________________
९५६
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे यदि तु न तथेत्यादि, परमते दोषः, यदि येन प्रकारेण दृष्टः [शब्दो]येनैव प्रकारेण लिङ्गं दृष्टं तेनैव च प्रकारेण विधिना प्रकाशयतीतीष्टं 'न[:]त्वया तु किमिष्टम् ? अन्यापोहेनेति, ततः किं ? ततो नैव प्रकाशकं स्यात , कस्मात् ? सर्वस्यादर्शनात् , यथा विधेयमदृष्टं त्वन्मतेन तथा व्यावर्त्यमपि किंचिन्न दृष्टमवृक्षानन्याख्यम् , घटपटादिभेदानामानन्त्यात् , द्रव्यं द्रव्यं प्रति प्रतिद्रव्यमपोह्यस्यादर्शनात् 5 किं तद्वृक्षादग्नेरर्थादन्यत्-अवृक्षानन्याख्यमदृष्टमेव भवेत् , यतश्च बुद्धावृत्तिरिष्टा ? न ह्यदृष्ट्वाऽर्थमयं भवत्ययं न भवतीत्यन्वयव्यतिरेको भवितुमर्हतः, बुद्धेदृष्टानेव हि बुद्धिरन्वियादर्थान तेभ्य एव च व्यावतयेत् , यथा देवदत्तोऽयं यज्ञदत्तो नेत्यादि, नात्यन्तादृष्टखपुष्पवन्ध्यापुत्रादिविषया, एतदर्थप्रकाशनार्थमाहन हि स वृक्षोऽग्निर्वा भवति ततोऽन्यो वा घटादिः, अदृष्टत्वात् , वन्ध्यापुत्रवत् , दृष्ट एवा[य]मत्र [भवति] न
भवत्यन्यो वा ततः, न च तेन दृष्टेनातुल्यमतच्छब्द-न स वृक्षशब्दोऽग्निशब्दो वा शब्दोऽस्य तदिदमतच्छ10 ब्दम् , अवृक्षोऽनम्यादि वा, तथा न तस्य रूपं रूपमस्य-अतद्रूपम् , किं कारणं ? यस्मात्तथा तथा-तेन तेन
प्रकारेणादृष्टम्-घटपटकुड्यादिभेदप्रकारेणादृष्टत्वात् प्रतिपत्तुमशक्यम् , ततश्चाप्रतिपत्तेश्चेत्यादि, व्याख्यातार्थभेदरूपेणाग्रहणं तत एवान्योऽपि नास्ति, सति चाग्रहणेऽन्यस्य चाभावात् कस्य कथं वाऽपोहः स्यात् ?-प्रागुक्तविधिना किं केन कुतोऽपोह्यत इत्यादि ग्रन्थो योज्य इति ।
हतुमान
अयं दोषोऽन्यापोहवादिमत इत्याह-परमतइति । तथा प्रकाशयतीति शब्दं शब्दलियोराश्रयेण व्याचष्टे-यदि येनेति, यो यथा 15 दृष्टः स तथैव प्रकाश्यो प्रकाशकश्चेति अस्माकमिष्टम् , तद्भावविधिरूपेण दृष्टस्तथैव प्रकाश्यः प्रकाशकश्चेति भावः । त्वया त्वेवं नाभि
मतमपि त्वतद्रूपपरावृत्तिरूपेणेष्टमित्याह-त्वया विति, अन्यापोहेन प्रकाशयतीतीष्टमिति भावः। अन्यापोहेन तु शब्दो लिङ्गं वा प्रकाशकं नैव भवतीत्याह-ततो नैवेति । हेतुमाह-सर्वस्येति, यथा तव मते विधिरूपेण वस्तु न क्वचिद् दृश्यते किन्तु घटादि वस्तु अघटव्यावृत्तिरूपेणैव दृश्यत इति मन्यते तथा व्यावय॑मघटभूतपटाद्यपि न दृष्टम् , यतो घटभिन्न सर्व जगत् व्यावय॑म् ,
ते च पटादयोऽसर्वज्ञेन कथंड श्यन्ते अतः सर्वस्यादृश्यतेत्याह-यथा विधेयमिति। वृक्षशब्देन धूमलिङ्गेन च विधेयमित्यर्थः । 20 घटपटादिप्रत्येकवस्त्वपोह्यानन्त्यप्रयुक्तं किं तददृष्टमेव, यत्प्रतियोगिकव्यावृत्तिविषयिणी बुद्धिरिष्टा ? यद्येवं तर्हि व्यावृत्तव्यावर्त्य
योरदर्शनेऽयमों भवत्ययन्तु न भवतीत्यन्वयव्यतिरेको कथं स्यातामित्याशयेनाह-द्रव्यं द्रव्यं प्रतीति । अन्वयव्यतिरेकाभावे हेतुमाह-बद्धेदृष्टानेवेति, दर्शनबुद्धिविषयीभूतानेवार्थान् बुद्धिरन्वेति ततो व्यावर्त्तयति च, यथा प्रत्यक्षविषयीभूतोऽयं देवदत्त इति देवदत्तत्वविधानं नायं यज्ञदत्त इति यज्ञदत्तत्वव्यावर्त्तनश्च भवति, न त्वत्यन्तायोग्यान् बुद्धिः स्पृशति, खपुष्पादीनिवेति भावः ।
न हि स इति, दर्शनबुद्ध्यविषयीभूत इत्यर्थः, वृक्षोऽग्निर्वा भवतीति शब्दलिङ्गाश्रयेणान्वयप्रदर्शनम्, ततोऽन्यो वा घटादिरितिव्यतिरे2 कप्रदर्शनम्. तदुभयमपिन भवतीति भावः। अन्वयव्यतिरेकबुद्धिःक्व भवतीत्यत्राह-दृष्ट एवेति, दर्शनबुद्धिविषयभूतवस्तुन्येवेत्यर्थः।
व्यावर्त्य हि खेन रूपेण यदि न दृश्यते तर्हि व्यावर्त्यमिदं दृष्टेनाम्यादिनाऽतुल्यमतच्छब्दमतद्रूपञ्चेति न हि सुविज्ञेयमित्याह-नच तेनेति, अतच्छब्दमतद्रूपमिति, अवृक्षोऽनग्निर्वा घटपटादिः दृष्टस्य वृक्षस्याग्नेर्वा वाचको यो वृक्षशब्दोऽग्निशब्दो वा तेन न वाच्यः, तथा वृक्षस्याग्नेर्वा यत्वरूपं नासौ तत्स्वरूप इति दुर्विज्ञेयमिति भावः । कारणमाह-तथातथेति । तत्तद्व्यक्तिरूपेण घटपटादेरदृष्टत्वात्ततो.
ऽतुल्यमतच्छब्दमतद्रूपमिति न हि प्रतिपत्तुं शक्यमिति भावः । यतश्च तथा नास्ति प्रतिपत्तिः वृक्षायादेरन्यत्वमपि घटपटादौ 30 नास्ति, व्यावृत्तव्यावर्त्ययोर्द्वयोरपि स्वरूपतः सिद्धौ उभयविषयमन्यत्वं सिद्ध्येत् , यदा च तस्यैवाग्रहणं तदा कोऽसौ तदन्यः ?
यदपोहादवृक्षादिव्यावृत्तिः स्यात् कुतो वाऽसावन्य इत्याशयेनाह-व्याख्यातार्थेति, घटपटादीनां घटत्वपटत्वादिना भेदरूपेणा
१ सि. क्ष. छा. डे. तेनैव। २ सि. क्ष. छा. डे. नन्वयानु। व्यावर्तितयथा।
३ सि. क्ष. छा. डे. बुद्धिरन्विपादर्थात्तेभ्यएवच
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org