________________
mmmwww
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे प्रामाण्यापत्तिः, न भवति न भवतीत्युभयतोऽप्यभवनपरमार्थत्वात् अर्थान्तरमभावो वा, अत्यन्तमदृष्टत्वात् , अग्निर्न भवत्युदकमनमिः, स न भवति घटः खपुष्पं वेति अज्ञानमेवेत्यप्रामाण्यापत्तिः पूर्वोक्तन्यायेन, कस्मात् , अत्यन्ताज्ञानात् , अनध्यवसायवदित्यप्रामाण्यम् , तथा विपर्ययवदप्रामाण्यापादनार्थमाह-ग्राह्यवृत्त्यननुरोधिप्रतिपत्तेर्वा, विपर्ययवदिति-ग्राह्यस्याग्नेविधिरूपेण वृत्तिरग्निभवनं, तदनुरोधिनी न भवति या 5 प्रतिपत्तिः सा ग्राह्यवृत्त्यननुरोधिनी, तस्याः प्रतिपत्तेाह्यवृत्त्यननुरोधिन्या हेतोरप्रामाण्यं व्यावृत्त्यनुमानस्य, पुरुषे स्थाणुप्रत्ययवदिति प्रागुक्तन्यायबलेनानिष्टापादनं गतार्थम् , तस्मात् दृष्टवदेवानुमानतदाभासौ, यथादृष्टज्ञानानुबद्धत्वादिति ।
... एवञ्च तदपि दूषणं यत्सम्बन्धानुमानलक्षणस्य प्रसक्तं न दूषणमेव, दृष्टविधिवृत्तेरनुमानोक्तेः। 10. एवञ्च तदपीत्यादि, अतिदेशेन सम्बन्धानुमानलक्षणस्य ‘सम्बन्धादेकस्मात्' इत्यादेः 'अस्येदं
कार्य कारणम्' (वै० ) इत्यादेश्च यत्किल दूषणं-सम्बन्धस्याविशिष्टत्वाभूमा[द]ग्निरित्यादिवत् दीप्तितैक्ष्ण्यादीनामपि गम्यत्वं धूमपाण्डुत्वादिविशेषगमकत्ववत् द्रव्यसत्त्वादिसामान्यस्यापि गमकत्वम् , अनेर्वा गमकत्वं धूमवत् , धूमस्य वाऽग्निवद्गम्यत्वमित्येते दोषाः प्रसक्ताः, दृष्टविधिवृत्तेरनुमानोक्तेः
यथा दृष्टस्तथा संदेहानध्यवसायविपर्ययनिश्चयकृदित्यभ्युपगमादित्येतदपि न दूषणम् , उक्तविधिवृत्तिभाव15 नात्वादनुमानस्येति । । भवतीत्यनुमान त्वदिष्टम् , अग्निर्न भवतीत्येकोऽभवनार्थः, अनग्निर्न भवतीत्यपरोऽभवनार्थ इत्युभयतोऽप्यभवनपरमार्थत्वम् , भवनार्थतायाः क्वाप्यभावादिति भावः। ततश्च किमित्यत्राह-अर्थान्तरमभावो वेति । अभावप्रसङ्गे हेतुमाह-अत्यन्तमिति । अर्थान्तरत्वमभावत्वञ्च निरूपयति-अग्निर्नेति, उदकादिरनग्निः, उदकादिर्न भवतीति घटपटाद्यर्थान्तरमेवानग्निर्न भवतीति स्यात् , नन्वनग्निर्न
भवतीत्यर्थान्तरमेव भवतीति न नियमः, अग्निरपि स्यात्ततश्चास्माकमिष्टसिद्धिरित्यत्राह-अज्ञानमेवेति, सर्वस्याप्यभवनरूपत्वेन 20 खपुष्पतुल्यत्वादज्ञानमेव भवेदित्यप्रामाण्यापत्तिरिति भावः। भवनरूपस्यैव ज्ञानविषयत्वव्याप्यत्वादनग्निन भवतीति ज्ञानमनवधृतार्थ. 1; स्वादनध्यवसायवदप्रमाणमेवेत्याह-अत्यन्तेति । अभावस्यापि ज्ञानविषयत्वे वा भूतेऽभूतप्रत्ययत्वेन विपर्ययवदप्रमाणमित्याहविपर्ययवदिति । अनुमानग्राह्यो ह्यग्निर्भवनरूपेण प्रतीयते, प्रत्यक्षविषयवत् तस्य चानमिव्यावृत्तिविषयत्वे तज्ज्ञानं ग्राह्यविधिवृत्त्यनुरोधि न भवति, भावात्मन्यभावप्रत्ययत्वाद्विपर्ययवदप्रामाण्यमेवेति भावः । एवञ्च यज्ज्ञानं यथा दृश्यते तद्वदेव तदभ्यु
पेयमिति निगमयति-तस्मादिति । इत्थं तद्भावदर्शनादेव साध्यसाधनधर्मयोविधि व्यवस्थाप्य परोक्तसम्बन्धानुमानलक्षणस्य 25 बौद्धन प्रसञ्जितानि दूषणान्यप्यदूषणान्येवेति प्रतिपादयति-एवञ्चेति । सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानमिति सांख्यस्यानुमानलक्षणम् , अस्येदं कार्य कारणमित्यादिवैशेषिकलैङ्गिकलक्षणञ्चातिदेशेन यदृषितं तदपि दूषणाभासमेवेति व्याचष्टेअतिदेशेनेति, 'न च केनचिदंशेन न संयोगी हुताशनः । धूमो वा सर्वथा तेन प्राप्तं धूमात् प्रकाशनमिति संयोगेन गम्यगमकभावे धूमात सर्वप्रकारेण प्रकाशनं प्राप्तमतोऽग्नेः सामान्यधर्मा इव विशेषधर्मा अपि दीप्तितैक्ष्ण्यतार्णत्वपार्णत्वादयो गम्याः स्युः, कारिकायां संयोगीति पदेन संयोगित्वमात्रं न विवक्षितमपि तु सम्बन्धमात्रम् , तथा धूमस्य विशेषधर्मवत्सामान्यधर्मा 30 अपि द्रव्यत्वादयो गमका भवेयुः, सर्वप्रकारेणैव तयोः संयुक्तत्वात् कार्यकारणभावाच्च धूमाग्योः परस्परं गम्यत्वं गमकत्वञ्च ... स्यादित्येते दोषास्त्वयोक्ता न सङ्गच्छन्ते, संयोगित्वकार्यकारणभावादयो धूमान्यादिसाध्यसाधनयोविर्धिरूपतो यथा दृष्टास्तथैव
तेषां निश्चयः संशयोऽनध्यवसायो विपर्ययो वा भवन्ति नान्येन रूपेणेत्येवं प्रसाधितत्वादिति भावः । तदुक्तान् दोषान् दर्शयतिसम्बन्धस्येति । तेषामदोषत्वे हेतुमाह-दृष्टविधीति, दृष्टविधिवृत्तेरनुमानोक्तेस्त्वदुक्तं दूषणजातं न दूषणमिति भावः ।
सि. क्ष. छा. डे. अधुनमेवोत्पतः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org