________________
mmam
mmmmmm
९४२
न्यायागमानुसारिणीव्याख्यासमैतम् [उभयनियमा ग्रहणमव्यभिचारात्, व्यभिचारात्त्वनुमानाभासं वृक्षापादिवत् , यथा वृक्षः क्षुपो वाऽत्र धूमा दित्यनुमानाभासं व्यभिचारादर्शनबलेनैव तथाविधदर्शनबुद्ध्यनुबद्धमेवानुमानमपि ।
न हीत्यादि, योषिद्गण्डपाण्डुत्वं न गमयत्यग्निम् , अभूताग्निधूमत्वात् , धूमभूतं तु पाण्डुत्वं गमयत्यग्निम् , धूमभूताग्नित्वात् , विधेरेव तद्भावस्य तद्भावत्वेनैव गमकत्वात् , यथा चेदमित्यादि, पाण्डुत्वादि5 विशेषस्य धूमभूतत्वेन गमकत्व[व]त् द्रव्यत्वादिसामान्यस्यापि धूमभूतेर्गमकत्वमग्नेरिति भावना यावत् पाण्डुत्ववदिति, एवं तावद्धूमभूतसामान्यविशेषधर्माणां गमकत्वं तुल्यं 'विधेः, एवं गम्यत्वनियमाविशेषः, तथाप्यनेरपि द्रव्यत्वसामान्यगतिरग्निभूतत्वात् , नोदकादितद्व्यतिरिक्तद्रव्यत्वगतिः, अतद्भूतत्वात् , यत्तु धूमो दीप्त्यादीत्यादि, दीप्तितैक्ष्ण्यादिविशेषागतिरपि तद्भावदर्शनविधेरेव तथा चान्यथा च-दीप्तितैक्ष्ण्यादिरूपेण तद्विरहितत्वेन च दृष्टत्वाद्व्यभिचारात् , नात्यन्तभूतशीतादिव्यभिचारादसम्बद्धादगतिः, किं तर्हि ? सम्बन्ध10 व्यभिचारादेव, किञ्चान्यत्-दर्शनविधेरेवानुमानलक्षणोपपत्तेः स एवैषितव्य इत्यत आह-तद्भावदर्शनानु
बन्धेन हि बुद्ध्युत्पत्तिरनुमानमित्येतदनुमानलक्षणञ्च, तव्याचष्टे-धूमवत्त्वमित्यादि, यदा धूमवत्त्वं प्रदेशस्याग्निमत्त्वानुबद्धमेवेत्यैकान्तिकं ग्रहणं तदाऽनुमानं भवति, धूमादग्निरत्रेति, तस्यामेरेकान्तेनैव ग्रहणमव्यमिष्टम् । धूमगतं तु तद्गमयत्यग्निम् , तस्यैव धूमभूतत्वात् , योषिद्गण्डपाण्डुत्वं तु योषिद्गण्डभूतं न त्वग्निपरिणामजन्यधूमभूतमतोऽत्रापि
नविधेरेव तद्भावत्वेनैव रूपेण पाण्डुत्वं गमकम्, न तु पाण्डुत्वसामान्यरूपेणेत्याशयेनाह-योषिद्दण्डपाण्डत्वमिति । 15 लिङ्गगता विशेषा एव गमका न सामान्यमिति यदुच्यते त्वया तन्न युक्तम् , तद्भावस्यैव गमकत्वे तन्त्रत्वाद्विशेषा इव सामान्यमपि
यदि तद्भावो भवेत्तर्हि कः प्रतिरुन्ध्यात् तस्य गमकतासामर्थ्यमित्याशयेन साम्यं सामान्यविशेषयोदर्शयति-यथा चेदमित्यादीति, द्रव्यत्वादीन्यपि तद्भावत्वेनैव रूपेण गमयन्त्यग्निं न तु सामान्यरूपेणेति भावः । तदेवं लिङ्गगतसामान्यविशेषयोस्तद्धावत्वेनैव गमकत्वेनाविशेषत्ववत् लिङ्गिगतसामान्यमपि न सामान्यरूपतो गम्यमपि तु तद्भावत्वेनैवेत्याह-एवं गम्यत्वनियमाविशेष
इति, सामान्यमेव गम्यं न तु विशेषा इत्येवं विशेषो नास्ति गम्यताप्रयोजकतद्भावनियमस्योभयत्राविशिष्टत्वादिति भावः । अग्निगत20 सामान्यस्यापि तद्भावेनैव गमकत्वमाह-अग्नेरपीति । यदेव द्रव्यत्वमग्निभूतं तदेव द्रव्यत्वं तद्भावत्वाद्गम्यम् , अग्निव्यतिरिक्तोद
कादिगतं द्रव्यत्वं तु न धूमेन गम्यम् , अग्निभावत्वाभावात्तस्येति भावः । धूमस्य दीप्तितेक्षण्यादीनामप्रकाशकम् , कारणस्थयावत्स्वभावैविना कार्य न भवति तावत्स्वभावानां कारणं गमकं भवति अग्निस्थदीप्तितैश्ण्यादिखभावैर्विनापि धूमो जायत इति ते व्यभिचारान्न गम्या इति यदुक्तं त्वया तदपि तद्भावदर्शन विधेरेवेत्याह-यत्तु धूम इति। दीयादीनां क्वचिदग्नौ तद्भावदर्शनात् क्वच्चिच्चामावतद्भावत्वेन दर्शनाच्च तद्भावदर्शनविधेरेव धूमात्तेषामगतिरिति भावः । तद्भावदर्शनमाह-तथा चान्यथा चेति, 25 दीप्यादिभिरग्नेस्तद्भावप्रतिबन्धो नास्ति व्यभिचारादिति भावः । ननु दीप्यादिविरहितत्वं क्व दृष्टम् ? किमत्यन्तशीतभूतेऽनौ ?
नासावमिरेव भवति कुतो व्यभिचारः ? सति ह्यनौ दीयादीनां विरहे स्याद्व्यभिचारः इत्याशङ्कायामाह-नात्यन्ते ति, न हि वयं तत्र व्यभिचारं ब्रूमः, तत्र तेषां सम्बन्धाभावात् , किन्तु यत्र क्वचिदग्नौ दीप्यादिसम्बन्धो नास्ति तत्र व्यभिचारो बोध्य इति भावः । तद्भावदर्शनविधेरभ्युपगम एवानुमानलक्षणं तद्भावदर्शनव्याया हि बुद्ध्युत्पत्तिरनुमानमित्येवमुपपद्यत इत्याह-दर्शनविधेरे
वेति । प्रदेशस्य धूमवत्त्वमग्निमत्त्वप्रतिबद्धमेव, न हि प्रदेशस्य धूमवत्त्वं तस्याग्निमत्त्वमन्तरेण सम्भवतीति यदेकान्तेन गृह्यते तदा 30 तजन्यं विज्ञानमनुमानं धूमादत्रा निरिति भवति तथाविधमेकान्तग्रणं धूमवत्त्वस्याग्निमत्त्वव्यभिचारित्वाभावादिति व्याचष्टे-यदा
धूमवत्त्वमिति । यदा तु व्यभिचारो भवेत्तदा तदनुमानाभासं भवति यथा कश्चिदत्र वृक्षः, अत्र क्षुपो वा इति प्रतिज्ञाय यदि धूमादिति हेतुं प्रयुयात् तदिदमनुमानमाभासं भवति, तत्र ज्वलनतक्ष्ण्यादिव्यभिचारदर्शनादग्निमत्त्वानुबद्धत्वाभावादित्याह
सि.क्ष. डे. छा. धूम भूयते। २सि. क्ष. छा. डे. विधिरेव । ३ सि. यत्तु धूमो दीप्ल्यादित्यादि । ४ सि.क्ष. छा. डे, दर्शने विधिरेव । ५ सि.क्ष.छा. डे. नात्यन्ताभू०। ६ सि.क्ष. छा. डे. विधिरेवा।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org