Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 382
________________ बौद्धकारिकाशिक्षणम्] द्वादशारनयचक्रम् एकतो व्याप्तिं विषाणित्वादिकल्पां दर्शयति, यस्माद्व्याप्तिरेवंविधा परस्परसंसृष्टाऽपेक्ष्यते गावर्थस्य, तस्मात् सत्येव व्याप्तिः साधनमित्यभिसंभत्स्यते, विशब्दस्य वैविध्यार्थत्वात् तद्दर्शयति-अस्मदिष्टा वैविध्येन व्याप्तिरुभयाव्यभिचारात्मिका तस्मात्किम् ? स्फुटमेवान्वयात्मको दृष्टान्तो नोच्यतेऽस्माभिः, यत्र यत्रेत्यादिरुभयव्याप्तिप्रदर्शनो गतार्थो यावत् सत्येव साधनमित्युक्त्युपसंहार इति, तस्मात् दृष्टान्तलक्षणमपि 'साध्येनानुगमो हेतोः' इत्यादिप्रयोगनियमाभिधानात्मकमनर्थकमथवा भ्रान्तश्च । अत्रान्वयिधूम: यथाऽग्निसान्निध्यार्थविशेषणै—मात्मलाभाद्भूमवत्त्वमग्निसान्निध्यसाधकं तथा शब्दकृतकत्वं, पूर्वपूर्ववर्णविनाशस्योत्तरोत्तरवर्णोत्पत्तेः कारणत्वात् , शिवकादिविनाशक्रमेण घटकृतकत्ववत् , अस्मादेव च न्यायाद्यदप्युक्तं त्वया 'नाशिनः कृतकत्वेने'त्यादि तदप्येवमव्ययं 'नाशिनः कृतकत्वेन व्याप्तेस्तत्कृतकं कृतम् । अनित्यत्वमभिव्याप्त्या कृतकेऽर्थे प्रदर्श्यते ।। 10 तद्व्याख्या चेयं............. ............कृतकत्वस्यानित्यत्वमिति, एतस्मादेव न्यायात् यो युक्तः 'विषाणित्वेन गौाप्तः' इत्यादिश्लोकः सोऽपीत्थं पठितव्यः, 'विषाणित्वेन गौाप्तो विषाणित्वं प्रसाधयेत् । गव्येवानियमात्तत्तु न गवार्थप्रसाधनम् ॥' गोत्वाद्विषाणीति संयोगिवद्विधिवृत्तेः साधयेत् विषाणितां गोत्वम् , तेनैव नियतत्वात् , विषाणित्वं पुनरस्मादेव न्यायात् गवार्थ न साधयेत् , एवं तावदाधाराधेयवद्वृत्तिपक्षे ।। दोषाः संयोगिवद्विधिवृत्तिपक्षे गुणाश्चेति द्वयमप्युक्तम् । यथेत्यादि, एवं कृत्वा यथाऽग्निसान्निध्याथै विशेषणैः धूमात्मलाभादग्निसान्निध्यसाधकं [धूमवत्त्वं] तथा कृतकत्वं घटादौ घ[ काराकार टंकाराऽकारविसर्जनीयानां पूर्वस्य पूर्वस्य विनाश उत्तरोत्तरोत्पत्तेः कारणं तत एव विनाश; अनित्यत्वादुत्पत्तेः कृतकत्वस्यात्मलाभादनित्यत्वसान्निध्यं गमयतीत्युभयतो व्याप्तिः सामान्यपदमन्यव्यावृत्तिद्योतकम् । कुत इत्यत्राह-यस्मादिति, अर्थस्य गतौ यस्मात् परस्परसंसृष्टा व्याप्तिरपेक्ष्यते तस्मादित्यर्थः । 20 एवञ्च विद्यमानव्याप्तिः कारणमेव नाकारणमिति दर्शयति-तस्मादिति । कथं व्याप्तिः परस्परसंसष्टेत्यत्राह-विशब्दस्येति. विविधप्रकारेणाप्तिाप्तिरित्यत्र वीत्युपसर्गस्य वैविध्यार्थत्वादिति भावः । कथं वैविध्यं विवक्षितमित्यत्राह-अस्मदिति । परस्परव्याप्तिरग्निपरिणामभूतबद्धमूलत्वादिविशेषणविशिष्टधूमस्याग्नेश्च प्रसिद्धाप्रसिद्धसम्बन्धित्वविवक्षयैकस्यैव प्रदेशस्य साध्यसाधनत्वयोरस्मदिष्टा, अत एव यत्र धूमस्तत्राग्निरिति यत्राग्निस्तत्र धूम इति दृष्टान्तो नोपदीते, व्याप्तिग्रहार्थं हि दृष्टान्तप्रदर्शनम् , व्याप्तिश्चाग्नितत्परिणामधूमविशेषयोः परिणामपरिणामिभावादेव परिस्फुटमवगतैवेति नार्थस्तेनेत्याशयेनाह-स्फुटमेवेति । एवं 25 परार्थानुमानेऽवश्यं दृष्टान्तप्रयोगः कार्य इत्यपि नियमोऽनर्थकः, रन्धनगृहेऽस्मिन् धूमोऽन्वयीति नियमेनाभिधानं भ्रान्तमेव, दृष्टान्तमन्तरेणापि उभयाव्यभिचारात्मकव्याप्तिज्ञानसम्भवादित्याह-तस्मात् दृष्टान्तेति । अग्निधूमयोर्यथोभयाव्यभिचारात् परस्परसंसृष्टा व्याप्तिस्तथैव कृतकानित्यत्वयोरपीति दर्शयति-यथेति । सामान्यतो धूमे साध्येऽग्नेरिवानौ साध्ये धूमोऽपि व्यभिचारीत्युभयव्यभिचारवारणायामिपरिणामभूतस्य बद्धमूलत्वादिविशेषणविशिष्टस्यैव धूमस्य गमकत्वात् स यथाऽग्निमत्त्वं गमयति तथाऽग्नेः सन्निहितत्वं निमित्तत्वञ्च गमयति तद्वत् शब्दनिष्ठं कृतकत्वमपीत्याह-एवं कृत्वेति, अग्निसान्निध्यगमकैर्बद्धमूलत्वादिविशेषणैर्यतस्यैव 30 धूमस्याग्नित आत्मलाभादग्निवदग्निसान्निध्यसाधकत्वं यथा तथा घटादिशब्दगतकृतकत्वस्यापि, तद्धि कृतकत्वं पूर्ववर्णविनाशमन्तरेण सि.क्ष. छा. डे. गतादर्थस्य । २ सि.क्ष. छा. डे. द्वैविध्या०। ३सि.क्ष. छा. डे. कंमवाभ्रांतं वात्रत्वापिधूमः। ४ सि. क्ष. डे. छा. सानिध्यार्थेवि०। ५ सि.क्ष. छा.डे. °टाका०। ६ सि.क्ष. छा. डे. दनित्यत्वसान्निध्यमेवानित्यत्वसानिध्यं । द्वा० ४३ (१२०) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430