________________
९४२
Aamw
लिङ्गलिङ्गिविचारः]
द्वादशारनयचक्रम् किश्चान्यत् 'लिङ्गे लिङ्गी भवत्येव' इत्यस्याः कारिकाया योऽर्थावधारणवैपरीत्येनानुमानमित्युक्तः तस्य दूषणार्थमाहाऽऽचार्यो 'लिङ्गेन न विना लिङ्गी'त्यादि श्लोकेन
यथाह-न हि सर्वत्र लिङ्गिनि लिङ्गं सम्भवत्येवायोऽग्निवदिति, अत्रोत्तरं लिङ्गिनि देशेऽग्निमति धूमो भवन्नेव पक्षधर्मो भवति, नाभवन् , असिद्धत्वात् , लिङ्गिनि लिङ्गं भवत्येव, वात्यादिव्युदासेन, तस्य चाग्निगततैक्ष्ण्यादिलिङ्गत्वं न भवति, न दृष्टत्वाद्भूमे तैक्ष्ण्यादिना च । विधिवृत्त्या, यथा वाऽऽह-यदा भवति लिङ्गं तदा नालिङ्गिनि भवत्युदकादौ धूम इति, तदपि न घटते नियमेन तस्य सद्भावे तत्रैवाग्नौ नान्यत्र लिङ्गत्वम् , अत्रशब्दवाच्यैतत्प्रदेशसम्बन्धिन्येवाग्नौ लिङ्गत्वात् , तस्मात् स एव तस्यैव लिङ्गम् , धूमगतद्रव्यत्वाद्यन्यप्रकाशनन्त्वस्मदिष्टदर्शनविधेरेव, तथाऽव्यभिचारात् । - यथाऽऽहेत्यादि परमतप्रदर्शनं यावदयोऽग्निवदिति, नियमविपर्ययेण सोदाहरणम् , अत्रोत्तरं 10 लिङ्गिनि देशेऽग्निमति धूमो भवन्नेव पक्षधर्मो भवति, नाभवन्नसिद्धत्वात् , बैद्धमूलत्वादिविशेषणावधृतपक्षधर्मस्यैव लिङ्गत्वाल्लिङ्गिनि लिङ्गं भवत्येव वात्यादिव्युदासेन, तस्य च-धूमस्याग्निगततैक्ष्ण्यादिलिङ्ग[त्वं] न भवति, न दृष्टत्वात् धूमे-धूमे तस्याग्नेरदृष्टत्वात् , तैक्ष्ण्यादिना च सह विधिवृत्त्येति, यथा वाऽऽहेत्यादिलिङ्गिन्येवेत्यस्यावधारणस्य निरूपणम्-यदा भवति लिङ्गं तदा नालिङ्गिनि भवत्युदकादौ धूम इति, तदपि : न घटते, कस्मात् ? नियमेनेत्यादि, तस्य धूमस्य सद्भावे बद्धमूलत्वादिविशेषपरिच्छिन्ने तत्रैवानौ नान्य- 15 त्रायोऽग्न्यादौ लिङ्गत्वम् , किं कारणम् ? अग्निरत्रेत्यत्रशब्दस्याधिकरणवाचिनो धूमर्वत्त्वस्य अत्रशब्द
अथ 'लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः । नियमस्य विपर्यासेऽसम्बन्धो लिङ्गलिगिनोः ।' इति कारिकापूर्वार्धोक्तावधारणस्य वैपरीये सति नानुमानम्, लिङ्गलिगिनोरसम्बन्धादिति य उक्तस्त्वया तं दूषयतीत्याह-किश्चान्यदिति, लिङ्गे लिङ्गी भवत्येवेत्येवावधार्यम्, न तु लिशिनि लिङ्गं भवत्येवेति, अयोऽम्यादौ लिङ्गाभावात् , लिझिन्येव लिङ्गमित्यवधायेम्, न पुनर्लिङ्ग एव लिङ्गीति, लिङ्गाभावेऽप्ययोऽम्यादौ लिङ्गिदर्शनात् व्यभिचारादित्यवधारणवैपरीत्येऽनुमानाभाव उक्तः, तन्न युक्तमिति 20 भावः । परमतमुपदर्य तन्निराकरोति-यथाऽऽहेति, लिङ्गे धूमे सति लिङ्ग्यग्निर्भवत्येव, न तु लिङ्गिन्यग्नौ सत्यवश्य लिङ्गं भवत्ययोऽग्यादौ धूमाभावादिति परमतप्रदर्शनमित्याह-परमतप्रदर्शनमिति । लिङ्गिनि लिङ्गं भवत्येवेत्यवधारणं समर्थयति-लिङ्गिनि देश इति । अग्निमद्देशादिसम्बन्धेन तेनैवाग्निना धूमेन भूयते नान्येनायोऽम्यादिनाऽबादिना वा, न सोऽग्निधूमो न भवति किन्तु भवत्येव, एवञ्चाग्निमत्प्रदेशे भवन्नेव धूमः पक्षधर्मो भवति, नापनीताग्निको धूमः, असिद्धत्वात् , अग्न्यविनाभावित्वेनैव हि बद्धमूलत्वादिरूपेणाध्यवसितस्य धूमस्य धूमत्वसिद्धेः पक्षधर्मत्वालिङ्गत्वम्, न वात्यादेस्तस्मात् 25 लिङ्गिनि लिङ्ग भवत्येवेत्यप्यवधारणं युज्यत एवेति भावः । अग्निनिष्ठतैक्ष्ण्यादिविशेषा धूमस्य गम्या न भवन्ति, तैक्ष्ण्यादिना सहामेधूमे विधिवृत्त्याऽदृष्टत्वादित्याह-तस्य चेति । लिङ्गिन्येवेतरत् पुनरिति पादार्थमाह-यथा वाऽऽहेति, भवल्लिङ्गं लिङ्गिन्येव नान्यत्रोदकादावित्यर्थः अत्रेत्यभिधेये प्रदेशे एव प्रधानोपसर्जनभावेन परस्परं नियमेन भवन्तावग्निधूमौ देशस्यैकस्य भेदविवक्षायां साध्यसाधने भवतः, तत्र च धूमवस्तुत्वं बद्धमूलत्वादिविशेषणविशिष्टमेव, तस्यैवाम्यविनाभावित्वेन लिङ्गत्वात् , ईदृशश्च धूमो नायोऽम्यादितो भवति, तस्माद्यादृशादग्नेस्तथाविधो धूमो भवति तं प्रत्येव तस्य लिङ्गत्वमत एतद्देशसम्बन्धिनि लिजि-30 न्येवागौ धूमस्य लिङ्गत्वमित्याह-तस्य धूमस्येति । तत्र हेतुमाह-अग्निरोति, अस्मिन्नित्यत्र, प्रत्यक्षविषयस्येदंशब्दस्य
१ सि. क्ष. छा. डे. भवतित्रेवक्षः। २ सि. क्ष. छा. डे. अवन्धमूल। ३ सि. क्ष. छा. धर्मस्वस्यैव । ४ सि.क्ष. छा. डे. यथावत्वे ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org