Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 398
________________ ww mmmmmmm शब्दस्यैकस्यानेकार्थशक्तता] द्वादशारनयचक्रम् गौरित्यगौर्भवतीत्यभिमत[म्, क]स्मात् ? वागादिगवाव्यतिरेकातिरेकवत्-तद्यथा गौरित्युक्ते वागादिषु न व्यतिरिच्यते गोत्वं, गोशब्दवागित्युक्ते दिगादिभ्यो व्यतिरिच्यते बौदिगिति, ततो गौरगौरपि भवतीति गतार्थमुदाहरणम् , एवं तावदनेकार्थे कशब्दत्वेऽन्यापोहाभावः, अनेकशब्दैकार्थत्वेऽपि तद्यथा-एकोत्तरशतनामत्वाचाम्भस इत्यादि सलिलमुदकममृतं वारि]जीवनं विषमित्यायकोत्तरशतमुदकनामानि निरुक्ते पठ्यन्ते, ततो विषमविषं भवति, अविषमपि विषं भवति, अपानीयं ग्रन्थिसादि विषं म[]रणात्मकं न जीवनात्मकं । जीवनात्मकमप्युदकादि मारणात्मकं दुःप्रयोगादित्यादि गमनिका, आदिग्रहणात् घृतमघृतमित्यादि, तथा पील[:]वृक्षोऽवृक्षत्वादपीलुर्भवति धनादिवत् , हस्तिवत् पीलुर्वा हस्त्यपि पीलुरपीलुर्भवति हस्तित्वात् मनुष्यवत् , तथा विपर्ययेण-अहस्तित्वादपीलुर्भवति पीलुवृक्षः, अवृक्षत्वात् अपीलुहस्तीति, अत इत्युपसंहरति-पीलुरपीलुश्चापीलुरपि पीलुश्चेति, एवं हरिरामार्जुनादयोऽपीति व्यापितामस्य न्यायस्योदाहरणबाहुल्येन दर्शयति, शक्रसिंहवासुदेवमण्डूकवानरहयादिषु हरिशब्ददर्शनादहरिर्हरिश्च, रामो रम्यवर्णदाशरथिबलदेवजामदग्न्येषु, 10 अर्जुनः तृणसुवर्णवृक्षपाण्डवकार्त्तवीर्येषु दर्शनादित्यादि, तच्चातञ्च पूर्ववत् । एवं श्रुतिमात्रतत्त्वो गवादिरेकः शब्दोऽप्रतिलब्धविभागोऽनेकार्थगमकशक्तियुक्तः, एकादित्यानेकार्थकारित्ववत्, प्रत्यर्थवृत्तिव्यवस्थापका हेतवो यथोक्तं-'संसर्गो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः॥ (वाक्यप. का. २ श्लो. ३१७-३१८) 15 सकरभा घेनुरकरभा धेनुः रामलक्ष्मणौ, रामार्जुनौ, अञ्जलिना जुहोति, सैन्धवमानय, अक्ताः शर्करा उपदधाति, अर्जुनः कार्तवीर्यः, अनुदरा कन्या, सीरासिमुसलैः, मथुरायाः प्राचीनान्नव्यतिरेकेति । व्याचष्टे-तद्यथेति, सामान्येन यदि गौरित्युच्यते तदा गोत्वं वागादिषु सर्वेष्वर्थेषु समानं न तु कस्मादपि विशिष्ठम् , यदा च वागुद्देशेनेयं गोशब्दवाच्येत्युच्यते तदा गोशब्दस्य तत्रैव वृत्तर्वाक् न दिगिति दिगादिभ्यो व्यतिरिच्यते, तस्माद्वाक् गोशब्दवाच्यत्वेन गौरपि सती गोशब्दवाच्यदिगादिव्यतिरिक्तत्वेनागौरपि भवति, तथा तद्गोशब्दोऽपि, 30 तदेवमनेकार्थकशब्दपक्षेऽन्यापोहो न सम्भवतीति भावः । एकोऽर्थः, अनेके शब्दा इति पक्षेऽप्यन्यापोहासम्भवं दर्शयति-अनेक शब्देति । तनिरूपयति-एकोत्तरेति, एकोत्तरशतं सलिलनामानि निरुक्ते पठ्यन्ते, जीवनात्मकमप्युदकादिजलमविषं दुष्प्रयोगादिना मरणात्मकं विषं भवति, तथा विषमपि सुप्रयोगादिनाऽविषं भवतीत्येवं विभावनीयमर्थे शब्दे चेति भावः । एतदेव दर्शयति-ततो विषमिति । अनेकार्थंकशब्दपक्षदााय निदर्शनान्तराण्याह-तथा पीलवक्ष इति 'द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः' इत्यमरः, वृक्षभूतपीलुरवृक्षत्वाद्धनादिवदपीलुर्भवतीति पीलोर्मातङ्गार्थत्वेनावृक्षत्वं सिद्धम् , 25 तथा स एवावृक्षत्वात हस्तिवत् पीलुरपि भवति, हस्ती हि अवृक्षः पीलुशब्दवाच्यत्वात् पीलुरपीति भावः । इत्थं पीलुरपि हस्ती हस्तशालिमनुष्यस्यापीलुत्ववदपीलुरपि हस्तित्वाद्भवतीत्याह-हस्त्यपीति। अपीलुरपि पीलुर्भवतीत्याह-तथा विपर्ययेणेति । न्यायस्य तदतत्त्वलक्षणस्य व्यापकत्वमादर्शयितुं प्रचुरनिदर्शनोपन्यसनमित्याह-एवं हरिरामेति । हरिशब्दानेकार्थमाह-शक्रेति, एकहरिशब्दार्थत्वेन हरित्वेऽपि तदन्यहरिशब्दार्थभिन्नत्वेनाहरिरपीति बोध्यमेवं सर्वत्र । रामशब्दानेकार्थमाह-राम इति। अर्जुनशब्दानेकार्थमाह-अर्जुन इति । एवमेकः शब्दोऽनेकार्थवाचकशक्तिः नास्ति शब्दस्य भेदः, श्रुतिविषयीभूतशब्दस्वरूपे 30 विशेषांभावादित्याह-एवं श्रुतिमात्रतत्त्व इति । व्याचष्टे-अनेनेति, श्रुतिविषयीभूतगकारोत्तरीत्वरूपतत्त्वापेक्षया गोश १२. गौर्भवती । . २ सि. क्ष. छा. डे. °तिरेकवत् । : ३ सि. क्ष. वानदिगिति। , . . . . ... . .. द्वा०४५ (१२२) _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430