________________
९३९
हेतुग्रहे साध्यो गृहीत एव] द्वादशारनयचक्रम् ___ स्यान्मतं लिङ्गत्वादग्निः प्रत्यक्षं प्रमाणान्तरमपेक्षते धूमवदिति तन्न भवति
एवञ्च बद्धमूलत्वादिविशिष्टधूमपरिग्रहेऽग्नेरपि गृहीतत्वान्न प्रत्यक्षादिप्रमाणान्तरमपेक्ष्यम्, कृतकत्वेनेवानित्यत्वस्य, कृतकमित्युक्ते तदेव ह्यनित्यमध्रुवमित्युक्तं भवति, उत्पादविनाशयोरध्रौव्याभेदात् , तथा धूमग्रहणेऽग्निग्रहणं प्रदेशात्माभेदात् स एव निमित्तमग्नि—मस्य सहचरश्च, न हि तस्य धूमस्याग्नितोऽन्यन्निमित्तं भवितुमर्हति परिणाम्यभेदपरिणामान्तरसाध्यत्वे परि- 5 णामान्तरसाधनत्वात् , पूर्वप्रत्यक्षवदन्वयकाले सम्बन्धस्मरणादन्यतरविवक्षितहेतुनोपात्तस्येतरस्य साध्यस्याभिव्यक्तिः क्रियते, अर्हत्तत्त्वस्याभ्युपगम्यमानत्वात् ।
। एवञ्चेत्यादि, एवं-उक्तबद्धमूलत्वादिविशिष्टधूमपरिग्रहेऽग्नेरपि गृहीतत्वान्न प्रत्यक्षादिप्रमाणान्तरमपेक्ष्यम् , किमिव ? कृतकत्वेनेवानित्यत्वस्य, तद्यथा-प्रागभावप्रध्वंसाभावाख्यमेकमेवं वस्तु अनित्यं कृतकञ्चोच्यते, ध्रुव स्थैर्य, ध्रुवं-स्थिरं 'ल्येबूनेणूं।' (वार्तिक १८६५) इति त्यप् नित्यं न नित्यमनित्यमिति 10 कृतकमित्युक्ते तदेवानियमध्रुवमित्युक्तं भव[ति,उत्पादविनाशयोरध्रौव्याभेदात् , तथा धूमग्रहणेऽनिग्रहणं प्रदेशात्माभेदात् , स एव निमित्तमग्निधूमस्य सहचरश्च, न हि तस्येत्यादि यावत् क्रियते[इत्यादि, नहि तस्य-धूमस्याग्नितोऽन्यन्निमित्तं प्रदेशपरिणामात्मकात् देशान्तरस्थाग्निपाषाणाम्बुकुम्भादि भवितुमर्हति सहचरं वा, तदसम्बद्धत्रैलोक्यलिङ्गत्वप्रसङ्गात्, परिणाम्यभेदपरिणामान्तरसाध्यत्वे परिणामान्तरसाधनत्वात् एवमस्यैव हेतुसद्भावभावनार्थमाह-पूर्वप्रत्यक्षेत्यादि, यथापूर्वं प्रत्यक्षकालेऽग्निना सम्बद्धो धूमोऽग्निश्च धूमेन, 15 तथाऽन्वयकाले तस्य सम्बन्धस्य स्मरणात्-यत्राग्निस्तत्र धूमो यत्र धूमस्तत्राग्निरित्यन्यतरेण विवक्षितेन
मत्त्वमन्तरेण धूमवत्त्वाभावस्येव तत्कालसन्निहिताग्निनिमित्तत्वमपि गमयतीति प्रघट्टकार्थः । ननु यद्यनिर्लिङ्ग ततो धूमवत् प्रत्यक्षादिप्रमाणान्तरमपेक्षेत, न हि स्वरूपसन् धूमो लिङ्गं भवति, किन्तु प्रदेशे प्रत्यक्षादिप्रमाणान्तरेण गृहीत एव, तथाऽग्निरपि स्यादित्याशङ्कायामाह-एवञ्चेति । स्यादेवं यद्यग्निर्न गृहीतः, किन्तु बद्धमूलत्वादिविशेषणविशिष्टे धूमे गृहीते सत्यग्निरपि गृहीत एवेति न प्रत्यक्षादिप्रमाणान्तरापेक्षा तस्येत्याह-एवमुक्तेति । तत्र दृष्टान्तमाह-कृतकत्वेनेवेति, कृतकत्वं प्रागभावरूपं प्रध्वंसा-20 भावरूपञ्चानित्यत्वम् , तदुभयमप्येकवस्त्वात्मकम् , यदेव हि वस्तु कृतकं तदेवानित्यमुच्यते, एवञ्च कृतकत्वानित्यत्वयोस्तादात्म्याद्वस्तुनः कृतकत्वनिश्चयेऽनित्यत्वमप्यैकात्म्यान्निश्चितमेवेति भावः । इदमेवाह-ध्रव स्थैर्य इति, ध्रुवधातुस्स्थैर्यऽर्थे वर्तते ध्रुवं स्थिरं नित्यमित्येकार्थाः, नित्यमिति निशब्दात् त्यप् प्रत्ययः स्थैर्येऽर्थे, 'त्यब्नेर्भुव इति वक्तव्य'मिति वार्तिकात्, न नित्यमनित्यमध्रौव्यमुत्पादविनाशशालीत्यर्थः, दार्शन्तिकमाह-तथा धूमग्रहण इति, धूमाम्योरात्मैक्यात् धूमग्रहणे तदात्माभिन्नाग्नेरपि ग्रहण भवत्येव, एवम्भूत एवाग्निधूमस्य निमित्तं सहचरश्चेति भावः । न हि धूमस्येदृशस्य खात्मभूतप्रदेशात्मकपरिणामभूतादग्नेरन्यो 25 देशान्तरस्थोऽग्निः पाषाणादिर्वा निमित्तं भवितुमर्हति, यतः एकस्य वस्तुनः परिणामभूतयोर्धर्मयोर्मध्ये एकस्य सहचरस्य निमित्तस्य धर्मस्य साध्यत्वेऽपरः सहचरो नैमित्तिको धर्मों हेतुर्भवति, अन्यथा देशान्तरस्थान्यादीनामपरिणामभूतानामपि साधनत्वे सर्वस्य सर्व साधनं स्यादित्याह-न हि तस्येति । ईदृशस्यैवानेधूमस्य वा हेतुहेतुमद्भावं दर्शयति-यथा पूर्वमिति, प्राक् क्वचित् प्रत्यक्षतोऽग्निसम्बद्धो धूमो धूमसम्बद्धोऽग्निर्वाऽवगतः, प्रदेशे धूमस्याग्नेर्वा दर्शनात तयोः सम्बन्धस्य स्मरणं भवति, यत्र यत्राग्नि स्तत्र तत्र धूमः, यत्र यत्र धूमस्तत्र तत्रानिरिति ततः प्रतिपिपादयिषितेन हेतुनान्यतरेणापरस्य साध्यस्याभिव्यक्तिर्भवतीति भावः । 30
१xx९३५ पृष्ठादियदवधि क्ष. प्रतौ पाठस्सुटितः। २ सि.क्ष. छा. डे. न ध्रुवेत्यमनित्यं । ३ सि.क्ष. छा. डे. धूमो नाग्निश्च ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org