वात् , तेषाञ्च वृक्षत्वात् , न ह्यभावनिवृत्तेरन्यो वृक्षः, तस्मादृक्षशब्देन न घटपटादीनामपोहः स्यादिति भावः । यद्यवृक्षो घटपटादिभेदरूपाणि संस्पृशेत्तर्हि तेषां व्यावृत्तिः वृक्षशब्दाद्भवेत् , नेष्यते च तथा, तस्मात्तदपोहो न स्यादेवेत्याह-तत्संस्पर्श हीति । दोषान्तरमाह-सर्वथा वेति, वस्तुमात्रं ह्यभावाभावरूपमतोऽभावाभावमात्रेण सर्वेषां सर्वथाऽवगतिर्भवेत् , वृक्षशब्दादेव वृक्षवदन्निघटपटमठादेरवगतिः स्यात्, न त्ववृक्षा ये घटपटादयस्तद्भिन्नो वृक्ष एव वृक्ष शब्दार्थः, नाम्न्यादिः, अनग्नियः घटपटादिस्तदन्योऽग्निरेव धूमेन गम्य इति लोकेन यथा दृश्यते तथा न स्यादिति भावः । एवञ्च 25 लोकेन दृष्टानां विविधानां दर्शनानां त्वयाऽनाकांक्षणादृक्षोऽयं वृक्षशब्दवाच्यः, अग्निरयं धूमलिङ्गगम्य इत्येवं विशेषवचनानां प्रत्ययानाञ्च वैयर्थ्यमेव कृतं स्यात् शब्दगम्येऽनुमानगम्ये चाभावाभावे वैलक्षण्याभावादित्याह-अतः सर्वदर्शनेति, एकेनैव शब्देनानुमानेन वाऽभावाभावमात्रत्वेन निखिलवस्त्ववगतेः सर्वदर्शनानां निराकांक्षतेत्यर्थः। भवतु तन्निराकांक्षतेत्यत्राह-तस्याश्च सत्यामिति । अभावाभावमात्रस्यैकत्वादिति हेतुर्विशेषवचनानर्थक्यलक्षणपरार्थानुमाने विशेषप्रत्ययानर्थक्यलक्षणस्वार्थानुमाने चैकहेतुरित्याह-स्वपरार्थेति । खपुष्पमप्यभावाभावमात्रमनर्थकञ्चेति दृष्टान्तमाह-खपुष्पादीति । उभयत्र विशेष्य हेतुद्वयमाह30 भेदविषयेति, विशेषवचनमनर्थकम् , भेदविषयवचनव्यवहारनिर्विषयत्वात् , विशेषप्रत्ययोऽनर्थको भेदविषयानुमानव्यवहारनिर्वि षयत्वात् , खपुष्पादिवदिति भावः । उक्तहेतुद्वयेनापि सामान्यहेतुं सिद्धमाह-अभूतभेदविषयत्वादिति, अविद्यमानभेदविषयवादित्यर्थः । सर्वत्र खपुष्पादिरेव दृष्टान्त इत्याह-स एवेति। तत्र हेतुमाह-सर्वत्रेति । सर्वथा वा गतिर्भवेदिति मूलमकारं प्रश्लिष्य सर्वथा वाऽगतिर्भवेदिति मत्त्वा प्रकारान्तरण व्याचष्टे-अयमन्य इति । वृक्षादिशब्दोच्चारणे भेदनिर्विषयत्वादज्ञानमेव कस्यापि Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430