________________
९४८
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
दनग्निरेव, अगि रगि लगि गत्यर्था इत्यङ्गेनात् गमनादग्निः, अनिन्धनो न गच्छति न दहति, अगच्छन्नँदहन्ननग्निरेव, भस्मच्छन्नस्यापि बाष्पोष्मपुद्गलनिश्चरणात् सेन्धनत्वं सधूमत्व, परमार्थतः तत्परिणामात्-अम्यभिहतकाष्ठतृणादीन्धनानां सन्दीपनप्रज्वलनज्वालाङ्गार मुर्मुर भस्मच्छन्नोष्ममात्राद्यवस्थासु लक्ष्णधूम परिणामाशून्यत्वात् सर्वत्र धूमेऽग्निर्नियतः, तथाग्नौ धूमः एवञ्च कृत्वा प्रयोगः - लिङ्गं धूमो 5 लिङ्गिन्यग्नौ व्यापित्वादेव गमकत्वं भजते - विधिवृत्त्यैवेत्यर्थः कृतकानित्यत्ववदिति दृष्टान्तः, यथा कृतकत्वमनित्यतां व्याप्नुवद्गमयति तथा धूमोऽप्यग्निमिति, एवं लिङ्गे लिङ्ग्यपि ग्राह्यम् ।
ww www
wwwww
त्वन्मतिवद्भेदं कृत्वा साध्यधर्मस्य लिङ्गित्वे साधनधर्मस्य लिङ्गत्वेऽपि ब्रूमः 'यथा लिङ्गमपि व्यापि लिङ्गिन्यज्यपि तत्तथा । व्यापित्वादुभयोर्लिङ्गलिङ्गिता गोविषाणवत् । ( ग्रंथकृतः ) संयोगिवद्वृत्तौ साध्यसाधनयोः प्रदेशधर्मत्वात् प्रसिद्धाप्रसिद्धसम्बन्धित्वविवक्षया धर्मिण 10 एवैकस्य लिङ्गत्वाल्लिङ्गित्वाच्च ।
त्वन्मतिवदित्यादि, अस्मन्मतेन साध्यं साधनश्चैकमेवेत्युक्तत्वात् परस्परव्यापित्वाद्विधिरूपेवोभयतोऽपि गम्यगमकता न व्यावृत्त्येत्यत्र किं चित्रम् ? त्वन्मतेनापि भेदं कृत्वा साध्यधर्मस्यामेर्लिङ्गत्वे साधनधर्मस्य - धूमस्य लिङ्गित्वेऽपि ब्रूमः 'यथा लिङ्गमपि व्यापि ' ( प्रन्थकृतः ) इत्यादिश्लोकः, यथोच्यते
www
~
शब्दार्थमाह-अगि रगीति, अगिधातुर्गत्यर्थे, गत्यर्थानां ज्ञानार्थत्वम्, असन्दीप्तो हि न गम्यते न वा दहति, अज्ञायमानोऽद15 ह्यमानश्च कथमभिः स्यादिति भावः । ननु भस्मना प्रच्छन्नस्याः कथममित्वमगमनादित्याशङ्कायामाह - भस्म छन्नस्यापीति,
ततो बाष्पपुद्गलानामूष्मपुद्गलानाञ्च निःसरणमनुभवसिद्धमतोऽग्निर्ज्ञायते, एवं सेन्धनत्वं सधूमत्वं च परमार्थतोऽस्त्येव, धूम परिणामोऽग्नेः, परिणामि चान्तरेण परिणामं न शक्नोति क्षणमपि स्थातुमिति भावः । तदेव व्याकरोति - अन्यभिहतेति, अग्निनाऽभिहतानि यानि काष्ठतृणादिरूपाणीन्धनानि तेषां सन्दीपन प्रज्वलनादयो या अवस्थास्ताखपि सूक्ष्मो धूमपरिणामोऽस्त्येव तस्मात् सर्वत्र धूमेऽग्निर्नियतः, एवं सर्वत्रानौ धूमोऽपि नियत एवेति भावः । प्रोक्तविषयफलभूतं प्रयोगमाचष्टे - एवञ्च कृत्वेति । 20 लिङ्गं लिङ्गिनि गमकत्वं भजते- धूमोऽग्नौ गमकत्वं भजते, व्यापित्वादित्यर्थः, सर्वाग्भिगत्वात्, न हि यस्सर्वानग्नीन् न व्याप्नोति सोऽग्निं गमयितुं शक्नोति, यदि हि धूममभिर्व्यभिचरेत् तर्हि धूमस्य धूमत्वमेव सन्दिह्येत, ततः संदिग्धासिद्धो हेतुः स्यादिति भावः । तत्रापि गम्यगमकभावो नान्यव्यावृत्तिरूपेण किन्तु विधिवृत्त्येवेत्याशयेनाह - विधिवृत्त्येत्यर्थ इति । दृष्टान्तमाह- कृतकेति । एवमेव लिङ्गी लिङ्गे गमकत्वं भजते व्यापित्वादित्यपि बोध्यमित्याह एवं लिङ्ग इति । इयश्च लिङ्गलिङ्गिनोः परस्परव्यापित्वेन परस्परगम्यतोक्तिरेकस्यैव प्रदेशस्य साध्यत्वं साधनत्वं भजते कृतकानित्यत्ववत्, यथैक एव शब्दोऽभूत्वा भवन् भूत्वा चाभवन् 25 कृतको ऽनित्यश्च तथैक एव प्रदेशेन्धनादिर्भावः साध्यत्वसाधनत्वव्यपदेशं लभत इत्यत्र न किमप्याश्चर्यम्, परन्तु त्वन्मतेन मेदं तयोरङ्गीकृत्यापि परस्परगम्यगमकभाव उच्यत इत्याशयेनाह - त्वन्मतिवदिति । त्वन्मतिवदितिपदप्रयोजनं दर्शयति-अस्मन्मतेनेति, साध्यं साधनञ्चास्मन्मत एक एव प्रदेशः, अत एव च परस्परव्यापिनी प्रदेशस्य विधिस्वरूपभावभूते साध्यसाधने परस्परं गम्यगमकरूपे भवतः, तव मते तु साध्यसाधनयोरेकान्तं भेदस्तथापि साध्यधर्मस्याग्नेर्लिङ्गत्वं साधनधर्मस्य धूमस्य लिङ्गित्वमपि प्रतिपादयाम इति भावः । स्वोक्तिं कारिकया प्रतिपादयति यथा लिङ्गमपीति, अत्रेत्थं कारिका स्यादिति सम्भाव्यते यथा 'यथा 30 लिङ्गमपि व्यापि लिङ्गिन्यत्यपि तत्तथा । व्यापित्वादुभयोर्लिङ्गलिङ्गिता गोविषाणवत् ॥' इति । त्वया त्वेवमुच्यत इति तदीयां
१ सि.क्ष. छा. डे. इत्यंगमाण्डमना० । २ सि. क्ष. डे. छा. अतित्वनो । ३ सि. क्ष. डे. छा, छन्ननदहुनभिरेव । ४ सि.क्ष. छा डे. एवं लिङ्ग एवं लिङ्गी० । ५ सि. क्ष. छा. लिङ्गित्वे ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org