________________
अपोहेन लिङ्गाद्यप्रकाशिता] द्वादशारनयचक्रम् कसम्बन्धस्यानुमानानुमेयसम्बन्धस्य चाविशिष्टत्वादैकध्येन द्विविधस्याप्यनुमानस्य ग्रहणम् , तत्र विशेषस्यैव वाच्यत्वादनुमेयत्वाञ्चार्थस्य सामान्यस्यासत्त्वान्नह्यभावो वाच्यः, खपुष्पवत् , तस्य-सामान्यस्यासत्त्वादेव पूर्वमदृष्टत्वे विशेषस्यैव दृष्टस्य कल्पितासत्यसामान्योपसर्जनद्वारेण वाच्यत्वात् शब्दस्यापि तथैव वाचकत्वात्-सामान्योपसर्जनोपायेन, तथाऽनुमानेऽपि विधिः, [अनं] तत्वात् लिङ्ग शब्दो धूमादि वा कथं गमकं भवति ? उच्यते-भेदानामविवक्षया सामान्यस्यैकत्वापादितं-[आपादितं]तेषामेकत्वं भेदानां यस्मिंस्तल्लिङ्गं । भेदाविवक्षापादितैकत्वसामान्यं लिङ्गं तद्भावापन्नो धर्मो धूमशब्दादिः, तथा भावितैकत्वस्य-तेन शब्दधूमादिप्रकारेण भावितमेकत्वं शाखादिभिन्नावयववतस्तरोः तापादिभिन्नकर्मवतश्चाग्नेः लिङ्गिनश्च, वाच्यलिङ्ग्यभेदात् प्रागुक्तन्यायेनात्मनैवात्मनो वाचकः आत्मनैवात्मनोऽनुमेयः, तद्भावदर्शनादेव सामान्यस्य विशेषप्रतिपादनार्थत्वात् शिविकावाहकयानेश्वरयानवद्गमक[त्वम् , तद्भावेनैवाग्नेरेव धूमत्वात् बद्धमूलादिविशिष्टतया धूमस्यैवाग्नित्वादादिमध्यान्तेषु अरण्यादीन्धनसन्धुक्षणमुर्मुराद्यवस्थधूमादिपुद्गलाग्नित्वात्, एव-10 मुक्तन्यायेन लिङ्गं गमकं लिङ्गी गम्यश्चेत्यदोष इत्यतीतं न्यायं स्मारयति ।
यदि तु न तथा प्रकाशयतीतीष्टं किन्त्वन्यापोहेन, ततो नैव प्रकाशकं स्यात् सर्वस्यादर्शनात्, प्रतिद्रव्यमपोह्यस्यादर्शनात् किं तदर्थादन्यददृष्टमेव भवेद्यतश्च बुद्धावृत्तिरिष्टा ? न हि स वृक्षोऽग्निर्वा भवति ततोऽन्यो वा, अदृष्टत्वाद्वन्ध्यापुत्रवत् , दृष्ट एवायमत्र भवति न भवत्यन्यो वा ततः, न च तेन दृष्टेनातुल्यमतच्छब्दमतद्रूपमवृक्षोऽनन्यादि 15 वा, तथा तथाऽदृष्टं हि प्रतिपत्तुमशक्यम् , अप्रतिपत्तेश्चान्यस्याभावात् कस्य कथं वाऽपोहः स्यात् ।
वेति व्युत्पत्त्या गमकत्वेकरूपेणात्र खार्थपरार्थलक्षणस्य द्विविधस्यानुमानस्य ग्रहणमिति । अर्थक्रियाया विशेष एव सम्भवेन तस्यैव प्रतिपादनेच्छया शब्दप्रयोगात् वाच्यत्वं तथाऽनुमेयत्वमपि, न तु सामान्यस्य, अर्थक्रियाऽसमर्थत्वेनासत्त्वादवाच्यत्वमननुमेयत्वं च खपुष्पवदित्याह-तत्र विशेषस्यैवेति, अस्य वाक्यस्यानेनैव विशेषेण विषयेण भवितव्यम्, अन्यस्यार्थस्याभावात्, स हि पूर्वमदृष्टः, 20 नापि पूर्वदृष्टेन कश्चनार्थः, श्रोतुरज्ञातज्ञापनार्थत्वाच्छब्दस्य, स एव विशेषः सामान्योपसर्जनोपायेन शब्देन ज्ञाप्यते, अतः स एव वाच्यः, शब्दोऽपि न सामान्यरूपो वाचकः, सामान्यस्यासत्त्वात् , किन्तु सामान्योपसर्जनद्वारेण विशेषशब्द एव, तथा चान्यव्यावृत्तिविशिष्टो विशेषशब्दोऽधूमव्यावृत्तिविशिष्टधूम इव वाचकः, अन्यव्यावृत्तिविशिष्टश्चार्थविशेषोऽनग्निव्यावृत्तिविशिष्टाग्निरिव वाच्य इति . भावः । विशेषस्यैव वाच्यत्वेऽनुमेयत्वे च तेषामनन्तत्वेनाविनाभावग्रहणानुपपत्तेः शब्दस्य धूमस्य वा गमकत्वं कथं स्यादित्याशङ्कते अनन्तत्वादिति । विशेषगतानां परस्परवैलक्षण्यानामविवक्षया तेषु सामान्यादेकत्वमापाद्य लिङ्गलिङ्गिवाच्यवाचकभावाविवक्षायां तद्भावदर्शनन्यायेन लिङ्गलिङ्गिनोर्वाच्यवाचकयोरमेदादत्रेत्यभिधेयप्रदेशधर्मत्वाच्च तयोः प्रत्यक्षाप्रत्यक्षसम्बन्धित्वविवक्षया प्रदेशस्यैवैकस्यात्मनैवात्मनः साध्यत्वात् साधनत्वाद्वाच्यत्वाद्वाचकत्वाच्च न गम्यगमकभावानुपत्तिरित्युत्तरयति-भेदानामविवक्षयेति । तथा भावितेति, यथा शब्दधूमयोरेकत्वं भावितं तथैव वाच्यस्य तरोलिङ्गिनश्चाग्नेरेकत्वं भाव्यमिति भावः । अविवक्षितविशेषमेदमनेकविशेषात्मकं सामान्य लिङ्गं तदेव च तथाविधलिङ्गिपरिणामभूतमीश्वरयानार्थशिविकावाहकयानवद्विशेषप्रतिपादनफलमिति दर्शयति-तद्भावदर्शनादेवेति, पदमिदमतीतन्यायस्मारकमित्याह-तद्भावेनैवेति । एवमनभ्युपगमे दोषमाह-यदि त्विति । 30
१ सि. क्ष. डे. छा० साम्यान्वस्यैकत्वापितं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org