________________
wwwmamama
तद्भावदर्शनविधिस्थापना] द्वादशारनयचक्रम् सामान्यस्य गमकत्वं लिङ्गिनि, न विशेषाणाम् , लिङ्गस्य च विशेषाणां केषाश्चिद्गमकत्वं न सामान्यस्य, तदेतत्सर्वमविनाभावादाधाराधेयवद्वृत्तेरिति, एषामपि तद्भावदर्शनविधेरेव गमकत्वं, यत्र दृष्टः तद्गमयति न यत्र चादृष्टस्तद्व्यवच्छेदेन ।
याऽप्याधाराधेयवदित्यादि, यामप्याधाराधेयवद्वृत्तिं मन्यसे 'लिङ्गे लिङ्गी भवत्येवे'त्यादिश्लोकः, तद्व्याख्या-यस्माल्लिङ्गे धूमे लिङ्गी-अग्निर्भवत्येव, न न भवत्यपि तस्माद्युक्तमित्यवधारणार्थप्रदर्शनम् , 5 यस्माच्च लिङ्गिन्येवेत्यादि यावद्व्यत्वादिभिरित्यादि तद्विपरीतावधारणप्रदर्शनं गतार्थम् , सामान्यस्य गमकत्वं लिङ्गिनि न विशेषाणाम् , लिङ्गस्य च विशेषाणां केषाश्चिद्गमकत्वं न सामान्यस्य दृष्टम् , तत्सर्वमविनाभावादाधाराधेयवद्वत्तेरिति पूर्वपक्षः, अत्रोत्तरं-एषामपीत्यादि, इयमप्याधाराधेयवद्वृत्तिस्तद्भावदर्शनविधेरेव यत्र दृष्टैस्तद्गमयति दर्शनबलेन, न येत्र चादृष्टेस्तद्व्यवच्छेदेन व्यावृत्तिब[ले]नेति ।
अत्रापि
न हि योषिद्गण्डपाण्डुत्वं गमयत्यग्निम् , अभूताग्निधूमत्वात् , धूमभूतं तु पाण्डुत्वं गमयत्यग्निम् , धूमभूताग्नित्वाद्विधेरेव तद्भावस्य तद्भावत्वेनैव गमकत्वात् , यथा चेदं तथा द्रव्यत्वादिसामान्यमपि गमकमग्नेः धूमभूताग्नित्वात् पाण्डुत्ववत्, यत्तु धूमो दीप्त्यादीनां न प्रकाशक इत्युक्तं तदपि तद्भावदर्शनविधेरेव, तथा चान्यथा च दृष्टत्वात् व्यभिचारात् दर्शनविधेरेवानुमानलक्षणोपपत्तेश्च, 'तद्भावदर्शनानुबन्धेन हि बुद्ध्युत्पत्तिरनुमानम्', धूमवत्त्वं 15 प्रदेशस्याग्निमत्वानुबद्धमेवेत्यैकान्तिकग्रहणेऽनुमानं भवति धूमादग्निरत्रेति, तस्यैकान्तेनैव
गम्यो न धूमः, धूम एव च गमको नाग्निरिति मन्यसे तदपि न युक्तमिति वक्तुं प्रथमतस्तन्मतमुपन्यस्यति-यामपीति । प्रमाणसमुच्चयकारिकामुपदर्शयति-लिङ्गे लिङ्गी भवत्येवेति, अयोगव्यवच्छेदोऽयम् , तदेव दर्शयति-अग्निर्भवत्येव, न न भवत्यपीति, यत्र धर्मिणि धर्मस्य सद्भावः सन्दिह्यते तत्रायोगव्यवच्छेदो न्यायप्राप्तः, धूमेऽमिन भवति इत्येवं योऽयोगस्तन्नेत्यर्थः, अग्निसामान्यस्यायोगो यतो व्यवच्छिद्यतेऽत एव सामान्यधर्मेणाग्निर्गम्य इति लभ्यते, अत एवोक्तं मूले-द्रव्यत्वादीनामिति, 20 द्रव्यत्वाद्यव्यभिचारित्वादग्नेरिति भावः । यस्साच लिङ्गिन्येवेति, अन्ययोगव्यवच्छेदोऽयम् , अमावेव धूमो भवति, लिङ्गम स्मिन्नस्तीति लिङ्गीति व्युत्पत्तिसामर्थ्यादग्नौ धूमस्यायोगशङ्का नास्त्येव, किन्तु यादृशो धूमोऽग्नेर्गमकस्तादृशो धूमः किमन्यत्रास्तीत्यन्ययोगशङ्का स्यादेव तव्यावर्त्तनायानावेव तथाविधो धूमो नान्यत्रेत्यन्ययोगव्यवच्छेदो न्यायप्राप्तः, सामान्यतस्तु धूमोऽपनीताग्निके वासगृहे भूताग्निकेऽरणिनिर्मन्थनादावप्यस्ति तत्तु न लिङ्गम् , लिङ्गभूतस्तु धूमः पाण्डुबहलबद्धमूलत्वादिधर्मविशिष्ट इति विशिष्टरूपेणैव गमको न सामान्यधर्मेण, अत उक्तं-द्रव्यत्वादिभिरिति । फलितमर्थमाह-सामान्यस्येति, लिङ्गिनिष्ठसामान्यानामेव 25 गमको धूमो न विशेषाणामित्यर्थः । लिङ्गनिष्टा विशेषा एव गमकाः, न सामान्यमित्याह-लिङ्गस्य चेति । सर्वमिदमविनाभावसम्बन्धस्याधाराधेयवद्वर्तनात् सिद्ध्यतीति भावं दर्शयति-तत्सर्वमिति। तदेवं पूर्वपक्षं समुपन्यस्येदानीं निराकरोति-इयमपीति, आधाराधेयवद्वृत्तिरपि तद्भावदर्शनादेव नान्यथा, तथैवाधाराधेयभाव इत्यत्र नियामकान्तराभावात् , स एव ह्यग्निधूमो भवति, नान्यः, तेनैवाग्निना धूमेन भूयते, नान्येन, न वैषोऽग्निधूमो न भवति किन्तु भवत्येवेति तद्भावस्य दर्शनादेव विधिरूपेण गमयति, न तु यत्र न दृष्टस्तव्यवच्छेदेन, यथा त्वयाऽभ्युपगम्यतेऽधूमो न भवति यतस्तस्मादनग्निर्न भवतीति भावः । तद्भाव- 30 दर्शनविधिं पाण्डुत्वादी दर्शयति-न हीति । निखिलं पाण्डुत्वं नाग्नेर्गमकम् , न हि कामिनीगण्डस्थलभ्राजिष्णुपाण्डत्वमनेर्गमका
लिङ्गिनिववि• Ixx क्ष.। २ सि. बनयादृष्ट० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org