Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 372
________________ wwwmamama तद्भावदर्शनविधिस्थापना] द्वादशारनयचक्रम् सामान्यस्य गमकत्वं लिङ्गिनि, न विशेषाणाम् , लिङ्गस्य च विशेषाणां केषाश्चिद्गमकत्वं न सामान्यस्य, तदेतत्सर्वमविनाभावादाधाराधेयवद्वृत्तेरिति, एषामपि तद्भावदर्शनविधेरेव गमकत्वं, यत्र दृष्टः तद्गमयति न यत्र चादृष्टस्तद्व्यवच्छेदेन । याऽप्याधाराधेयवदित्यादि, यामप्याधाराधेयवद्वृत्तिं मन्यसे 'लिङ्गे लिङ्गी भवत्येवे'त्यादिश्लोकः, तद्व्याख्या-यस्माल्लिङ्गे धूमे लिङ्गी-अग्निर्भवत्येव, न न भवत्यपि तस्माद्युक्तमित्यवधारणार्थप्रदर्शनम् , 5 यस्माच्च लिङ्गिन्येवेत्यादि यावद्व्यत्वादिभिरित्यादि तद्विपरीतावधारणप्रदर्शनं गतार्थम् , सामान्यस्य गमकत्वं लिङ्गिनि न विशेषाणाम् , लिङ्गस्य च विशेषाणां केषाश्चिद्गमकत्वं न सामान्यस्य दृष्टम् , तत्सर्वमविनाभावादाधाराधेयवद्वत्तेरिति पूर्वपक्षः, अत्रोत्तरं-एषामपीत्यादि, इयमप्याधाराधेयवद्वृत्तिस्तद्भावदर्शनविधेरेव यत्र दृष्टैस्तद्गमयति दर्शनबलेन, न येत्र चादृष्टेस्तद्व्यवच्छेदेन व्यावृत्तिब[ले]नेति । अत्रापि न हि योषिद्गण्डपाण्डुत्वं गमयत्यग्निम् , अभूताग्निधूमत्वात् , धूमभूतं तु पाण्डुत्वं गमयत्यग्निम् , धूमभूताग्नित्वाद्विधेरेव तद्भावस्य तद्भावत्वेनैव गमकत्वात् , यथा चेदं तथा द्रव्यत्वादिसामान्यमपि गमकमग्नेः धूमभूताग्नित्वात् पाण्डुत्ववत्, यत्तु धूमो दीप्त्यादीनां न प्रकाशक इत्युक्तं तदपि तद्भावदर्शनविधेरेव, तथा चान्यथा च दृष्टत्वात् व्यभिचारात् दर्शनविधेरेवानुमानलक्षणोपपत्तेश्च, 'तद्भावदर्शनानुबन्धेन हि बुद्ध्युत्पत्तिरनुमानम्', धूमवत्त्वं 15 प्रदेशस्याग्निमत्वानुबद्धमेवेत्यैकान्तिकग्रहणेऽनुमानं भवति धूमादग्निरत्रेति, तस्यैकान्तेनैव गम्यो न धूमः, धूम एव च गमको नाग्निरिति मन्यसे तदपि न युक्तमिति वक्तुं प्रथमतस्तन्मतमुपन्यस्यति-यामपीति । प्रमाणसमुच्चयकारिकामुपदर्शयति-लिङ्गे लिङ्गी भवत्येवेति, अयोगव्यवच्छेदोऽयम् , तदेव दर्शयति-अग्निर्भवत्येव, न न भवत्यपीति, यत्र धर्मिणि धर्मस्य सद्भावः सन्दिह्यते तत्रायोगव्यवच्छेदो न्यायप्राप्तः, धूमेऽमिन भवति इत्येवं योऽयोगस्तन्नेत्यर्थः, अग्निसामान्यस्यायोगो यतो व्यवच्छिद्यतेऽत एव सामान्यधर्मेणाग्निर्गम्य इति लभ्यते, अत एवोक्तं मूले-द्रव्यत्वादीनामिति, 20 द्रव्यत्वाद्यव्यभिचारित्वादग्नेरिति भावः । यस्साच लिङ्गिन्येवेति, अन्ययोगव्यवच्छेदोऽयम् , अमावेव धूमो भवति, लिङ्गम स्मिन्नस्तीति लिङ्गीति व्युत्पत्तिसामर्थ्यादग्नौ धूमस्यायोगशङ्का नास्त्येव, किन्तु यादृशो धूमोऽग्नेर्गमकस्तादृशो धूमः किमन्यत्रास्तीत्यन्ययोगशङ्का स्यादेव तव्यावर्त्तनायानावेव तथाविधो धूमो नान्यत्रेत्यन्ययोगव्यवच्छेदो न्यायप्राप्तः, सामान्यतस्तु धूमोऽपनीताग्निके वासगृहे भूताग्निकेऽरणिनिर्मन्थनादावप्यस्ति तत्तु न लिङ्गम् , लिङ्गभूतस्तु धूमः पाण्डुबहलबद्धमूलत्वादिधर्मविशिष्ट इति विशिष्टरूपेणैव गमको न सामान्यधर्मेण, अत उक्तं-द्रव्यत्वादिभिरिति । फलितमर्थमाह-सामान्यस्येति, लिङ्गिनिष्ठसामान्यानामेव 25 गमको धूमो न विशेषाणामित्यर्थः । लिङ्गनिष्टा विशेषा एव गमकाः, न सामान्यमित्याह-लिङ्गस्य चेति । सर्वमिदमविनाभावसम्बन्धस्याधाराधेयवद्वर्तनात् सिद्ध्यतीति भावं दर्शयति-तत्सर्वमिति। तदेवं पूर्वपक्षं समुपन्यस्येदानीं निराकरोति-इयमपीति, आधाराधेयवद्वृत्तिरपि तद्भावदर्शनादेव नान्यथा, तथैवाधाराधेयभाव इत्यत्र नियामकान्तराभावात् , स एव ह्यग्निधूमो भवति, नान्यः, तेनैवाग्निना धूमेन भूयते, नान्येन, न वैषोऽग्निधूमो न भवति किन्तु भवत्येवेति तद्भावस्य दर्शनादेव विधिरूपेण गमयति, न तु यत्र न दृष्टस्तव्यवच्छेदेन, यथा त्वयाऽभ्युपगम्यतेऽधूमो न भवति यतस्तस्मादनग्निर्न भवतीति भावः । तद्भाव- 30 दर्शनविधिं पाण्डुत्वादी दर्शयति-न हीति । निखिलं पाण्डुत्वं नाग्नेर्गमकम् , न हि कामिनीगण्डस्थलभ्राजिष्णुपाण्डत्वमनेर्गमका लिङ्गिनिववि• Ixx क्ष.। २ सि. बनयादृष्ट० । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430