________________
९४०
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे हेतुनोपात्तस्येतरस्य साध्यस्याभिव्यक्तिः, प्रत्यक्षकाल इव प्रत्यक्षवत् , स्यान्मतं धूमविज्ञानकालेऽग्निविज्ञानस्याभावात् ? ....................................अनित्यत्वप्रयत्नानन्तरीयकत्वयोरन्योऽन्यव्याप्तिं प्रतिज्ञाय हेतुमाह-अर्हत्तत्त्वस्याभ्युपगम्यमानत्वात्, अन्यापोहाभ्युपगमात् स्ववचनादेव जैनेन्द्रं मतमभ्युपगतं त्वयेति वक्ष्यामः ।
स्ववचनानपेक्षायामप्यनित्यं सर्व प्रयत्नानन्तरीयकं न भवतीति ते वचनं न्यायापेतमेव, तान्यपि सिद्धप्रयत्नानन्तरीयकान्येव, लोकप्रत्यक्ष...............चेतनविहितवृत्तित्वात् कुड्यादिवत् , लोकप्रत्यक्ष............वातादीनामनण्वादित्वे स्पर्शादिमत्त्वाजीवशरीरत्वेऽपि तु नात्यन्तशरीरवत्ता...............स्वयं प्रवृत्तत्वात् , स्थपतिवत् वातादिचैतन्ये सिद्धे
चेतनविहितवृत्ति च विद्युदभ्रमेघशब्दादि...,सवितृगति...............तस्मात् विद्युदादीनि 10 प्रयत्नानन्तरीयकान्यनित्यानि चेत्यन्योऽन्यगम्यगमकतेति ।।
खवचनानपेक्षायामपीत्यादि, यद्यपि स्वं वचनमनपेक्ष्यापि अनित्यं सर्व प्रयत्नानन्तरीयकं न भवतीति ब्रूषे तथापि ते स्ववचनं न्यायापेतमेवेदम् , तद्यथा-तान्यपीत्यादि, तान्यप्यभ्रेन्द्रचापादीनि सिद्धप्रयत्नानन्तरीयकान्येवेति प्रतिज्ञा, लोकप्रत्यक्षेत्यादि समासदण्डको हेतुर्यावद्विहितवृत्तित्वादिति कुड्यादिदृष्टान्तः, तद्व्याख्या-लोकप्रत्यक्षेत्यादि, विशेषणप्रयोजनानि च पिण्डार्थेन...विद्यदादीनां तावचैतन्यं साध्यते 15 जीवशरीरं वातादयः, अनण्वादित्वे स्पर्शादिमत्त्वात् गोवत् , तस्यापि गोम॑तस्य जीवत्वाभावात् मा भूद
नैकान्तिकते ति] जीवशरीरत्वेऽपि तु नात्यन्तशरीरवत्तेत्यादि यावत् स्वयं प्रवृत्तत्वादिति, विशेषणव्याख्या, स्थपतिवदिति, स्थपतेश्चैतन्यवत् वातादिचैतन्ये सिद्धे चेतनविहितवृत्ति चेत्यादिना विद्युदभ्रमेघशब्दादीनां चेतनवातप्रयत्नोत्थता दर्शाते, सवितृगतीत्यादिना इन्द्रधनुषः, तस्माद्विद्युदादीनि प्रयत्नानन्तरीयकान्यनित्यानि चेत्यनित्यप्रयत्नानन्तरीयकत्वयोरन्योऽन्यगम्यगमकता, एवमविनाभावित्वकुतर्कस्य विनाभावेना20 स्माभिः तद्भावदर्शनादेव साध्यसाधनधर्मयोः । विधेः संयोगिवद्वृत्तिर्यथाप्रतिज्ञमुक्ता ।
न त्वाधाराधेयवद्वृत्तिरिति प्रतिपादयिष्मामः
याऽप्याधाराधेयवद्वृत्तिः 'लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः। नियमस्य विपर्यासेऽसम्बन्धो लिङ्गलिङ्गिनोः॥' (प्र. स.) यस्माल्लिङ्गे धूमे लिङ्गयग्निर्भवत्येव न नभवत्यपि तस्माद्युक्तं
यदग्निवद्भुमो द्रव्यत्वादीनामस्ति प्रकाशको न तैक्ष्ण्यादीनाम् , यस्माच्च लिङ्गिन्येव लिङ्गं भवति 25 नान्यत्र तस्माद्युक्तं यद्भुमो धूमत्वेनेव पाण्डुत्वादिभिरपि प्रकाशयति न द्रव्यत्वादिभिरिति
अत्र स्यान्मतं धूमविज्ञानकालेऽग्निविज्ञानस्यासम्भवादिति ग्रन्थानन्तरं कियान् ग्रन्थस्नुटित इति परिज्ञायते, एवमनित्यत्वप्रयत्नानन्तरीयकत्वयोरिति ग्रन्थमारभ्य यावद्यथाप्रतिज्ञमुक्तेति ग्रन्थपर्यन्तमनित्यत्वप्रयत्नानन्तरीयकत्वयोः परस्परव्याप्यव्यापकभावप्रसाधकः प्रयत्नानन्तरीयकत्वरहितानां विद्युदभ्रेन्द्र चापप्रभृतीनां चेतनप्रयत्नानन्तरीयकत्वप्रसाधकश्च ग्रन्थोऽस्फुटत्वात् न व्याख्या यते। यदपि लिङ्गलिङ्गिनोः सम्बन्धस्य वर्तनमाधाराधेययोरिव, यथाऽऽधाराधेयभावसम्बन्धो द्विष्ठोऽपि उभयत्र नैकरूपया वृत्त्या वर्तते, 30 सम्बन्धाभेदेऽपि न ह्याधारस्याधेयभावः, आधेयस्य वाऽऽधारभावः एवमेव लिङ्गलिङ्गिनोाप्तिरपि लिङ्गेऽन्यथा, अन्यथा च लिङ्गिनि, विशेषधर्मपुरस्कारेणैव लिङ्गं गमकम् , न सामान्यधर्मेण, सामान्यधर्मपुरस्कारणैव लिङ्गी गम्यः, न तु विशेषधर्मेण, अग्निरेव
१ सि.क्ष. कत्वानेवेति । २ सि.क्ष. मुक्त्वा ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org