Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 376
________________ ९४२ Aamw लिङ्गलिङ्गिविचारः] द्वादशारनयचक्रम् किश्चान्यत् 'लिङ्गे लिङ्गी भवत्येव' इत्यस्याः कारिकाया योऽर्थावधारणवैपरीत्येनानुमानमित्युक्तः तस्य दूषणार्थमाहाऽऽचार्यो 'लिङ्गेन न विना लिङ्गी'त्यादि श्लोकेन यथाह-न हि सर्वत्र लिङ्गिनि लिङ्गं सम्भवत्येवायोऽग्निवदिति, अत्रोत्तरं लिङ्गिनि देशेऽग्निमति धूमो भवन्नेव पक्षधर्मो भवति, नाभवन् , असिद्धत्वात् , लिङ्गिनि लिङ्गं भवत्येव, वात्यादिव्युदासेन, तस्य चाग्निगततैक्ष्ण्यादिलिङ्गत्वं न भवति, न दृष्टत्वाद्भूमे तैक्ष्ण्यादिना च । विधिवृत्त्या, यथा वाऽऽह-यदा भवति लिङ्गं तदा नालिङ्गिनि भवत्युदकादौ धूम इति, तदपि न घटते नियमेन तस्य सद्भावे तत्रैवाग्नौ नान्यत्र लिङ्गत्वम् , अत्रशब्दवाच्यैतत्प्रदेशसम्बन्धिन्येवाग्नौ लिङ्गत्वात् , तस्मात् स एव तस्यैव लिङ्गम् , धूमगतद्रव्यत्वाद्यन्यप्रकाशनन्त्वस्मदिष्टदर्शनविधेरेव, तथाऽव्यभिचारात् । - यथाऽऽहेत्यादि परमतप्रदर्शनं यावदयोऽग्निवदिति, नियमविपर्ययेण सोदाहरणम् , अत्रोत्तरं 10 लिङ्गिनि देशेऽग्निमति धूमो भवन्नेव पक्षधर्मो भवति, नाभवन्नसिद्धत्वात् , बैद्धमूलत्वादिविशेषणावधृतपक्षधर्मस्यैव लिङ्गत्वाल्लिङ्गिनि लिङ्गं भवत्येव वात्यादिव्युदासेन, तस्य च-धूमस्याग्निगततैक्ष्ण्यादिलिङ्ग[त्वं] न भवति, न दृष्टत्वात् धूमे-धूमे तस्याग्नेरदृष्टत्वात् , तैक्ष्ण्यादिना च सह विधिवृत्त्येति, यथा वाऽऽहेत्यादिलिङ्गिन्येवेत्यस्यावधारणस्य निरूपणम्-यदा भवति लिङ्गं तदा नालिङ्गिनि भवत्युदकादौ धूम इति, तदपि : न घटते, कस्मात् ? नियमेनेत्यादि, तस्य धूमस्य सद्भावे बद्धमूलत्वादिविशेषपरिच्छिन्ने तत्रैवानौ नान्य- 15 त्रायोऽग्न्यादौ लिङ्गत्वम् , किं कारणम् ? अग्निरत्रेत्यत्रशब्दस्याधिकरणवाचिनो धूमर्वत्त्वस्य अत्रशब्द अथ 'लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः । नियमस्य विपर्यासेऽसम्बन्धो लिङ्गलिगिनोः ।' इति कारिकापूर्वार्धोक्तावधारणस्य वैपरीये सति नानुमानम्, लिङ्गलिगिनोरसम्बन्धादिति य उक्तस्त्वया तं दूषयतीत्याह-किश्चान्यदिति, लिङ्गे लिङ्गी भवत्येवेत्येवावधार्यम्, न तु लिशिनि लिङ्गं भवत्येवेति, अयोऽम्यादौ लिङ्गाभावात् , लिझिन्येव लिङ्गमित्यवधायेम्, न पुनर्लिङ्ग एव लिङ्गीति, लिङ्गाभावेऽप्ययोऽम्यादौ लिङ्गिदर्शनात् व्यभिचारादित्यवधारणवैपरीत्येऽनुमानाभाव उक्तः, तन्न युक्तमिति 20 भावः । परमतमुपदर्य तन्निराकरोति-यथाऽऽहेति, लिङ्गे धूमे सति लिङ्ग्यग्निर्भवत्येव, न तु लिङ्गिन्यग्नौ सत्यवश्य लिङ्गं भवत्ययोऽग्यादौ धूमाभावादिति परमतप्रदर्शनमित्याह-परमतप्रदर्शनमिति । लिङ्गिनि लिङ्गं भवत्येवेत्यवधारणं समर्थयति-लिङ्गिनि देश इति । अग्निमद्देशादिसम्बन्धेन तेनैवाग्निना धूमेन भूयते नान्येनायोऽम्यादिनाऽबादिना वा, न सोऽग्निधूमो न भवति किन्तु भवत्येव, एवञ्चाग्निमत्प्रदेशे भवन्नेव धूमः पक्षधर्मो भवति, नापनीताग्निको धूमः, असिद्धत्वात् , अग्न्यविनाभावित्वेनैव हि बद्धमूलत्वादिरूपेणाध्यवसितस्य धूमस्य धूमत्वसिद्धेः पक्षधर्मत्वालिङ्गत्वम्, न वात्यादेस्तस्मात् 25 लिङ्गिनि लिङ्ग भवत्येवेत्यप्यवधारणं युज्यत एवेति भावः । अग्निनिष्ठतैक्ष्ण्यादिविशेषा धूमस्य गम्या न भवन्ति, तैक्ष्ण्यादिना सहामेधूमे विधिवृत्त्याऽदृष्टत्वादित्याह-तस्य चेति । लिङ्गिन्येवेतरत् पुनरिति पादार्थमाह-यथा वाऽऽहेति, भवल्लिङ्गं लिङ्गिन्येव नान्यत्रोदकादावित्यर्थः अत्रेत्यभिधेये प्रदेशे एव प्रधानोपसर्जनभावेन परस्परं नियमेन भवन्तावग्निधूमौ देशस्यैकस्य भेदविवक्षायां साध्यसाधने भवतः, तत्र च धूमवस्तुत्वं बद्धमूलत्वादिविशेषणविशिष्टमेव, तस्यैवाम्यविनाभावित्वेन लिङ्गत्वात् , ईदृशश्च धूमो नायोऽम्यादितो भवति, तस्माद्यादृशादग्नेस्तथाविधो धूमो भवति तं प्रत्येव तस्य लिङ्गत्वमत एतद्देशसम्बन्धिनि लिजि-30 न्येवागौ धूमस्य लिङ्गत्वमित्याह-तस्य धूमस्येति । तत्र हेतुमाह-अग्निरोति, अस्मिन्नित्यत्र, प्रत्यक्षविषयस्येदंशब्दस्य १ सि. क्ष. छा. डे. भवतित्रेवक्षः। २ सि. क्ष. छा. डे. अवन्धमूल। ३ सि. क्ष. छा. धर्मस्वस्यैव । ४ सि.क्ष. छा. डे. यथावत्वे । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430