________________
९५०
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे अत एव चेत्यादि सहेतुकं प्रतिज्ञातं निगमयति यत्तद्गोविषाणवत्-यच्छब्दो यस्मादर्थे, तच्छब्दस्तन्निर्देशे, यस्माद्गोविषाणवदेकतो न व्यभिचरति तस्मादुभयं लिङ्ग लिङ्गि वेति ग्राह्यम् , तद्व्याख्या-विषाणं हीत्यादि, असाधर्म्यदर्शनं गोविषाणयोः कृतकानित्यत्वयोश्च गतार्थं प्रमेयत्ववत् व्यभिचारि विषाणित्वम् , इतरो धूमः तद्वद्गौरव्यभिचारीति, किं कारणमित्थमिति चेत्-अस्मदुक्ताया व्याप्तेविधिरूपाया एव गम्यगमक5 त्वादिति, अत आह-'विधेयार्थे'त्यादि श्लोकः, अत्रापि न यथा त्वयोच्यते-प्रतिषेध्याप्रचारेणेत्यादि, तद्व्याख्या-विधेयो भाव इत्यादि, भावग्रहणमभावरूपायाः व्याप्तेर्निराकरणार्थम् , कस्माद् ? अर्थत्वादेव तस्य भावस्य नाभावः प्रतिषेध्यः, तत्राप्रचारः स चाप्रमाणफलं भवितुमर्हति, अर्थान्तरस्यात्यन्ताभावस्य वा विवक्षितत्वात् , प्रागुक्तदोषसम्बन्धाच्च, प्रकर्षेण गतिः प्रचारः-वस्तुयथाभावावगम इत्यर्थः, अनुत्पिञ्जलेगमनिकेति, तदर्थगमनमन्यथागमनम् वैधयेण, न यथा त्वदिष्टमिति दर्शयति, न धूमसामान्याग्निमद्गतिवदिति,
10 तिवद्भेदं कृत्वा साध्यधर्मस्य लिङ्गत्वे साधनधर्मस्य लिङ्गित्वेऽपि गम्यगमकतां ब्रूम इति तत्सहेतुकं निगमयतीत्याह-सहेतुकमिति ।
अत एव चेति पदेन हेतुरुपनिबद्धः, धूमस्याग्निपरिणामत्वेन बद्धमूलत्वादिविशेषणयुतस्यैव तस्य परिणामत्वेन तथाविधतत्सत्त्वेऽग्नेरग्निसत्त्वे च तथाविधस्य तस्य सद्भावेनाव्यभिचारादुभयलिङ्गलिङ्गित्वादेव गोविषाणवैधयेणाग्निधूमोभयं लिङ्गत्वं लिङ्गित्वञ्च भजत इति भावः । यस्मादिति, यस्माद्दोः साध्यत्वे विषाणित्वं व्यभिचरति, न च विषाणित्वस्य साध्यत्वे गोत्वं व्यभिचरतीत्येकतो
व्यभिचारि विषाणित्वं धूमानी तु न तथा तस्मादुभयं लिङ्गं लिङ्गि वा यथाविवक्षं भवत इति भावः । उक्तमेव व्याख्यया पोषयति15 तद्व्याख्येति, गोः साध्यत्वे प्रमेयत्ववद्विषाणित्वं व्यभिचारि विषाणित्वस्य साध्यत्वे धूमवद्गोत्वमव्यभिचारीत्येकतो व्यभिचारः,
कृतकत्वानित्यत्वयोस्तूभयथाऽपि न व्यभिचारः, इदमेव गोविषाणयोः कृतकानित्यत्वयोश्चासाधर्म्यमिति भावः । ईदृशे वैविध्ये किं निबन्धनमित्यत्राह-अस्मदुक्ताया इति, तद्भावदर्शनाद्विधिरूपेण साध्यसाधनयोर्गम्यगमकभावस्योक्तत्वादिति भावः । इदमेव निबन्धनं का रिकया खया दर्शयति-विधेयार्थेतीति 'विधेयार्थप्रचारेण यस्माद्व्याप्तिरपेक्ष्यते। लिङ्गे लिङ्गिनि च व्याप्तिः तस्मात्
सत्येव कारणम् ॥' इति कारिकाऽत्र सम्भाव्यते । त्वया लिङ्गे लिङ्गिानि च स्वलक्षणे सत्यपि व्याप्तिः कारणत्वेन नेष्यते तत्र 20 प्रत्यक्षातिरिक्तप्रमाणप्रवृत्त्यनभ्युपगमात् , तदतिरिक्तप्रमाणानाञ्च प्रतिषेध्येऽप्रवृत्त्या तदपोहलक्षणसामान्य एव प्रवृत्तिरभ्युपगम्यते,
यत उच्यते त्वया 'प्रतिषेध्याप्रचारेण यस्माद्व्याप्तिरपोहते । लिङ्गे लिशिनि च व्याप्तिस्तस्मात् सत्यप्यकारणम् ॥' इति तदयुक्त. मित्याशयेनाह-अत्रापीति, यथा त्वया कारिकयोच्यते न तथा, किन्तु सा कारिका परिवय॑त्थं पठनीयेति भावः । कारिका व्याचष्टे-विधेयो भाव इति, विधिरूपधर्मावच्छिन्नो भावः, न तु व्यावृत्तिस्वरूपधर्मावच्छिन्नोऽभावरूपः, अर्थ्यमानत्वात्,
न ह्यर्थक्रियार्थ केनचिदप्यभावोऽर्थ्यते, विधेयात्मनो हि भावस्यैव याथात्म्येनावगमः प्रमाणैर्भवति, भावत्वव्याप्यत्वात् प्रमाणानाम् , 25 किं तु वह्वयादिशब्देभ्यः प्रतिषेध्येऽनग्न्यादौ प्रमाणप्रवृत्त्यभावादपोहगता व्याप्तिरेवापेक्ष्यते यत्राधूमव्यावृत्तिस्तत्रानग्निव्यावृत्तिरिति
न त्वन्वयभूतभावनिष्टा व्याप्तिरपेक्ष्यते यत्र धूमस्तत्राग्निरिति तत्तु न शक्यमभ्युपगन्तुम् , अभावे प्रमाणाप्रवृत्त्याऽप्रमाणफलत्वापत्तेः तस्माद्भावनिष्ठा व्याप्तिरपेक्ष्यत एवेति भावः । नाभाव इति, अभावो न प्रतिषेढुं योग्यः प्रतिषेध्यत्वस्य भावत्वव्यातत्वादिति भावः । यदि प्रतिषेध्येऽन्यस्मिन् प्रमाणप्रत्यभावात् तदपोह एवापेक्ष्यते तनग्निव्यावृत्त्यधूमव्यावृत्तिभ्यामर्थान्तरस्याग्निधूम भिन्नस्य घटपटादेरत्यन्ताभावरूपस्य खपुष्पस्य वाऽग्निधूमाभ्यां गतिः स्यादित्यनुमानाप्रामाण्यापत्तिरित्याश30 येनाह-अर्थान्तरस्येति । एवञ्च विधेयार्थस्य प्रकर्षेण गतिः-वस्तु येन रूपेणाऽस्ति तथाभावावगमः विधेयार्थप्रचार इत्याह
प्रकर्षेणेति । अनत्पिअलगमनिकेति. शिष्टकारिकाया गमनिका-व्याख्या, अनुत्पिजला - अत्यन्ताव्याकुला- परिस्फुटेत्यर्थः । प्रकृष्टगतिं दर्शयति-तदर्थगमनमिति, यत्र धूमस्तत्रामिरिति गमनं तदर्थगमनम् , तद्वैपरीत्येन गमनमन्यथागमनं यत्र यत्राग्निस्तत्र तत्र धूम इति । न तु त्वदिष्टा गतिः केवलं धूमादेवाग्निगतिः प्रकृष्टगतिर्भवतीत्याह-न धूमसामान्येति,
१ सि. क्ष. छा. डे. असाधर्म। २ सि. डे. अनुत्पिंजागमः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org