________________
mm
९४६ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे वाच्यैतत्प्रदेशसम्बन्धिन्येवानौ लिङ्गत्वात् , अन्यथाऽनुमानदोषभावस्योक्तत्वात् , तस्मात् स एव तस्यैव लिङ्गमिति सिद्धम् , यत्पुनः धूमगतद्रव्यत्वाद्यम्यप्रकाशनं तत्त्वस्मदिष्टदर्शनविधेरेव तथाऽव्यभिचारात् ।
किन्तु
यथा च त्वयोच्यते लिङ्गे लिङ्गी भवत्येवेति तत्र लिङ्गे चेल्लिङ्गिनियमः तथा च धूमादग्नि5 गतिवत् धूमावधारणकारणविशेषसहचाराग्निविशेषः तेभ्य एव किमिति नेष्यते ? यथा प्रचुर
हरिततृणेन्धनोऽग्निः मशकनिवारणार्थ यत्र गोकुले क्रियते तत्रैवोक्तविशेषो धूमस्ताल्पतादिविशेषानग्नेर्गमयति तथा बहलतुषावकीर्ण गृहाङ्गणगते मृत्पात्रकाराः शिल्पिनोऽग्निं कुर्वन्ति तत्रैव तौषस्तौषाग्निं गमयतीति विशेषाणामपि लिङ्गित्वदृष्टेलिङ्ग एव लिङ्गिनो भावः ।
(यथा चेति) यथा च त्वयोच्यते लिङ्गे लिङ्गी भवत्येवेति तत्र लिङ्गे चेल्लिङ्गिनियमस्तथा चेदं 10 दोषजातं-तैक्ष्ण्यं किमिति नेष्यते ? धूमावधारणकारणविशेषाणां दीप्ततरमन्दप्रकाशनादिविशेषसहचरत्वात्
धूमादमिगतिवत् तदवधारणकारणविशेषसहचराग्निविशेषः कस्मान्नेष्यते ? तेभ्य एव-धूमावधारणकारणविशेषेभ्यः, स्यान्मतमदर्शनमिति चेत्तन्नेति दर्शनमस्तीत्युच्यते तद्यथा-प्रचुरहरितेत्यादि, यत्र दोग्धारः पुरुषा एव दाहयन्ति ईतिविरहिताः, गोकुले हरिततृणावकीर्णे, न चाऽऽवासे, गवां मशकनिवारणार्थ हरिततृणेन्धनोऽग्निः क्रियते, तत्रैव तद्दण्डकोक्तविशेषो धूमः तार्णाल्पतादिविशेषानग्नेर्गमयति, तथा 15 बहलेत्यादि न तैयाऽऽभिवृद्ध्या विशेषः हस्त[त]लमृत्पात्रकाराः शिल्पिनस्तद्गृहाङ्गणगतस्तौषस्तौषाग्निं
गमयतीति विशेषाणामपि लिङ्गित्वदृष्टेलिङ्गे-धूम एव लिङ्गिन:-अग्नेर्भावः, तस्मानावधारणवैपरीयेन लिङ्गलिङ्गिता, न च विशेषागम्यतेति । सप्तम्यन्तनिर्देशात् प्रत्यक्षविषयधूमाधारप्रदेशसम्बन्धिन्येवानौ धूमवत्त्वस्य लिङ्गत्वमन्यथाऽत्रशब्दवैय्यापत्तिः, अन्यनुमानासम्भ. वश्च, अग्नेः सामान्यस्य सिद्धत्वात् ,न हि प्रसिद्ध साध्यते, अयोऽन्यादीनां त्वलिङ्गित्वं तत्र लिङ्गाभावात् , लिङ्गाभावश्चाप्रत्यक्षत्वात्, 20 न हि ते लिङ्यन्ते लिङ्गदर्शनात् तेषां लिङ्गनिरपेक्षप्रसिद्धेश्च, तस्माद्बद्धमूलत्वादिविशेषणविशिष्टो धूमःप्रत्यक्षविषयधूमाधारप्रदेश
सम्बन्ध्यग्नावेव लिङ्गमिति भावः । धूमनिष्ठेन द्रव्यत्वादिसामान्यधर्मेणाग्नेः प्रकाशनं न भवति, अग्नित्वद्रव्यत्वाद्यवच्छिन्नकारणतानिरूपितकार्यतावच्छेदकत्वस्यातिप्रसक्ते धर्मे द्रव्यत्वसत्त्वादावभावात् , कारणस्थसामान्यधर्मविना तेषां भवनादिति यौ तत्कार्यत्वनियमाश्रयेण गम्यगमकभावाभावावुच्येते तावपि तद्भावदर्शनविधेरेवेत्याह-यत्पुनरिति । अथ लिङ्गे लिङ्गी भवत्येवेत्यत्र
दोषमाह-यथा चेति । यदि लिङ्गे लिङ्गिनोऽवश्यम्भावनियमस्तर्हि धूमोऽग्निगततैक्ष्ण्यादेः कुतो न गमक इत्याह-तत्र लिनेचे25दिति । लिङ्गे लिङ्गिनियमेन लिङ्गाद्धमात् तत्सहचारिणोऽग्नेर्गतिवत् धूमनिर्णायकेभ्यः पाण्डुबहलो गत्युत्सङ्गित्वादिभ्यो तत्सहचराणा
मग्निगतदीप्ततरमन्दप्रकाशादीनामपि विशेषाणां गतिः किं नेष्यते यत उच्यतेऽग्नेः सामान्यधर्मा एव गम्या न विशेषधर्मा इत्याहधूमावधारणेति । धूमावधारणकारणविशेषाग्निविशेषयोः साहचर्य न दृष्टमतो न गम्यगमकभाव इत्याशङ्कते-स्यान्मतमिति । साहचर्य दृश्यत इति दर्शयति-दर्शनमस्तीति । क्वास्ति दर्शन मित्यत्राह-तद्यथेति । मशकनिवारणफलकदोग्धृपुरु
षानुष्ठितप्रचुरहरिततृणादिकर्मकदाहवति गोकुले धूमे बद्धमूलपाण्डुबहलोर्द्धगतितार्णपार्णत्वादिविशेषाः, अग्नौ च तार्णाल्पत्वादिविशेष 30 सहचरा दृश्यन्त इति भावः। दृष्टान्तान्तरमाह-बहलेत्यादीति, मृत्पात्रपाकफलककुम्भकारकर्तृकबहलतुषकर्मकदाहवति गृहाङ्गण
गते आमे धूमे बद्धमूलपाण्डू गतितोषादिविशेषाः अग्नौ च तौषादिविशेषाः सहचरा दृश्यन्त इति भावः। तदेवं धूमाग्निविशेषाणां गम्यगमकभावात् लिङ्ग एव लिङ्गिनो भाव इति त्वदुक्कावधारणविपरीतावधारणाभ्युपगमे न काचित् लिङ्गलिङ्गित्वक्षतिर्न वाऽग्निविशेषागम्यतेत्याह-विशेषाणामपीति। ननु लिङ्गिनो विशेषास्तोषकारीषादयो न गम्यन्ते, लिङ्गिव्यभिचारित्वात् , लिङ्गविशेषैः सहादृष्ट
सि.क्ष.डे. लिङ्गित्वात् । २ सि.क्ष. छा.डे. दोषाभाव०। ३ सि.क्ष.छा.डे. धूमत्वाचकरण । ४ सि.क्ष. छा.डे. दोहयन्तीति वि०। ५सि.क्ष. छा. डे. नातायामि०। ६ सि. क्ष. छा.डे. हस्तलामृ०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org