________________
लिङ्गिन्येव लिङ्गमित्यस्य भङ्गः] द्वादशारनयचक्रम्
अथोच्येत तस्यैव व्यभिचारिणो विशेषा न तु गम्यन्त इति विशेष्योक्त एवेत्येतदपि न, तैपण्यादिवचनात् , मया तत्रापि चोक्तमेव तद्भावदर्शनविधेरेव तदिति, तस्माल्लिङ्गे लिङ्गी भवत्येवेत्ययुक्तमुक्तम् ।।
अथोच्यतेत्यादि, स्यान्मतं मया विशेष्योक्त एवं ताणतोषादिविशेषा न तु गम्यन्ते, केषाम् ? तस्यैव व्यभिचारिण इत्येतदपि न, तैक्ष्ण्यादिवचनात् त्वया हि दीप्तितैण्यादयो विशेषा न गम्यन्त इति । कारिकार्थ विवृण्वतोक्तत्वात् , तैक्ष्ण्यादीनाञ्च गम्यत्वस्य दर्शितत्वादिति, किञ्चान्यत् मया तत्रापि चोक्तमेव तद्भावदर्शनविधेरेव तदिति-तदपि च विशेषाणां गम्यगमकत्वं साध्यसाधनधर्मयोस्तद्भावेन दृष्टयोविधिरूपेण संयोगिवद्वृत्तेः दृष्टबलेनैव, न व्यावृत्त्येत्यभिहितमेव, तस्माल्लिङ्गे लिङ्गी भवत्येवेत्ययुक्तमुक्तम् , लिङ्गेन न विना लिङ्गीत्यादिश्लोकश्च साधूक्तः ।
यदप्युक्तं लिङ्गिन्येव लिङ्गमिति तदपि
न च लिङ्गिन्येव लिङ्गमिति नियमो वासगृहवत् , शक्यते च लिङ्गे धूमे नियमादग्निरिति वक्तुम् , असन्धुक्षितानग्नित्वात् , स ह्यसन्दीप्तेन्धनावस्थोऽरण्यवस्थो वाऽग्निरधूमकोऽधूमकत्वादनग्निरेव, भस्मच्छन्नस्यापि बाष्पोष्मपुद्गलनिश्चरणात् सेन्धनत्वं सधूमत्वञ्च परमार्थतः तत्परिणामात् , सर्वत्र धूमेऽग्निनियतः, तथाऽग्नौ धूमः, एवञ्च लिङ्गं लिङ्गिनि व्यापित्वादेव गमकत्वं भजते, कृतकानित्यत्ववत् ।
(न चेति) न च लिङ्गिन्येव लिङ्गमिति नियमो वासगृहवत्-यथा वासगृहेऽपनीताग्निके लिङ्गिनाऽग्निना विना धूमस्य दृष्टत्वादरणिनिर्मथनावस्थस्येति[वा], शक्यते च लिङ्गे धूमे नियमादग्निरिति वक्तुम् , कस्मात् ? असन्धुक्षितानग्नित्वात्-स ह्यसन्दीप्तन्धनावस्थोऽरण्यवस्थो वाऽऽग्निरधूमकः, अधूमत्वा
10
15
स्वाच्चेत्युक्तमेव विशिष्य विशेषाणामगम्यत्वमित्याशङ्कते-अथोच्यतेति। व्याचष्टे-स्यान्मतमिति । लिङ्गे लिङ्गी भवत्येवेति कारिकार्थ प्रकाशयता त्वया यदग्निवद्भुमो द्रव्यत्वादीनामस्ति प्रकाशको न तैक्षण्यादीनामिति हि व्याख्यातम्, अस्माभिश्च तेषां 20 गम्यत्वं प्रतिपादितमेवेत्युत्तरयति-इत्येतदपि नेति । त्वया तैक्ष्ण्यादीनामगम्यत्वं दर्शितम् , मया चाधुना धूमविशेषैस्तत्सहचरा अग्निविशेषा गम्यन्त इति दर्शितं तैक्ष्ण्यादीनां गम्यत्वमित्याह-त्वया हीति । तत्रैव स्वोक्तं स्मारयति-मया तत्रापीति, दीप्तितैक्षण्यादिविशेषागतिरपि तद्भावदर्शनविधेरेव तथाऽन्यथा च दृष्टत्वादिति तत्राप्युक्तमेवेति भावः । विशेषाणां गम्यगमकभावोऽपि साध्यसाधनभूतयोस्तयोस्तद्भावदर्शनविधेरेव यत्र दृष्टस्तद्गमयति दर्शनबलेन, नतु यत्र च न दृष्टस्तव्यवच्छेदेन व्यावृत्तिबलेनेत्याहतदपि चेति । निगमयति-तस्मादिति । अथ लिङ्गिन्येव लिङ्गमित्यप्यवधारणं वासगृहादौ भूताग्निके धूमवति व्यभिचरितमिति 25 दूषयति-नच लिङ्गिन्येवेति। न चान्ययोगव्यवच्छेदः सम्भवी, भूतामिके वासगृहादौ भविष्यदग्निकायां निर्मथनावस्थारणौ धूमस्य योगादित्याचष्टे-न चेति । अग्निव्यापित्वन्तु धूमस्य वक्तुं शक्यमिति दर्शयति-शक्यते चेति । यत्र यत्राग्निस्तत्र तत्र धूमः, न हि धूममन्तरेगामिरस्ति, असन्दीप्तेन्धनावस्थस्यारण्यवस्थस्य च प्रागभावलक्षणस्यामेरधूमकत्वेनानग्नित्वात् , यतो हि स न दहति अत एवानमिः, अदहनागमनलक्षणस्यान नित्वादुदकादिवदित्याह-असन्धुक्षितेति, असन्धुक्षितस्यानग्नित्वादित्यर्थः । अग्नि
१ सि.क्ष. छा. डे. एवादोषस्यापि शेषाननु । २ सि. क्ष. छा. डे. नमः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org