Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 387
________________ ९५६ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे यदि तु न तथेत्यादि, परमते दोषः, यदि येन प्रकारेण दृष्टः [शब्दो]येनैव प्रकारेण लिङ्गं दृष्टं तेनैव च प्रकारेण विधिना प्रकाशयतीतीष्टं 'न[:]त्वया तु किमिष्टम् ? अन्यापोहेनेति, ततः किं ? ततो नैव प्रकाशकं स्यात , कस्मात् ? सर्वस्यादर्शनात् , यथा विधेयमदृष्टं त्वन्मतेन तथा व्यावर्त्यमपि किंचिन्न दृष्टमवृक्षानन्याख्यम् , घटपटादिभेदानामानन्त्यात् , द्रव्यं द्रव्यं प्रति प्रतिद्रव्यमपोह्यस्यादर्शनात् 5 किं तद्वृक्षादग्नेरर्थादन्यत्-अवृक्षानन्याख्यमदृष्टमेव भवेत् , यतश्च बुद्धावृत्तिरिष्टा ? न ह्यदृष्ट्वाऽर्थमयं भवत्ययं न भवतीत्यन्वयव्यतिरेको भवितुमर्हतः, बुद्धेदृष्टानेव हि बुद्धिरन्वियादर्थान तेभ्य एव च व्यावतयेत् , यथा देवदत्तोऽयं यज्ञदत्तो नेत्यादि, नात्यन्तादृष्टखपुष्पवन्ध्यापुत्रादिविषया, एतदर्थप्रकाशनार्थमाहन हि स वृक्षोऽग्निर्वा भवति ततोऽन्यो वा घटादिः, अदृष्टत्वात् , वन्ध्यापुत्रवत् , दृष्ट एवा[य]मत्र [भवति] न भवत्यन्यो वा ततः, न च तेन दृष्टेनातुल्यमतच्छब्द-न स वृक्षशब्दोऽग्निशब्दो वा शब्दोऽस्य तदिदमतच्छ10 ब्दम् , अवृक्षोऽनम्यादि वा, तथा न तस्य रूपं रूपमस्य-अतद्रूपम् , किं कारणं ? यस्मात्तथा तथा-तेन तेन प्रकारेणादृष्टम्-घटपटकुड्यादिभेदप्रकारेणादृष्टत्वात् प्रतिपत्तुमशक्यम् , ततश्चाप्रतिपत्तेश्चेत्यादि, व्याख्यातार्थभेदरूपेणाग्रहणं तत एवान्योऽपि नास्ति, सति चाग्रहणेऽन्यस्य चाभावात् कस्य कथं वाऽपोहः स्यात् ?-प्रागुक्तविधिना किं केन कुतोऽपोह्यत इत्यादि ग्रन्थो योज्य इति । हतुमान अयं दोषोऽन्यापोहवादिमत इत्याह-परमतइति । तथा प्रकाशयतीति शब्दं शब्दलियोराश्रयेण व्याचष्टे-यदि येनेति, यो यथा 15 दृष्टः स तथैव प्रकाश्यो प्रकाशकश्चेति अस्माकमिष्टम् , तद्भावविधिरूपेण दृष्टस्तथैव प्रकाश्यः प्रकाशकश्चेति भावः । त्वया त्वेवं नाभि मतमपि त्वतद्रूपपरावृत्तिरूपेणेष्टमित्याह-त्वया विति, अन्यापोहेन प्रकाशयतीतीष्टमिति भावः। अन्यापोहेन तु शब्दो लिङ्गं वा प्रकाशकं नैव भवतीत्याह-ततो नैवेति । हेतुमाह-सर्वस्येति, यथा तव मते विधिरूपेण वस्तु न क्वचिद् दृश्यते किन्तु घटादि वस्तु अघटव्यावृत्तिरूपेणैव दृश्यत इति मन्यते तथा व्यावय॑मघटभूतपटाद्यपि न दृष्टम् , यतो घटभिन्न सर्व जगत् व्यावय॑म् , ते च पटादयोऽसर्वज्ञेन कथंड श्यन्ते अतः सर्वस्यादृश्यतेत्याह-यथा विधेयमिति। वृक्षशब्देन धूमलिङ्गेन च विधेयमित्यर्थः । 20 घटपटादिप्रत्येकवस्त्वपोह्यानन्त्यप्रयुक्तं किं तददृष्टमेव, यत्प्रतियोगिकव्यावृत्तिविषयिणी बुद्धिरिष्टा ? यद्येवं तर्हि व्यावृत्तव्यावर्त्य योरदर्शनेऽयमों भवत्ययन्तु न भवतीत्यन्वयव्यतिरेको कथं स्यातामित्याशयेनाह-द्रव्यं द्रव्यं प्रतीति । अन्वयव्यतिरेकाभावे हेतुमाह-बद्धेदृष्टानेवेति, दर्शनबुद्धिविषयीभूतानेवार्थान् बुद्धिरन्वेति ततो व्यावर्त्तयति च, यथा प्रत्यक्षविषयीभूतोऽयं देवदत्त इति देवदत्तत्वविधानं नायं यज्ञदत्त इति यज्ञदत्तत्वव्यावर्त्तनश्च भवति, न त्वत्यन्तायोग्यान् बुद्धिः स्पृशति, खपुष्पादीनिवेति भावः । न हि स इति, दर्शनबुद्ध्यविषयीभूत इत्यर्थः, वृक्षोऽग्निर्वा भवतीति शब्दलिङ्गाश्रयेणान्वयप्रदर्शनम्, ततोऽन्यो वा घटादिरितिव्यतिरे2 कप्रदर्शनम्. तदुभयमपिन भवतीति भावः। अन्वयव्यतिरेकबुद्धिःक्व भवतीत्यत्राह-दृष्ट एवेति, दर्शनबुद्धिविषयभूतवस्तुन्येवेत्यर्थः। व्यावर्त्य हि खेन रूपेण यदि न दृश्यते तर्हि व्यावर्त्यमिदं दृष्टेनाम्यादिनाऽतुल्यमतच्छब्दमतद्रूपञ्चेति न हि सुविज्ञेयमित्याह-नच तेनेति, अतच्छब्दमतद्रूपमिति, अवृक्षोऽनग्निर्वा घटपटादिः दृष्टस्य वृक्षस्याग्नेर्वा वाचको यो वृक्षशब्दोऽग्निशब्दो वा तेन न वाच्यः, तथा वृक्षस्याग्नेर्वा यत्वरूपं नासौ तत्स्वरूप इति दुर्विज्ञेयमिति भावः । कारणमाह-तथातथेति । तत्तद्व्यक्तिरूपेण घटपटादेरदृष्टत्वात्ततो. ऽतुल्यमतच्छब्दमतद्रूपमिति न हि प्रतिपत्तुं शक्यमिति भावः । यतश्च तथा नास्ति प्रतिपत्तिः वृक्षायादेरन्यत्वमपि घटपटादौ 30 नास्ति, व्यावृत्तव्यावर्त्ययोर्द्वयोरपि स्वरूपतः सिद्धौ उभयविषयमन्यत्वं सिद्ध्येत् , यदा च तस्यैवाग्रहणं तदा कोऽसौ तदन्यः ? यदपोहादवृक्षादिव्यावृत्तिः स्यात् कुतो वाऽसावन्य इत्याशयेनाह-व्याख्यातार्थेति, घटपटादीनां घटत्वपटत्वादिना भेदरूपेणा १ सि. क्ष. छा. डे. तेनैव। २ सि. क्ष. छा. डे. नन्वयानु। व्यावर्तितयथा। ३ सि. क्ष. छा. डे. बुद्धिरन्विपादर्थात्तेभ्यएवच Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430