Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९३८
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे कवासगृहारणिनिर्मन्थनावस्थाव्युदासः, तस्मात् सलिलबलाहकयोः सहचारिणोरिवाग्निधूमयोर्व्यभिचारदर्शनात् निमित्तनैमित्तिकभावोऽपीष्टः ।
सोऽपि निमित्तनैमित्तिकभावः सहचरिभावेन विना व्यभिचरत्येवेति दर्शयन्नाह
बलाकापताकावच्च निमित्तसद्भावेऽपि नैमित्तिकस्य स्थपतिकृतप्रासादादिवत् नैमित्तिक5 सद्भावेऽपि निमित्तस्य चाभावदर्शनात् सहचरिभावोऽप्येषितव्यः, धूमाग्योर्व्यभिचारदर्शनात् सहचरिनिमित्तत्त्वोपपत्तावपि देशान्तरासश्चारितत्कालसन्निहिताग्निनिमित्तस्य विशेषणविशिष्टस्यैव धूमस्य सहचरिण्यग्नौ गमकत्वेन विशेषणार्थवत्त्वात् , इतरथाऽग्निमत्त्वमेव न गमयति उभयतोऽपि यस्मात् तस्मात् स यथाऽग्निमत्त्वं गमयति तथा सन्निहिताग्निनिमित्तत्वमपि,
उभयत्राव्यभिचारात्। 10 बलाकापताकावच्चेत्यादि यावद्भूमाम्योर्व्यभिचारदर्शनादिति भावना गतार्था, नैमित्तिकसद्भावे निमित्ताभावदर्शनात् स्थपतिकृतप्रासादादिवदिति, तदुभयगतदोषपरिहारेण व्यवयवगुणप्रकाशनार्थं चाह[सहचरिनिमित्तोपपत्तावपीत्यादि यावद्विशेषणार्थवत्त्वादिति, उभयविशेषणसम्पत्तौ सत्यां काचिद्व्यभिचा. रदिक् न सम्भवति, तत्कथमिति तदर्शयति-देशान्तरासञ्चारीत्यादिना भावयन् , तत्कालसन्निहिताग्निनिमित्तत्वाद्धूमस्य व्यभिचारमलविशुद्धस्य तैर्विशेषणैर्विशिष्टस्यैव सहचरिण्यग्नौ गमकत्वम् , इतरथा धूमस्यापि 15 अग्नेरिव धूमे व्यभिचारात् विशेषणसामर्थ्यादनुमानार्थत्वम् , विशेषणानुपादानेऽग्निमत्त्वमेव न गमयति, उभयतोऽपि सहचरित्वे निमित्तनैमित्तिकत्वे वा सति यस्मात् , तस्मात् , स यथाऽग्निमत्त्वं गमयति तथा सन्निहिताग्निनिमित्तत्वमपि, गमयतीति वर्त्तते-यथाऽग्निमत्त्वेन विना नास्ति धूम[व]त्त्वं तथा तन्निमित्तत्वमन्तरेण नास्तीत्यग्निमत्त्ववन्निमित्तत्वमपि गमयति उभयत्राव्यभिचारादिति ।
नान्यादृशात्तादृशं भवति, एवं निमित्तनैमित्तिकभावात्तयोरविनाभावः, न तु साहचर्यमात्रेण व्यभिचारित्वादिति भावः । 20 निमित्तनैमित्तिकभावे सत्यपि नैमित्तिकमुत्पाद्य निमित्तेऽपनीते व्यभिचारदर्शनातू सहचरिभावोऽप्यावश्यक इत्याह-बलाकेति ।
बलाका जलस्य पताका प्रासादादेनिमित्तम् , तत्सद्भावेऽपि क्वचित् कदाचित् नैमित्तिकस्य जलादेरभावस्य दर्शनादिति भावः । क्वचिन्निमित्तसद्भावेऽपि नैमित्तिकस्य क्वचिच्च स्थपतिकृतप्रासादादिनैमित्तिकसद्भावेऽपि निमित्तस्य स्थपत्यादेरसद्भावस्येव धूमाम्योरपि निमित्तनैमित्तिकयोर्व्यभिचारदर्शनात् सहचरिभावोऽप्यावश्यक इति दर्शयति-बलाकापताकावञ्चेत्यादीति। केवलं द्वयोरन्यतरपक्षग्रहे दोषदर्शनादुभयपरिग्रहे च गुणसद्भाव इत्याह-तदुभयेति, सामान्येनाग्निधूमयोरपि सहचरिभावस्य निमित्तनैमित्तिकभावस्य च सत्त्वामे साध्येऽग्नेरिवाग्नी साध्ये धूमस्यापि व्यभिचारित्वमस्त्येव, न हि धूमसामान्ये वह्निसामान्य हेतः सहचारि वा, तथा च धूमस्य गमकताप्रयोजकाः विशेषा अप्यभ्युपेयाः, तथा गम्येऽनावपि देशान्तरासञ्चरितत्कालसन्निहितत्वरूपो विशेषोऽपि, तथा चोभयविशेषणसम्पत्ती सत्यां न काचिद्व्याभिचारदिक सम्भवतीति भावः । एतदेव दर्शयति-देशान्तरासचारीति. तैर्विशेषणः-पाण्डुत्वबहलोर्द्धगतिबद्धमूलत्वपुनःपुनरुत्थायित्वादिविशेषणैः । विशेषणानपेक्षायान्त्वाह-इतर
थेति. उभयविशेषणासम्पत्तावित्यर्थः-उभयतोऽपि सहचरित्वे निमित्तनैमित्तिकत्वे वा सति उभयविशेषणासम्पत्ती धूमस्याप्यग्नेरिव 30 धूमे व्यभिचारात विशेषणसामर्थ्यादनुमानार्थत्वम् , विशेषणानुपादाने सहचरिभावे निमित्तनैमित्तिकभावे वा सत्यपि धूमोऽग्नि
मत्त्वमेव यतो न गमयति तस्माद्विशेषणविशिष्टो धूमो यथाऽग्निमत्त्वं गमयति तथा तत्कालसन्निहिताग्निमत्त्वमपि गमयति, अग्नि
१ सि. डे. छा. यावबूमोग्नैर्त्य० । २ सि. छा. डे. °ण्यगौर्गस्वम् । ३ सि. छा. डे. °दानामिमः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430