Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 378
________________ लिङ्गिन्येव लिङ्गमित्यस्य भङ्गः] द्वादशारनयचक्रम् अथोच्येत तस्यैव व्यभिचारिणो विशेषा न तु गम्यन्त इति विशेष्योक्त एवेत्येतदपि न, तैपण्यादिवचनात् , मया तत्रापि चोक्तमेव तद्भावदर्शनविधेरेव तदिति, तस्माल्लिङ्गे लिङ्गी भवत्येवेत्ययुक्तमुक्तम् ।। अथोच्यतेत्यादि, स्यान्मतं मया विशेष्योक्त एवं ताणतोषादिविशेषा न तु गम्यन्ते, केषाम् ? तस्यैव व्यभिचारिण इत्येतदपि न, तैक्ष्ण्यादिवचनात् त्वया हि दीप्तितैण्यादयो विशेषा न गम्यन्त इति । कारिकार्थ विवृण्वतोक्तत्वात् , तैक्ष्ण्यादीनाञ्च गम्यत्वस्य दर्शितत्वादिति, किञ्चान्यत् मया तत्रापि चोक्तमेव तद्भावदर्शनविधेरेव तदिति-तदपि च विशेषाणां गम्यगमकत्वं साध्यसाधनधर्मयोस्तद्भावेन दृष्टयोविधिरूपेण संयोगिवद्वृत्तेः दृष्टबलेनैव, न व्यावृत्त्येत्यभिहितमेव, तस्माल्लिङ्गे लिङ्गी भवत्येवेत्ययुक्तमुक्तम् , लिङ्गेन न विना लिङ्गीत्यादिश्लोकश्च साधूक्तः । यदप्युक्तं लिङ्गिन्येव लिङ्गमिति तदपि न च लिङ्गिन्येव लिङ्गमिति नियमो वासगृहवत् , शक्यते च लिङ्गे धूमे नियमादग्निरिति वक्तुम् , असन्धुक्षितानग्नित्वात् , स ह्यसन्दीप्तेन्धनावस्थोऽरण्यवस्थो वाऽग्निरधूमकोऽधूमकत्वादनग्निरेव, भस्मच्छन्नस्यापि बाष्पोष्मपुद्गलनिश्चरणात् सेन्धनत्वं सधूमत्वञ्च परमार्थतः तत्परिणामात् , सर्वत्र धूमेऽग्निनियतः, तथाऽग्नौ धूमः, एवञ्च लिङ्गं लिङ्गिनि व्यापित्वादेव गमकत्वं भजते, कृतकानित्यत्ववत् । (न चेति) न च लिङ्गिन्येव लिङ्गमिति नियमो वासगृहवत्-यथा वासगृहेऽपनीताग्निके लिङ्गिनाऽग्निना विना धूमस्य दृष्टत्वादरणिनिर्मथनावस्थस्येति[वा], शक्यते च लिङ्गे धूमे नियमादग्निरिति वक्तुम् , कस्मात् ? असन्धुक्षितानग्नित्वात्-स ह्यसन्दीप्तन्धनावस्थोऽरण्यवस्थो वाऽऽग्निरधूमकः, अधूमत्वा 10 15 स्वाच्चेत्युक्तमेव विशिष्य विशेषाणामगम्यत्वमित्याशङ्कते-अथोच्यतेति। व्याचष्टे-स्यान्मतमिति । लिङ्गे लिङ्गी भवत्येवेति कारिकार्थ प्रकाशयता त्वया यदग्निवद्भुमो द्रव्यत्वादीनामस्ति प्रकाशको न तैक्षण्यादीनामिति हि व्याख्यातम्, अस्माभिश्च तेषां 20 गम्यत्वं प्रतिपादितमेवेत्युत्तरयति-इत्येतदपि नेति । त्वया तैक्ष्ण्यादीनामगम्यत्वं दर्शितम् , मया चाधुना धूमविशेषैस्तत्सहचरा अग्निविशेषा गम्यन्त इति दर्शितं तैक्ष्ण्यादीनां गम्यत्वमित्याह-त्वया हीति । तत्रैव स्वोक्तं स्मारयति-मया तत्रापीति, दीप्तितैक्षण्यादिविशेषागतिरपि तद्भावदर्शनविधेरेव तथाऽन्यथा च दृष्टत्वादिति तत्राप्युक्तमेवेति भावः । विशेषाणां गम्यगमकभावोऽपि साध्यसाधनभूतयोस्तयोस्तद्भावदर्शनविधेरेव यत्र दृष्टस्तद्गमयति दर्शनबलेन, नतु यत्र च न दृष्टस्तव्यवच्छेदेन व्यावृत्तिबलेनेत्याहतदपि चेति । निगमयति-तस्मादिति । अथ लिङ्गिन्येव लिङ्गमित्यप्यवधारणं वासगृहादौ भूताग्निके धूमवति व्यभिचरितमिति 25 दूषयति-नच लिङ्गिन्येवेति। न चान्ययोगव्यवच्छेदः सम्भवी, भूतामिके वासगृहादौ भविष्यदग्निकायां निर्मथनावस्थारणौ धूमस्य योगादित्याचष्टे-न चेति । अग्निव्यापित्वन्तु धूमस्य वक्तुं शक्यमिति दर्शयति-शक्यते चेति । यत्र यत्राग्निस्तत्र तत्र धूमः, न हि धूममन्तरेगामिरस्ति, असन्दीप्तेन्धनावस्थस्यारण्यवस्थस्य च प्रागभावलक्षणस्यामेरधूमकत्वेनानग्नित्वात् , यतो हि स न दहति अत एवानमिः, अदहनागमनलक्षणस्यान नित्वादुदकादिवदित्याह-असन्धुक्षितेति, असन्धुक्षितस्यानग्नित्वादित्यर्थः । अग्नि १ सि.क्ष. छा. डे. एवादोषस्यापि शेषाननु । २ सि. क्ष. छा. डे. नमः । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430