________________
९४३
अनध्यवसायाद्याभासता]
द्वादशारनयचक्रम् भिचारात् , व्यभिचारात्तु अनुमानाभासम् , तद्यथा-वृक्षक्षुपादिव[त्] ज्वलनतैक्ष्ण्यादिव्यभिचारेण यथा यदा तु वृक्षः क्षुपो वाऽत्र धूमादिति तदानुमानाभासं भवति, विनापि वृक्षादिना दृष्टत्वाव्यभिचारात दर्शनबलेनैव, तदुपसंहारः-तथाविधदर्शनबुद्ध्यनुबद्धमेवानुमानमपीति गताम् ।
एवमनध्यवसायविपर्ययानुमानाभासावपि, तदतत्पक्षद्वयगतमेकान्तमनाश्रित्य ज्ञानमनवधृतार्थमनध्यवसायः, विपर्ययश्चाभूते भूतप्रत्ययो भूते चाभूतप्रत्ययः, एतावप्यनुमानाभासौ,5 तत्परिणामाव्यवच्छेदेन दृष्टवत् , त्वन्मत्या व्यावृत्तेस्त्वनुमानाप्रामाण्यापत्तिः, न भवति न भवतीत्यभवनपरमार्थत्वादर्थान्तरमभावो वा, अत्यन्ताज्ञानात् , अनध्यवसायवत् , ग्राह्यवृत्त्यननुरोधिप्रतिपत्तेर्वा विपर्ययवत्, तस्माद् दृष्टवदेवानुमानतदाभासौ, यथादृष्टज्ञानानुबद्धत्वादिति ।
(एवमिति) एवं-सन्देहानुमानाभास[वत्]चानध्यवसायविपर्ययानुमानाभासावपि, तद्यथा-तद- 10 तत्पक्षेत्यादि, स चासश्च पक्षौ तदतत्पक्षौ तयोर्द्वयं तद्गतमेकान्तं-भूतमेवाभूतमेवेति, अनाश्रित्य यथाऽग्निरत्रैव, अग्निरत्र भवत्येवैवमादि, अनिश्चितासन्दिग्धरूपं ज्ञानमनवधृतार्थमनध्यवसायः, विपर्ययश्चाभूते भूतप्रत्ययो भूते चाभूतप्रत्ययः, स्थाणौ पुरुषप्रत्ययवत् , एतावप्यनुमानाभासौ तत्परिणामाव्यवच्छेदेनयथाविधिदर्शनबुद्ध्यनुबद्धमेवानुमानं दृष्टवत् तथैवानुमानाभासोऽपि, त्वन्मत्या व्यावृत्तेस्त्वनुमाना
व्यभिचाराविति, अग्निमत्त्वनिश्चायक ज्वलनतैक्ष्ण्यादिविरहप्रयुक्तव्यभिचारदर्शनादिति भावः। एतदेव स्फुटयति-यदातु वृक्ष 15 इति, क्षुपः हस्वशाखाशिखो गुल्मविशेषः । तथा तथा दर्शनबलादेवानुमानतदाभासयोर्भवन मित्याह-दर्शनबलेनैवेति । उपसंहरति-तथाविधेति । अयं व्यभिचारादनुमानाभासः सन्देहानुमानाभास उच्यते, अग्निधूमसमानाधिकरणो धूमाभावसमानाधिकरणश्च प्रदेशे च धूमधूमाभावसमानधर्मदर्शनाद्विशेषादर्शनाच्च किमयं प्रदेशो रन्धनगृहवद्धमवान् ? किं वाऽयोऽयादि. वद्धमाभाववानिति सन्देहानुकूलत्वादग्निमत्त्वस्य, स्थाणुत्वतदभावसंशायको त्वादिवत् , एवमनुमानाभासमुदीर्यानध्यवसायविपर्ययानुमानाभासौ दर्शयति-एवमिति । असाधारणानै कान्तिकहेतोरनध्यवसायानुमानाभासो विरुद्धहेतोर्विपर्ययानुमानाभासश्च तथा- 20 विधदर्शनबलादेवेत्याह-अनध्यवसायेति । अनध्यवसायाभासमेव निरूपयति-तद्यथेति, तदतत्पक्षद्वयगतैकान्तानाश्रयेणानिश्चितासन्दिग्धरूपमनुमानमनध्यवसायाभासम् , यथा शब्दोऽनित्यः शब्दत्वादित्यादौ हि शब्दत्वं नित्यत्वेनानित्यत्वेन सह वाऽदृष्टं शब्दे च दृष्टं नित्यत्वानित्यत्वयोरन्यतरनिश्चयानाधायकमुभयसाहचर्याभावादेव संशयानाधायकञ्च सदनवधृतार्थज्ञानजनकं भवतीत्यसाधारणहेतुप्रयुक्तोऽनध्यवसायानुमानाभास इति भावः । लक्षणसमन्वयं विधत्ते-स चासच पक्षाविति, नित्यत्वानित्यत्वपक्षौ तयोर्द्वयम्, नित्यत्वपक्षोऽनित्यत्वपक्षश्च तद्गतकान्तः, नित्यमेवानित्यमेव वा शब्द इति, तमनाश्रित्य शब्दो नित्य एवेति 25 अनित्य एवेति वा निश्चयरहितं शब्दो नित्यो न वेति संशयरहितमत एव चानवधृतार्थ ज्ञानमनध्यवसाय इति भावः । नित्यः शब्दः कृतकत्वादित्यत्र कृतकत्वेऽनित्यभावत्वनिश्चयसत्त्वात् शब्दे हेतुत्वेनोपन्यस्यमानं शब्दे नित्यत्वाभावमेव निश्चाययतीति विरुद्धानुमानाभासोऽपि तथाविधदर्शनबलेनैवेति दर्शयितुमाह-विपर्ययश्चेति, भूते वस्तुन्यभूतप्रत्ययोऽभूते वा भूतप्रत्ययो विपर्ययः यथा:पुरुषभूते स्थाणौ पुरुषोऽयमिति प्रत्यय इति विपर्ययज्ञानसामान्यलक्षणम् , अतस्मिंस्तदिति प्रत्यय इति भावः। एतावप्यनुमानाभासौ तथाविधपरिणाममन्तरेण न भवितुं शक्याविति तथाविधदर्शनबलेनैव तावपि भवतः, यथाविधदर्शनबुद्ध्यनुबद्धमनुमानं दृष्टं अनु-30 मानाभासोऽपि तदनुगुणपरिणामदर्शनबुद्ध्यनुबद्ध एवेत्याशयेनाह-एतावपीति । त्वन्मते तु अन्यव्यावृत्तिरूपतयाऽनुमानाभ्युफ गमेनान्यस्य व्यावृत्तस्य चाभावपरमार्थतयाऽनुमानमप्रमाणमेव भवतीत्याह-त्वन्मत्येति। तदेवाह-न भवतीति, यथाऽत्रानग्निर्न
सि.क्ष. छा. दृष्टचत्तथैः । वा. न. ४२ (११९)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org