Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 380
________________ उक्तन्यायमारणम् ] द्वादशारनयचक्रम् त्वया 'कामं लिङ्गमपि व्यापि लिङ्गिन्यङ्गि नु तत्त्वतः । व्यापित्वान्न तु तत्तस्य गमकं गोविषाणवत्' । (प्रमा० स० ) इति, किमुक्तं भवति-सत्यपि किल कृतकानित्यत्ववत् संयोगिवद्वृत्त्याऽन्योऽन्यव्यापित्वे धूम एवानेर्गमको नाग्निधूमस्य यथा गोत्वाद्विषाणीति गोत्वं विषाणित्वस्य गमकं न विषाणित्वं गोरिति विषाणित्वस्य गोगजवृषमहिषवराहादिषु व्यभिचारादिति, अत्रापि गम्यगमकनियमोऽस्मन्मतेनेत्येष श्लोकः यथा लिङ्गमपि व्यापीति, अस्य व्याख्या-संयोगिवद्वृत्तावित्यादि, प्रदेशधर्मत्वात् तस्यैव साध्यसाधनत्वोपव- 5 र्णनं प्रागुक्तमतिदिश्य तथा लिङ्गमपि व्यापि, वात्यादिव्युदासेन, अग्निपरिणामत्वेन बद्धमूलत्वादेरुभयलिङ्गलिङ्गिताऽस्त्येव प्रागुक्ता स्मर्यतां को दोषः ? इति । तमेव न्यायं स्मारयति अत एव च यत्तद्गोविषाणवदेकतो व्यभिचाराभावादुभयं लिङ्गं लिङ्गि वा, विषाणं हि प्रमेयत्ववत् व्यभिचारि, इतरवद्गौरव्यभिचारी कृतकानित्यत्वयोस्तुभयमव्यभिचारात् , 10 अस्मदुक्तव्याप्तेर्विधिरूपाया एव गम्यगमकत्वात् 'विधेयार्थप्रचारेण यस्माद्व्याप्तिरपेक्ष्यते। लिङ्गे लिङ्गिनि च व्याप्तिः तस्मात् सत्येव कारणम् ॥ (ग्रन्थकृतः) इति, न यथा त्वयोच्यते 'प्रतिषेध्याप्रचारेण यस्माद्व्याप्तिरपोहते । लिङ्गे लिङ्गिनि च व्याप्तिस्तस्मात् सत्यप्यकारणम् ॥ (प्र० स०) इति, विधेयो भाव: नाभावः प्रतिषेध्यः तस्य प्रचारः नाप्रचारः, तदर्थगमनप्रकर्षण चारः प्रचारः, अन्य .. न धूमसामान्याग्निमद्गतिवत् , यस्माद्व्याप्तिरेवंविधा परस्पर- 15 संसृष्टाऽपेक्ष्यते गतादर्थस्य, अस्मदिष्टा वैविध्येन व्याप्तिरुभयाव्यभिचारात्मिका तस्मात् स्फुटमेवान्वयदृष्टान्तो नोच्यते यत्र यत्र धूमस्तत्र तत्राग्निः, यत्र यत्राग्निस्तत्र तत्र धूम इति, तस्मात् सत्येव साधनम् , तस्माद् दृष्टान्तलक्षणमपि साध्येनानुगमो हेतोः साध्याभावे च नास्तिता............... ॥' (प्र० स०) इत्यनर्थकमथवा भ्रान्तम् । कारिकामुद्भावयति-कामं लिङ्गमपीति । अस्या अर्थमाह-किमुक्तं भवतीति, शब्दे हि कृतकत्वमनित्यत्वञ्च संयोगिवत् , 20 संयुक्ताङ्गुलिद्वयवद्वर्त्तते, नाधाराधेयभावेन वर्तते, एवमग्निधूमावपि प्रदेश संयोगिवद्वर्तेते, कृतकत्वानित्यत्ववदेव परस्परव्यापिनौ तथापि यथा कृतकत्वमेव लिङ्गमनित्यत्वमेव लिङ्गि कृतकत्वं ह्यभूत्वा भवनखरूपम् , अनित्यत्वन्तु भूत्वाऽभवनखरूपम् , उत्पत्त्यभिधानपूर्वकमुपसंहृतिर्यतोऽतोऽनित्यतैव कृतकत्वेनानुमातव्या, तस्यैव सदृशापरापरोत्पत्तिलक्षणभ्रमहेतुसद्भावेनानिश्चितत्वात् , तथा धूम एवाग्नेर्गमको न त्वग्मिधूमस्येति भावः । तत्र निदर्शनं ददाति-यथा गोत्वाद्विषाणीति, विषाणित्वेन गोळपित्वेऽपि न तस्य गोगमकत्वम्, गजवृषभादौ तस्य सत्त्वेन व्यभिचारात् , व्यापित्वात्तु विषाणित्वं गोत्वस्य गम्यं भवतीति भावः । तत्कारिकाशब्दार्थस्तु 25 लिङ्गिनि लिङ्गमपि यथेप्सितं व्यापि भवतु, परमार्थतस्तु लिङ्गी व्यापी भवति, व्यापित्वस्य गम्यतासमानाधिकरणत्वात् , अत एव व्यापित्वेन लिङ्ग लिगिनो न गमकम् , गोविषाणवदिति गम्यगमकभावनियमो लिङ्गलिगिनोरस्मन्मतेन सम्भवतीति कारिकया दर्शयति-यथा लिङ्गमपीति, तत्प्रदेशेन्धनादिसम्बन्धमुपगम्य स एवाग्निधूमो भवति तस्मात् प्रदेशधौ तौ संयोगिवर्तते, तोच विधिरूपावेव दृश्येते न त्वधूमव्यावृत्त्यनग्निव्यावृत्तिरूपौ, यत्र धूमाग्नी न दृष्टौ तयोस्तद्व्यवच्छेदमात्ररूपतायां निःस्वभावत्वे खपुष्पतुल्यत्वादनिष्टप्राप्तिः स्यात्, एवश्च प्रदेशधर्मत्वात् संयोगिवद्वत्तेः तस्यैव च प्रदेशस्य प्रसिद्धाप्रसिद्धलिङ्गलिङ्गिद्वारेण साध्यत्वात् साधनत्वाच्च यथा लिङ्गी व्यापी भवति तथा लिङ्गमपि वात्यादिपरिहारेण व्यापि भवति, यतः बद्धमूलत्वादिविशेषणविशिष्ट एव 30 धूमोऽमेः परिणामः, तथाविधौ च धूमानी परस्परव्यापिनौ भवतस्तथा प्रसिद्धाप्रसिद्धसम्बन्धित्वनिबन्धनलिङ्गलिङ्गिता चेति प्रागुपपादितमेवेति भावः । अमुमेव न्याय स्मारयति-अत एव चेति, उभयलिङ्गलिङ्गित्वादेव चेत्यर्थः । पूर्व प्रतिज्ञातं यत्त्वन्म Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430