________________
उक्तन्यायमारणम् ]
द्वादशारनयचक्रम् त्वया 'कामं लिङ्गमपि व्यापि लिङ्गिन्यङ्गि नु तत्त्वतः । व्यापित्वान्न तु तत्तस्य गमकं गोविषाणवत्' । (प्रमा० स० ) इति, किमुक्तं भवति-सत्यपि किल कृतकानित्यत्ववत् संयोगिवद्वृत्त्याऽन्योऽन्यव्यापित्वे धूम एवानेर्गमको नाग्निधूमस्य यथा गोत्वाद्विषाणीति गोत्वं विषाणित्वस्य गमकं न विषाणित्वं गोरिति विषाणित्वस्य गोगजवृषमहिषवराहादिषु व्यभिचारादिति, अत्रापि गम्यगमकनियमोऽस्मन्मतेनेत्येष श्लोकः यथा लिङ्गमपि व्यापीति, अस्य व्याख्या-संयोगिवद्वृत्तावित्यादि, प्रदेशधर्मत्वात् तस्यैव साध्यसाधनत्वोपव- 5 र्णनं प्रागुक्तमतिदिश्य तथा लिङ्गमपि व्यापि, वात्यादिव्युदासेन, अग्निपरिणामत्वेन बद्धमूलत्वादेरुभयलिङ्गलिङ्गिताऽस्त्येव प्रागुक्ता स्मर्यतां को दोषः ? इति ।
तमेव न्यायं स्मारयति
अत एव च यत्तद्गोविषाणवदेकतो व्यभिचाराभावादुभयं लिङ्गं लिङ्गि वा, विषाणं हि प्रमेयत्ववत् व्यभिचारि, इतरवद्गौरव्यभिचारी कृतकानित्यत्वयोस्तुभयमव्यभिचारात् , 10 अस्मदुक्तव्याप्तेर्विधिरूपाया एव गम्यगमकत्वात् 'विधेयार्थप्रचारेण यस्माद्व्याप्तिरपेक्ष्यते। लिङ्गे लिङ्गिनि च व्याप्तिः तस्मात् सत्येव कारणम् ॥ (ग्रन्थकृतः) इति, न यथा त्वयोच्यते 'प्रतिषेध्याप्रचारेण यस्माद्व्याप्तिरपोहते । लिङ्गे लिङ्गिनि च व्याप्तिस्तस्मात् सत्यप्यकारणम् ॥ (प्र० स०) इति, विधेयो भाव: नाभावः प्रतिषेध्यः तस्य प्रचारः नाप्रचारः, तदर्थगमनप्रकर्षण चारः प्रचारः, अन्य .. न धूमसामान्याग्निमद्गतिवत् , यस्माद्व्याप्तिरेवंविधा परस्पर- 15 संसृष्टाऽपेक्ष्यते गतादर्थस्य, अस्मदिष्टा वैविध्येन व्याप्तिरुभयाव्यभिचारात्मिका तस्मात् स्फुटमेवान्वयदृष्टान्तो नोच्यते यत्र यत्र धूमस्तत्र तत्राग्निः, यत्र यत्राग्निस्तत्र तत्र धूम इति, तस्मात् सत्येव साधनम् , तस्माद् दृष्टान्तलक्षणमपि साध्येनानुगमो हेतोः साध्याभावे च नास्तिता............... ॥' (प्र० स०) इत्यनर्थकमथवा भ्रान्तम् ।
कारिकामुद्भावयति-कामं लिङ्गमपीति । अस्या अर्थमाह-किमुक्तं भवतीति, शब्दे हि कृतकत्वमनित्यत्वञ्च संयोगिवत् , 20 संयुक्ताङ्गुलिद्वयवद्वर्त्तते, नाधाराधेयभावेन वर्तते, एवमग्निधूमावपि प्रदेश संयोगिवद्वर्तेते, कृतकत्वानित्यत्ववदेव परस्परव्यापिनौ तथापि यथा कृतकत्वमेव लिङ्गमनित्यत्वमेव लिङ्गि कृतकत्वं ह्यभूत्वा भवनखरूपम् , अनित्यत्वन्तु भूत्वाऽभवनखरूपम् , उत्पत्त्यभिधानपूर्वकमुपसंहृतिर्यतोऽतोऽनित्यतैव कृतकत्वेनानुमातव्या, तस्यैव सदृशापरापरोत्पत्तिलक्षणभ्रमहेतुसद्भावेनानिश्चितत्वात् , तथा धूम एवाग्नेर्गमको न त्वग्मिधूमस्येति भावः । तत्र निदर्शनं ददाति-यथा गोत्वाद्विषाणीति, विषाणित्वेन गोळपित्वेऽपि न तस्य गोगमकत्वम्, गजवृषभादौ तस्य सत्त्वेन व्यभिचारात् , व्यापित्वात्तु विषाणित्वं गोत्वस्य गम्यं भवतीति भावः । तत्कारिकाशब्दार्थस्तु 25 लिङ्गिनि लिङ्गमपि यथेप्सितं व्यापि भवतु, परमार्थतस्तु लिङ्गी व्यापी भवति, व्यापित्वस्य गम्यतासमानाधिकरणत्वात् , अत एव व्यापित्वेन लिङ्ग लिगिनो न गमकम् , गोविषाणवदिति गम्यगमकभावनियमो लिङ्गलिगिनोरस्मन्मतेन सम्भवतीति कारिकया दर्शयति-यथा लिङ्गमपीति, तत्प्रदेशेन्धनादिसम्बन्धमुपगम्य स एवाग्निधूमो भवति तस्मात् प्रदेशधौ तौ संयोगिवर्तते, तोच विधिरूपावेव दृश्येते न त्वधूमव्यावृत्त्यनग्निव्यावृत्तिरूपौ, यत्र धूमाग्नी न दृष्टौ तयोस्तद्व्यवच्छेदमात्ररूपतायां निःस्वभावत्वे खपुष्पतुल्यत्वादनिष्टप्राप्तिः स्यात्, एवश्च प्रदेशधर्मत्वात् संयोगिवद्वत्तेः तस्यैव च प्रदेशस्य प्रसिद्धाप्रसिद्धलिङ्गलिङ्गिद्वारेण साध्यत्वात् साधनत्वाच्च यथा लिङ्गी व्यापी भवति तथा लिङ्गमपि वात्यादिपरिहारेण व्यापि भवति, यतः बद्धमूलत्वादिविशेषणविशिष्ट एव 30 धूमोऽमेः परिणामः, तथाविधौ च धूमानी परस्परव्यापिनौ भवतस्तथा प्रसिद्धाप्रसिद्धसम्बन्धित्वनिबन्धनलिङ्गलिङ्गिता चेति प्रागुपपादितमेवेति भावः । अमुमेव न्याय स्मारयति-अत एव चेति, उभयलिङ्गलिङ्गित्वादेव चेत्यर्थः । पूर्व प्रतिज्ञातं यत्त्वन्म
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org