________________
anvivimanam
wwanmmmm
अन्वयव्यतिरेकाभावाख्यानम्] द्वादशारनयचक्रम्
९५३ किश्चान्यत्
यत्पुनर्निरुक्तीकृत्यान्वयासम्भवं व्यतिरेकासम्भवमाशङ्कयोक्तं स्यादेतद्व्यतिरेकस्याप्यसम्भव इति, तद्युक्तमुक्तम् , उक्तसंयोगिवद्विधिवृत्तिमन्तरेणान्वयव्यतिरेकयोरभावात् , अन्वयव्यतिरेको हि प्रत्ययात्मकौ, न वस्तुगते तुल्यातुल्ययोवृत्त्यवृत्ती त्वदुक्ते, विशेषस्यैव वस्तुत्वात् ।
यत्पुनर्निरुक्तीकृत्येत्यादि, त्वयाऽन्वयव्यतिरेकावर्थानुमाने द्वारमित्युक्त्वा गुणसमुदाये । डित्याख्येऽर्थे काणकुण्टाद्यवयवान्वयानभिधानादन्वयासम्भवं निरुक्तीकृत्यान्वयासम्भव[व] व्यतिरेकासम्भवमाशङ्कयोक्तं स्यादेतद्व्यतिरेकस्याप्यसम्भव इति तद्युक्तमेतत्त्वयोक्तम् , कस्मात्? उक्तसंयोगिवद्विधिवृत्तिमन्तरेणान्वयव्यतिरेकयोरभावात् , तयोरेव तावल्लक्षणम् , अन्वयव्यतिरेकौ हि प्रत्ययात्मकौ-समानभवनानुवृत्तिप्रत्ययोऽन्वयः, तद्विपरीतो व्यतिरेकः, न वस्तुगते तुल्यातुल्ययोवृत्त्यवृत्ती त्वदुक्ते, कस्मात् ? विशेषस्यैव वस्तुत्वात् , अस्य नयस्य स्याद्वादेऽनेकात्मकत्वात् ।
तत्रान्वयाभाव उक्त एव त्वया, अस्माभिश्च त्वन्मतवत् व्यतिरेकाभावोऽधुनोच्यते
न च सम्भवोऽस्ति लिङ्गस्य सर्वान् व्यावान् व्यतिरेचयितुम् , आनन्त्यात् , सर्ववृक्षार्थान्वयवत् , यत्तूच्यतेऽतुल्ये सत्यप्यानन्त्ये ततोऽन्यस्याभावमात्रं सामान्यतो व्यतिरेचनीयं लिङ्गेनेति, अत्र ब्रूमः, न दृष्टवल्लिङ्गं लिङ्गिनं यदि प्रकाशयेत् सर्वत्र लिङ्गिन्यदर्शनात्तल्लिङ्गं लिङ्गमेव न स्यात् , अगतिर्वा सर्वथा भवेत् , लिङ्गमपदेशः कारणं निमित्तमित्यादि, 15 तत्र विशेषस्यैव वाच्यत्वादनुमेयत्वाच्च सामान्यस्यासत्त्वादेव पूर्वमदृष्टत्वे विशेषस्यैव दृष्टस्य कल्पितसामान्योपसर्जनद्वारेण वाच्यत्वम् , शब्दस्यापि तथैव वाचकत्वम् , तथाऽनुमानेऽपि, भेदाविवक्षापादितैकत्वसामान्यलिङ्गभावापन्नधर्मस्तथाभावितैकत्ववाच्यलिङ्गयभेदात्तद्भावदर्शनादेव गम्यो गमकश्च । तत्र तु तुल्ये नावश्यं सर्वत्र वृत्तिराख्येया, अर्थस्य क्वचिदानन्ये आख्यानासम्भवात् न हि वृक्षशब्दस्य सर्वेषु वृक्षेषु दर्शनेनापि 20 वृत्तेराख्यानसम्भवः, तस्मान्नानुमानमित्यन्वयाभावः, यद्यपि क्वचिड्डित्थादिषु सम्भवोऽस्ति तथापि काणकुण्टादिगुणसमुदायरूपस्य डित्थादेः सर्वात्मनाऽप्रतीतेन तद्वारेणानुमानम्, अत एव व्यतिरेकस्यातुल्ये सर्वस्मिन्नवृत्तिस्वरूपस्याप्यसम्भव इति यदुक्कं त्वया तदपि युक्तमेवोक्तमिति प्रदर्शयितुं तन्मतमाह-यत्पुनरिति । व्याचष्टे-त्वयेति, व्याख्या स्पष्टा । तदुक्तियुक्ततासाधकमाहउक्तसंयोगिवदिति, एकस्यैव प्रदेशस्य लिङ्गित्वालिङ्गत्वाच साध्यसाधनवत्तया भेदविवक्षायामङ्गुल्योरिव संयोगिवद्विधिवृत्त्या. न्योऽन्यप्रधानोपसर्जनभावेन नियमेन भवन्तौ तावग्निधूमादिधौ साध्यसाधने भवत इति पूर्वोदितसंयोगिवद्विधिवृत्तिमन्तरेण 25 नान्वयव्यतिरेको भवत इति भावः । त्वया तुल्ये सर्वत्र वृत्तिरन्वयः, अतुल्ये सर्वत्रावृत्तिर्व्यतिरेक इति वस्तुनो धर्मभूतो सामान्यस्वरूपावन्वयव्यतिरेको प्रदर्शितौ, अस्मिश्चोभयनियमारेऽनेकैकात्मकवस्तुविषयस्याद्वादस्यैकदेशभूतानेकात्मकविशेषस्यैव वस्तुत्वाभ्युपगन्तरि त्वदुक्ततथाविधवृत्त्यवृत्त्यभावादन्वयव्यतिरेको ज्ञानस्वरूपावेवेत्याशयेनाह-तयोरेव तावदिति, अन्वयव्यतिरेकयोरेव तावदित्यर्थः, समानभवनात्मा याऽनुवृत्तिस्तद्विषयज्ञानमन्वयः, असमानभवनरूपव्यावृत्तिविषयविज्ञानं व्यतिरेक इति तयोर्लक्षणमिति भावः । त्वदुपदर्शितो पदार्थधर्मो न तावित्याह-न वस्तुगते इति । अन्वयाभावस्य त्वयैवोपपादितत्वादधुना 30 व्यतिरेकासम्भव एव मयोच्यते इत्यवतारयति मूलम्-तत्रान्वयाभाव इति । लिङ्गं शब्दो धूमादिसाधनं वाऽन्यान्
योनपोदुमसममित्याह-न च सम्भव इति । तत्र शब्दात्मक लिङ्गमुपादाय व्याकरोति-वृक्षशब्दस्यति, १ सि.क्ष. छा. डे. अस्मादुक्तः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org