Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 371
________________ ९४० न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे हेतुनोपात्तस्येतरस्य साध्यस्याभिव्यक्तिः, प्रत्यक्षकाल इव प्रत्यक्षवत् , स्यान्मतं धूमविज्ञानकालेऽग्निविज्ञानस्याभावात् ? ....................................अनित्यत्वप्रयत्नानन्तरीयकत्वयोरन्योऽन्यव्याप्तिं प्रतिज्ञाय हेतुमाह-अर्हत्तत्त्वस्याभ्युपगम्यमानत्वात्, अन्यापोहाभ्युपगमात् स्ववचनादेव जैनेन्द्रं मतमभ्युपगतं त्वयेति वक्ष्यामः । स्ववचनानपेक्षायामप्यनित्यं सर्व प्रयत्नानन्तरीयकं न भवतीति ते वचनं न्यायापेतमेव, तान्यपि सिद्धप्रयत्नानन्तरीयकान्येव, लोकप्रत्यक्ष...............चेतनविहितवृत्तित्वात् कुड्यादिवत् , लोकप्रत्यक्ष............वातादीनामनण्वादित्वे स्पर्शादिमत्त्वाजीवशरीरत्वेऽपि तु नात्यन्तशरीरवत्ता...............स्वयं प्रवृत्तत्वात् , स्थपतिवत् वातादिचैतन्ये सिद्धे चेतनविहितवृत्ति च विद्युदभ्रमेघशब्दादि...,सवितृगति...............तस्मात् विद्युदादीनि 10 प्रयत्नानन्तरीयकान्यनित्यानि चेत्यन्योऽन्यगम्यगमकतेति ।। खवचनानपेक्षायामपीत्यादि, यद्यपि स्वं वचनमनपेक्ष्यापि अनित्यं सर्व प्रयत्नानन्तरीयकं न भवतीति ब्रूषे तथापि ते स्ववचनं न्यायापेतमेवेदम् , तद्यथा-तान्यपीत्यादि, तान्यप्यभ्रेन्द्रचापादीनि सिद्धप्रयत्नानन्तरीयकान्येवेति प्रतिज्ञा, लोकप्रत्यक्षेत्यादि समासदण्डको हेतुर्यावद्विहितवृत्तित्वादिति कुड्यादिदृष्टान्तः, तद्व्याख्या-लोकप्रत्यक्षेत्यादि, विशेषणप्रयोजनानि च पिण्डार्थेन...विद्यदादीनां तावचैतन्यं साध्यते 15 जीवशरीरं वातादयः, अनण्वादित्वे स्पर्शादिमत्त्वात् गोवत् , तस्यापि गोम॑तस्य जीवत्वाभावात् मा भूद नैकान्तिकते ति] जीवशरीरत्वेऽपि तु नात्यन्तशरीरवत्तेत्यादि यावत् स्वयं प्रवृत्तत्वादिति, विशेषणव्याख्या, स्थपतिवदिति, स्थपतेश्चैतन्यवत् वातादिचैतन्ये सिद्धे चेतनविहितवृत्ति चेत्यादिना विद्युदभ्रमेघशब्दादीनां चेतनवातप्रयत्नोत्थता दर्शाते, सवितृगतीत्यादिना इन्द्रधनुषः, तस्माद्विद्युदादीनि प्रयत्नानन्तरीयकान्यनित्यानि चेत्यनित्यप्रयत्नानन्तरीयकत्वयोरन्योऽन्यगम्यगमकता, एवमविनाभावित्वकुतर्कस्य विनाभावेना20 स्माभिः तद्भावदर्शनादेव साध्यसाधनधर्मयोः । विधेः संयोगिवद्वृत्तिर्यथाप्रतिज्ञमुक्ता । न त्वाधाराधेयवद्वृत्तिरिति प्रतिपादयिष्मामः याऽप्याधाराधेयवद्वृत्तिः 'लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः। नियमस्य विपर्यासेऽसम्बन्धो लिङ्गलिङ्गिनोः॥' (प्र. स.) यस्माल्लिङ्गे धूमे लिङ्गयग्निर्भवत्येव न नभवत्यपि तस्माद्युक्तं यदग्निवद्भुमो द्रव्यत्वादीनामस्ति प्रकाशको न तैक्ष्ण्यादीनाम् , यस्माच्च लिङ्गिन्येव लिङ्गं भवति 25 नान्यत्र तस्माद्युक्तं यद्भुमो धूमत्वेनेव पाण्डुत्वादिभिरपि प्रकाशयति न द्रव्यत्वादिभिरिति अत्र स्यान्मतं धूमविज्ञानकालेऽग्निविज्ञानस्यासम्भवादिति ग्रन्थानन्तरं कियान् ग्रन्थस्नुटित इति परिज्ञायते, एवमनित्यत्वप्रयत्नानन्तरीयकत्वयोरिति ग्रन्थमारभ्य यावद्यथाप्रतिज्ञमुक्तेति ग्रन्थपर्यन्तमनित्यत्वप्रयत्नानन्तरीयकत्वयोः परस्परव्याप्यव्यापकभावप्रसाधकः प्रयत्नानन्तरीयकत्वरहितानां विद्युदभ्रेन्द्र चापप्रभृतीनां चेतनप्रयत्नानन्तरीयकत्वप्रसाधकश्च ग्रन्थोऽस्फुटत्वात् न व्याख्या यते। यदपि लिङ्गलिङ्गिनोः सम्बन्धस्य वर्तनमाधाराधेययोरिव, यथाऽऽधाराधेयभावसम्बन्धो द्विष्ठोऽपि उभयत्र नैकरूपया वृत्त्या वर्तते, 30 सम्बन्धाभेदेऽपि न ह्याधारस्याधेयभावः, आधेयस्य वाऽऽधारभावः एवमेव लिङ्गलिङ्गिनोाप्तिरपि लिङ्गेऽन्यथा, अन्यथा च लिङ्गिनि, विशेषधर्मपुरस्कारेणैव लिङ्गं गमकम् , न सामान्यधर्मेण, सामान्यधर्मपुरस्कारणैव लिङ्गी गम्यः, न तु विशेषधर्मेण, अग्निरेव १ सि.क्ष. कत्वानेवेति । २ सि.क्ष. मुक्त्वा । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430