________________
९५२ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे सत्येव कारणम् , शिवकादिविनाशक्रमेण, एतदर्थभावना गतार्था, अग्निसान्निध्यार्थेत्यादि यावद्धटकृतकत्ववदिति, तथा शब्देऽपि भावयितव्यं प्रयत्नान्तरीयकत्वानित्यत्वयोरिति, अस्मादेव च न्यायाद्यदप्युक्तं त्वया 'नाशिनः कृतकत्वेन' इत्यादिकारिकया एकतो व्याप्तिगमकत्वप्रदर्शनार्थ, तदप्येवमव्ययं 'नाशिनः कृतकत्वेन व्याप्तेस्तत्कृतकं कृतम् । अनित्यत्वमभिव्याप्त्या कृतकेऽर्थे प्रदर्श्यते ॥' ( ) तद्व्याख्या चेय5 मित्यादि यावत् कृतकत्वस्यानित्यत्वमिति, गतार्थम् , स्थापितमित्यनुवर्तनादिति, एतस्मादेव न्यायाद्यो ह्युक्तः 'विषाणित्वेन गौाप्तः' इत्यादि श्लोकः सोऽपीत्थं पठितव्यः 'विषाणित्वेन गौाप्तो विषाणित्वं प्रसाधयेत् ।' गोत्वाद्विषाणीति संयोगिवद्विधिवृत्तेः साधयेद्विषाणितां गोत्वम् , तेनैव नियतत्वात् , विषाणित्वं पुनरस्मादेव न्यायात् 'गव्येवानियमात्तत्तु न गवार्थप्रसाधनम्' [ एवं ] तावदित्यादि भक्त्याऽर्थोपसंहारो द्वयमप्युक्तम् ,
अन्यापोहविशिष्टार्थैकदेशान्वयदर्शनादनुमानमभिधानं वा आधाराधेयवद्वृत्त्या न गमयतीत्युक्तम् , अत्र च 10 पक्षे कांश्चिदोषानत्यदिशाम यदीदृशं न पाठान्तरम् , संयोगिवद्विधिवृत्त्योभयतो व्याप्त्या गमयतीत्यत्र च पक्षे गुणानभ्यधामेत्येवंशब्देन स्मारयति ।
न सम्भवति, यथा शिवकस्थासककोशकादिपूर्वपूर्वखभावविनाशमन्तरेणोत्तरोत्तरस्वभावो नोत्पद्यत इति पूर्वस्वभावविनाश उत्तरखभावोत्पत्तेर्हेतुस्तथोत्तरवर्णोत्पत्तावपि पूर्वपूर्ववर्णविनाशो हेतुः, एवं पूर्वपूर्वस्योत्पत्तिं विना विनाशोऽपि न भवति, अत उत्पत्तिरपि
हेतुर्विनाशस्य, विनाशोऽनित्यत्वं, उत्पत्तिः कृतकत्वम् , एवञ्च कृतकत्वे सति अनित्यत्वसान्निध्यस्य, अनित्यत्वे सति कृतकत्वसान्निध्यस्य 15 चावश्यं भावादुभयतो व्याप्तेः कृतकत्वमनित्यत्वसान्निध्यं गमयतीति भावः । ननूभयतो व्याप्तिः सत्येव यदि कारणं तर्हि
यत्रोभयतो व्याप्तिर्नास्ति प्रयत्नानन्तरीयकत्वानित्यत्वादिस्थले तत्र कथं प्रयत्नानन्तरीयकत्वस्य गमकत्वमित्याशयेनाह-तथा शब्देऽपीति, विद्युदभ्रादावपि प्रयत्नानन्तरीयकत्वं प्राक् साधितमेव, अत उभयतो व्यभिचाराभावात् परस्परसंसृष्टा व्याप्तिः सत्येव कारणमिति भावः । एवञ्चैकतो व्याप्तेर्गमकत्वप्रदर्शनपरकारिका त्वदीया किञ्चित्परिवर्त्य पठ्यमाना युज्यत इत्याशयेन तदीय
कारिकां दर्शयति-नाशिन इति, अनित्यत्वस्याविनाभाविना कृतकत्वेन व्याप्तौ सत्यामपि प्रयत्नामन्तरीयकत्वव्याप्तिमताऽनित्यत्वेन 20 प्रयत्नानन्तरीयकत्वं यथा नाऽनुमीयते तथा नानित्यत्वस्य गमकत्वम् , कृतकत्वस्याविनाभाविनाऽनित्यत्वेन व्याप्तिस्तु कारणमिति
तत्कारिकाभावार्थः, परिवर्त्य पठति-नाशिनः कृतकत्वेनेति । अत्र व्याख्या न स्फुटाऽतो न व्याख्यायते । एकतो व्याप्तेर्गमकत्वे निदर्शनतया प्रोक्तां कारिका प्रदर्य तां परिवर्त्य पठति-एतस्मादेवेति, विषाणित्वेन व्याप्तो गौरविषाणिनिवर्तकः, तथाविवक्षितत्वात् , गोत्वेन व्याप्तं विषाणित्वं नागवार्थनिवर्त्तकमविवक्षितत्वादिति तदीयकारिकार्थः। परिवर्त्य पठितां कारिकां दर्शयतिविषाणित्वेनेति । गोत्वं विषाणित्वञ्च गवि संयुक्ताङ्गलिद्वयवद्विधिरूपेण वर्तते न त्वगोव्यावृत्तिरूपेणाविषाणिव्यावृत्तिरूपेण च, ययोश्च 25 यथाभावेन दर्शनमस्ति तयोस्तथाभावेनैव सिद्धिर्भवति, गोत्वस्यैव विषाणित्वेन नियतत्वं दृष्टमतो गोत्वं विषाणित्वं गमयति, विषाणित्वस्य गोत्वेन नियतत्वं न दृष्टमपि तु अनियतत्वमेव दृष्टमतस्तन्न गवार्थगमकमिति भावमाह-गोत्वादिति । गव्येव विषाणित्वमस्तीति नियमाभावात्तन्न गोरूपमर्थ साधयितुमलमित्याह-विषाणित्वं पुनरिति । तथा दृष्टविधिवृत्तेरनुमानमित्यस्मादेव न्यायादनियतरूपतयैव दृष्टत्वान्नानुमानमिति भावः। तदेवं तद्भावदर्शनविधेरेव गमकत्वागमकत्वे विभज्योपदर्शिते इत्युपसंहरति
एवंतावदिति, अधूमानग्निव्यावृत्ते पक्षेऽधूमव्यावृत्तिदर्शनादनग्निव्युदासेनाग्निप्रतीतिराधाराधेयवद्वृत्त्या भवतीत्यनुमानम्, शब्दोऽपि 30 तथाऽनुमान मित्येवं यस्तव पक्षस्स न सम्भवतीति दोषा यथाऽस्माभिस्त्वदीयाः कारिकाः परिवृत्त्य प्रदर्शितास्तथाऽनभ्युपगमे प्रदर्शिताः, संयोगिवद्विधिवृत्त्योभयतो व्याप्त्या गमयतीत्यत्र च गुणा उक्ता इति भावः । नन्वभिधानाभिधेयसम्बन्धोऽनुमानानुमेयसम्बन्धरूप एव, यथैवान्वयव्यतिरेकाभ्यां धूमादम्यनुमानं तथैव शब्दादर्थानुमाने तावन्वयव्यतिरेको तुल्यातुल्ययोवृत्त्यवृत्त्यात्मको द्वारं भवति,
१ सान्निध्यार्थेबि. सि.क्ष. छाडे. कारिकाया ए.। २ सि. क्ष. छा. डे. प्रदर्शनार्थ । ३ सि. क्ष. डे. छा. अनित्यत्वंत्वदभिण्याच्या कृतकोऽये प्रदर्शिते। ४ सि क्ष. छा. डे. जेयः। ५ सि. क्ष. छा. डे. 'नतिदेशामयदीदृशान ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org