Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९७४
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे भवन[ म् ]परमार्थत इति दर्शयति-भवत एव व्यावृत्तेरिति हेतुः, भवन्नेव व्यावर्त्तते, कर्तरि षष्ठीविभक्त्युत्पत्तेः, पर्वते प्रतिहतस्य देवदत्तस्य व्यावृत्तिवत् , भवत एव व्यावृत्तेरियपादानलक्षणा पश्चमी वा, यो भवति पर्वतादिः तस्माद्भवत एव पर्वतादेर्देवदत्तादेावृत्तिवत् , न खपुष्पादिवदिति विधिवाद एव स्फुटीकृतः, ततः किं ? तत इदं-एवं भवद्भवनेत्यादि, इत्थं भवदेव भवतीति निरूपणेऽयमस्य स्थित एवार्थः, स चान्य5 श्वेययमन्यापोहपरिग्रहः, तस्मिंश्च सति सर्वथा वा गतिर्भवेत् , अनुगमो विधिरेवेत्युपसंहरति ।
. अथवाऽनिर्वाहकव्याख्याविकल्पा एकान्तरूपा उपेक्ष्याः, सर्वथाशब्दो विमर्दरमणीयः परिनिष्ठितोऽयं पिण्डार्थ इत्येतदाख्यानार्थः, वाशब्दो विकल्पार्थः, विकल्पानां गतिः निश्चयः परिनिष्ठा, अनेकान्तः स एवैवं भवेत् , इत्थं सर्वन्यायपरिशुद्धफलत्वादस्य सर्वविकल्पाः विधिप्रतिषेधौ त्वद्वचनादेवापतितौ विधिविकल्पोऽपि सदाद्यात्मकार्थग्रहणात् , अपोहविकल्पो10 ऽपि स्वसम्बन्ध्यन्यप्रतिषेधार्थत्वात् , तेन सर्वथा विकल्पानां गतिः स्याद्वादः, स च द्रव्यार्थपर्यायाौँ, एकान्तत्यागरूपैकवाक्यमत्यात्मको, द्रव्यार्थतः............स्यादनपोह इत्यादि न च तेन...............सर्वेषामपि, ततश्चेदमपि दुरधीतमेवान्यापोहवादिना......... । - अथवाऽनिर्वाहकेत्यादि, ये त्वमी व्याख्याविकल्पाः कल्पिता विधिवादेऽन्यापोहवादे वा
एकान्तरूपाः ते सर्वे न निर्वहन्तीत्युपेक्ष्याः, तत्प्रदर्शनात् सर्वथाशब्दो विमर्दरमणीयः परिनिष्ठितोऽतीतसर्व16 विचारस्यायं पिण्डार्थ इत्येतदाख्यानार्थः, कोऽसौ पिण्डार्थ इति चेदुच्यते वेति, वाशब्दो विकल्पार्थः विकल्पानां गतिरिति विकल्पानामेव ज्ञानं निश्चयः परिनिष्ठा-सर्वथा घटो घटोऽप्यघटोऽपीत्यादिनिश्चयः, का सा गतिः ? अनेकान्तः, स एव एवं भवेत्-स एवानेकान्तो विमर्दक्षमो विचारपर्यवसानेऽवतिष्ठेत, इत्थं सर्वन्यायपरि
कर्तृषष्ठ्यन्तं व्यासस्य कृतिरित्यादिवदित्याह-कर्तरि षष्ठीति, कर्तृकर्मणोः कृतीति षष्ठीविधानात् , भवनात्मा देवदत्तः पर्वतेन प्रतिरुद्धो
हि व्यावर्त्तत इति भावः । भवत इति पदस्य पञ्चम्यन्तत्वमभिप्रेत्याह-भवत एवेति, भवनरूपात् पर्वतादेः भवनरूपस्यैव देवदत्तस्य 20 व्यावृत्तिर्भवति, एवञ्च व्यावृत्तिप्रतियोग्यनुयोगिनोर्भावत्व एव व्यावृत्तिरतः सापि भवनमेवेति स्फुटो विधिवाद इति भावः । एवञ्चो
भयोर्भावरूपत्वे अन्यः तद्यावृत्तिरूपोऽपोहश्च यः स्वार्थ उच्यते सर्वमेतद्विधिरूपमेव सम्पन्नम्, तथा च सर्वथा गतिानमवगतिर्भवेदेवेत्युपसंहरति-इत्थं भवदेवेति । सर्वथा वा गतिर्भवेदित्यस्य वाक्यस्य व्याख्यान्तरमाह-अथवेति । व्याख्याविकल्पानेव तावदर्शयति-ये त्वमी इति । इत्थं व्याख्या विकल्पानां प्रदर्शनादयं पर्यवसितोऽर्थस्तेषामिति प्रदर्शनाय सर्वथाशब्द
उक्त इत्याह-तत्प्रदर्शनादिति, व्याख्याविकल्पानां प्रदर्शनादित्यर्थः । अनेकान्तस्यैकान्तविमर्दनक्षमत्वं विचारावसाना. 25 वस्थायित्वञ्च विमर्दरमणीयः परिनिष्ठित इति पदाभ्यामादर्शितम्, एवञ्च वा गतिः सर्वथा भवेदिति योजनया वाशब्दस्य विकल्पार्थत्वात् षष्टीबहुवचनान्ताव्ययत्वात् व्याख्याविकल्पानां गतिः निर्णयः विमर्दनसमर्थविचारावसानावस्थाय्यनेकान्त एव भवेत् घटो घटोऽप्यघटोऽपि, गौौरप्यगौरपीत्येवं निर्णयादित्याह-वाशब्द इति । अनेकान्तस्य विचारपर्यवसानस्थत्वमेवाहस एवेति । स्याद्वादः परिशुद्धनिखिलन्यायानां फलभूतत्वात् सर्वे विकल्पाः तत्तन्यायावलम्बिनः कोटिद्वये संक्षेपेण विधिरूपे प्रतिषेधरूपे च विभक्ताः, तत्र केन्चित्सद्रव्यपृथिव्यादिभावार्थग्राहिणोऽत एव विध्यात्मकाः, अपरे चानुमेयाभिधेयसम्बन्धि30 सामान्यधर्मविच्छिन्नविशेषान्यप्रतियोगिकप्रतिषेधात्मकार्थग्राहिणोऽत एव प्रतिषेधात्मका इति सर्वविकल्पा गृहीता इत्याह-इत्थं
सर्वन्यायेति , न्यायानां परिशुद्धिश्चैकान्तपरित्यागेनेति बोध्यम् । एवं च सर्वविकल्पानां पर्यवसानेऽवस्थायित्वात् स्याद्वादस्य
सि.क्ष. डे. छा. खत एव। .
.
.
.
......
..
..
.
...
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430