________________
बौद्धकारिकाशिक्षणम्]
द्वादशारनयचक्रम् एकतो व्याप्तिं विषाणित्वादिकल्पां दर्शयति, यस्माद्व्याप्तिरेवंविधा परस्परसंसृष्टाऽपेक्ष्यते गावर्थस्य, तस्मात् सत्येव व्याप्तिः साधनमित्यभिसंभत्स्यते, विशब्दस्य वैविध्यार्थत्वात् तद्दर्शयति-अस्मदिष्टा वैविध्येन व्याप्तिरुभयाव्यभिचारात्मिका तस्मात्किम् ? स्फुटमेवान्वयात्मको दृष्टान्तो नोच्यतेऽस्माभिः, यत्र यत्रेत्यादिरुभयव्याप्तिप्रदर्शनो गतार्थो यावत् सत्येव साधनमित्युक्त्युपसंहार इति, तस्मात् दृष्टान्तलक्षणमपि 'साध्येनानुगमो हेतोः' इत्यादिप्रयोगनियमाभिधानात्मकमनर्थकमथवा भ्रान्तश्च ।
अत्रान्वयिधूम:
यथाऽग्निसान्निध्यार्थविशेषणै—मात्मलाभाद्भूमवत्त्वमग्निसान्निध्यसाधकं तथा शब्दकृतकत्वं, पूर्वपूर्ववर्णविनाशस्योत्तरोत्तरवर्णोत्पत्तेः कारणत्वात् , शिवकादिविनाशक्रमेण घटकृतकत्ववत् , अस्मादेव च न्यायाद्यदप्युक्तं त्वया 'नाशिनः कृतकत्वेने'त्यादि तदप्येवमव्ययं 'नाशिनः कृतकत्वेन व्याप्तेस्तत्कृतकं कृतम् । अनित्यत्वमभिव्याप्त्या कृतकेऽर्थे प्रदर्श्यते ।। 10 तद्व्याख्या चेयं.............
............कृतकत्वस्यानित्यत्वमिति, एतस्मादेव न्यायात् यो युक्तः 'विषाणित्वेन गौाप्तः' इत्यादिश्लोकः सोऽपीत्थं पठितव्यः, 'विषाणित्वेन गौाप्तो विषाणित्वं प्रसाधयेत् । गव्येवानियमात्तत्तु न गवार्थप्रसाधनम् ॥' गोत्वाद्विषाणीति संयोगिवद्विधिवृत्तेः साधयेत् विषाणितां गोत्वम् , तेनैव नियतत्वात् , विषाणित्वं पुनरस्मादेव न्यायात् गवार्थ न साधयेत् , एवं तावदाधाराधेयवद्वृत्तिपक्षे ।। दोषाः संयोगिवद्विधिवृत्तिपक्षे गुणाश्चेति द्वयमप्युक्तम् ।
यथेत्यादि, एवं कृत्वा यथाऽग्निसान्निध्याथै विशेषणैः धूमात्मलाभादग्निसान्निध्यसाधकं [धूमवत्त्वं] तथा कृतकत्वं घटादौ घ[ काराकार टंकाराऽकारविसर्जनीयानां पूर्वस्य पूर्वस्य विनाश उत्तरोत्तरोत्पत्तेः कारणं तत एव विनाश; अनित्यत्वादुत्पत्तेः कृतकत्वस्यात्मलाभादनित्यत्वसान्निध्यं गमयतीत्युभयतो व्याप्तिः सामान्यपदमन्यव्यावृत्तिद्योतकम् । कुत इत्यत्राह-यस्मादिति, अर्थस्य गतौ यस्मात् परस्परसंसृष्टा व्याप्तिरपेक्ष्यते तस्मादित्यर्थः । 20 एवञ्च विद्यमानव्याप्तिः कारणमेव नाकारणमिति दर्शयति-तस्मादिति । कथं व्याप्तिः परस्परसंसष्टेत्यत्राह-विशब्दस्येति. विविधप्रकारेणाप्तिाप्तिरित्यत्र वीत्युपसर्गस्य वैविध्यार्थत्वादिति भावः । कथं वैविध्यं विवक्षितमित्यत्राह-अस्मदिति । परस्परव्याप्तिरग्निपरिणामभूतबद्धमूलत्वादिविशेषणविशिष्टधूमस्याग्नेश्च प्रसिद्धाप्रसिद्धसम्बन्धित्वविवक्षयैकस्यैव प्रदेशस्य साध्यसाधनत्वयोरस्मदिष्टा, अत एव यत्र धूमस्तत्राग्निरिति यत्राग्निस्तत्र धूम इति दृष्टान्तो नोपदीते, व्याप्तिग्रहार्थं हि दृष्टान्तप्रदर्शनम् , व्याप्तिश्चाग्नितत्परिणामधूमविशेषयोः परिणामपरिणामिभावादेव परिस्फुटमवगतैवेति नार्थस्तेनेत्याशयेनाह-स्फुटमेवेति । एवं 25 परार्थानुमानेऽवश्यं दृष्टान्तप्रयोगः कार्य इत्यपि नियमोऽनर्थकः, रन्धनगृहेऽस्मिन् धूमोऽन्वयीति नियमेनाभिधानं भ्रान्तमेव, दृष्टान्तमन्तरेणापि उभयाव्यभिचारात्मकव्याप्तिज्ञानसम्भवादित्याह-तस्मात् दृष्टान्तेति । अग्निधूमयोर्यथोभयाव्यभिचारात् परस्परसंसृष्टा व्याप्तिस्तथैव कृतकानित्यत्वयोरपीति दर्शयति-यथेति । सामान्यतो धूमे साध्येऽग्नेरिवानौ साध्ये धूमोऽपि व्यभिचारीत्युभयव्यभिचारवारणायामिपरिणामभूतस्य बद्धमूलत्वादिविशेषणविशिष्टस्यैव धूमस्य गमकत्वात् स यथाऽग्निमत्त्वं गमयति तथाऽग्नेः सन्निहितत्वं निमित्तत्वञ्च गमयति तद्वत् शब्दनिष्ठं कृतकत्वमपीत्याह-एवं कृत्वेति, अग्निसान्निध्यगमकैर्बद्धमूलत्वादिविशेषणैर्यतस्यैव 30 धूमस्याग्नित आत्मलाभादग्निवदग्निसान्निध्यसाधकत्वं यथा तथा घटादिशब्दगतकृतकत्वस्यापि, तद्धि कृतकत्वं पूर्ववर्णविनाशमन्तरेण
सि.क्ष. छा. डे. गतादर्थस्य । २ सि.क्ष. छा. डे. द्वैविध्या०। ३सि.क्ष. छा. डे. कंमवाभ्रांतं वात्रत्वापिधूमः। ४ सि. क्ष. डे. छा. सानिध्यार्थेवि०। ५ सि.क्ष. छा.डे. °टाका०। ६ सि.क्ष. छा. डे. दनित्यत्वसान्निध्यमेवानित्यत्वसानिध्यं ।
द्वा० ४३ (१२०)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org