________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे न च सम्भवोऽस्तीत्यादि, वृक्षशब्दस्य शक्तिर्नास्ति सर्वानवृक्षान् व्यतिरेचयितुम् कस्मात् ? आनन्त्यात्, आनन्ये हि भेदानामित्यादिग्रन्थव्याख्यातन्यायवदवृक्षार्थानां घटपटादीनामानन्त्याव्यतिरेचनाभावे न्यायो द्रष्टव्यः, सर्ववृक्षार्थान्वयवदिति दृष्टान्तः यथा सर्वे वृक्षार्था आनन्त्यात् सम्बन्धाशक्यत्वादन्वयाभावाच्चानभिधेयाः तथा बहुतरव्यावर्त्यघटपटाद्यनन्तत्वादव्यतिरेकः, तथा धूमस्योद5 कादिसर्वानग्निव्यतिरेचने सामर्थ्याभावो वाच्यः, सर्ववृक्षानन्यादन्वयवदिति, अत्र परिहारस्त्वयोक्त आशंक्यते यत्तूच्यत इत्यादि, अन्वयगतदोषभावं व्यतिरेकगतगुणश्च दर्शयति ग्रन्थः-अतुल्ये सत्यप्यानन्त्य इत्यादि, ततोऽन्यस्याभावमात्रं सामान्यतो व्यतिरेचनीयं तद्भेदरूपाण्यसंस्पृ[श]ता शब्देन लिङ्गेन वा, तस्माददोष इति परिहारः, अत्र ब्रूमः, न दृष्टवदित्यादि, यदि दृष्टवद्विधिरूपेण लिङ्गं लिङ्गिनं न प्रकाशयेत् सर्वत्र लिङ्गिन्यदर्शनात्तल्लिङ्ग लिङ्गमेव न स्यात् , अगतिर्वा सर्वथा भवेत् कस्यचिदप्यर्थस्येति पिण्डार्थः, 10 एतद्व्याख्या-लिङ्गमपदेशः कारणं निमित्तमित्यादिपर्यायकथनम् , शब्दः परार्थः, धूमादिः स्वार्थः, वाच्यवाच
mmmmmmm
वृक्षशब्दस्य ह्यर्थोऽवृक्षव्यावृत्तिमान् वाच्यः, तत्रावृक्षो वृक्षभिन्नो घटपटादिशब्दवाच्यो घटपटादिस्तथा च यथा सर्ववृक्षेषु वृक्षशब्दस्य शक्तिर्नास्ति तथा तान् घटपटादीन् व्यावर्त्तयितुमपि तस्य शक्ति स्ति, आनन्याध्यावानामिति भावः। तमेव हेतुमाहआनन्त्यादिति । प्रागुक्तहेतुव्याख्यानमत्रातिदिशति-आनन्त्ये हि भेदानामित्यादीति । भेदानां ह्यानन्त्ये घटपटादीनां सम्बन्धः शब्देनाख्यातुमशक्यः, न चाकृतसम्बन्धस्तेषामभिधायको यथा तथैव व्यावानां मेदानामानन्त्याच्छङ्गग्राहितया न घट15 पटादीन् व्यावर्त्तयितुं क्षम इति भावः । दृष्टान्तमाह-सर्ववक्षार्थति । दृष्टान्तं विशदीकरोति-यथा सर्व इति । दार्टान्तिकमाह-तथा बहुतरेति। अथ साधनात्मकं लिङ्गमुपादाय व्याकरोति-तथा धूमस्येति, यथा निखिलानां वृक्षाणामानन्त्येन शब्देन सह सम्बन्ध आख्यातुमशक्यस्तथाऽनग्निव्यावृत्तिमद्गमकतयेष्टस्य धूमस्यानग्निभूतान् घटपटादीन् व्यावान् शृङ्गग्राहितया व्यावर्तयितुं नास्ति सामर्थ्यमिति भावः । ननु भवतु वृक्षशब्देन सर्ववृक्षाणामभिधानासम्भवः सम्बन्धाशक्यत्वात्, व्यतिरेचनन्तु
सम्भवति, नहि येऽवृक्षा घटपटादयो विशेषास्ते व्यावर्तनीयाः किन्त्ववृक्षसामान्य व्यावत्यै शब्देन, लिङ्गेन चानग्निसामान्यमित्या20 शङ्कते-यत्तूच्यत इत्यादीति । यद्वस्तु येन रूपेण दृश्यते तत्तथाऽप्रतिबोधयल्लिङ्ग शब्दो वा कथं तल्लिङ्ग शब्दो वा स्यात् , ताभ्यां हि येन रूपेण बोध्यते वस्तु न तथा तद् दृश्यते तस्मात् कस्यचिदप्यर्थस्यावगति व स्यादित्याशयेनोत्तरयति-न दृष्टवदिति। सर्वत्र लिङ्गिनीति, न हि सर्वत्र लिङ्गिनि लिङ्गस्य सम्भवोऽस्तीत्युक्तत्वात् सर्वलिङ्गयप्रकाशकत्वेन न तल्लिङ्गमिति भावः । अन्यापोहरूपेण वस्तुनोऽदर्शनात्तथा बोधनेऽगतिः पदार्थानामित्याह-अगतिर्वेति। लिङ्गपदेन शब्दहेत्वोर्ग्रहणे युक्तिमाह-लिङ्गमप
देश इति, लिङ्गं हेतुरपदेशः शब्द इति पर्यायत्वात् स्वार्थलक्षणं लिङ्गं परार्थलक्षणोऽपदेशरूपः शब्दश्च लिङ्गपदेन गृहीत इति भावः। 25 हेतुमाह तयोरैक्येन ग्रहणे-वाच्यवाचकेति, अनुमानानुमेयसम्बन्धाभिधानाभिधेयसम्बन्धयोर्विशेषो नास्ति, अयं भावः
शब्दस्यार्थेन सह जात्या व्यक्त्या वा संयोगादिसम्बन्धो न सम्भवति वास्तवः व्यक्त्यन्तरपरित्यागेन व्यक्त्यन्तरप्रवृत्त्ययोगात्, दृष्टञ्च गामानयेत्युक्ते गोविशेषानयनम्, सर्वत्र जातेरसम्भवाच्च, व्यक्तीनामनित्यत्वेन तेनैव सहोत्पन्नस्य सम्बन्धस्यानुपकारिणि शब्देऽसमाश्रयत्वात् , अत एव योग्यतापि न सम्बन्धः, भेदाभेदविकल्पाभ्यां तदसम्भवात् , ननु तर्हि शब्दार्थयोः सम्बन्धाभावे
शब्दादर्थप्रतीतिः कथमिति चेदुच्यते, वक्तुरर्थविशेषप्रतिपादनेच्छाजनितः शब्दः स्वप्रतिपादनाभिप्रायप्रकाशितमर्थ सूचयति 30 तदभिप्रायादिदं वचनमागतमिति विदुषः, तथा च तदभिप्रायवचनयोः जन्यजनकभावात् शब्दादर्थप्रतिपत्तिरविनाभावात् , अन्यथा
तथाविधार्थप्रतिपिपादयिषया तथाविधशब्दप्रयोगानुपपत्तेः । न चाविनाभावेन शब्दादर्थप्रतीतौ शब्दस्य धूमस्येव वाचकत्वं न स्यादेवमग्नेरिवार्थस्य वाच्यत्वमिति वाच्यम्, इममर्थ शब्देन प्रतिपादयामीति प्रतिपादनाभिप्रायाच्छब्दप्रयोगे कृते शब्दस्य वाचकरूपतयैवोत्पत्तः, एवञ्चाविनाभावात् वाच्यवाचकभावादसावनुमानानुमेयसम्बन्ध एवेति लिङ्गयते गम्यते लिङ्गी अर्थो वाऽनेन लिङ्गेन शब्देन
१ सि. क्षा. छा. डे. भामास्थान. । २ सि. क्ष. छा. डे. दोषाभावं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org