Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 367
________________ ९३६ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे न विद्यते वात्यादिवत्, न च न विद्यतेऽपि धूमसहचरायोऽग्निधूमवत् , न वा सपक्षसहचरे न विद्यत एव, कृतकमिव नित्य इत्येवमसिद्धविरुद्धानकान्तिकव्युदासः। (धूमश्चेति) धूमश्च पक्षधर्मोऽनुबद्धरूप एवाग्मिना भवति, किमर्थम् ? अग्निसहचरितत्वाग्निनिमित्तत्वख्यापनार्थम्, तद्व्याख्या-इह क्वचिदित्यादि, रूपस्पर्शयोः सहचरि[भावः] दंडादि निमित्तं 5 घटादिनैमित्तिक इति निमित्तनैमित्तिकभावः तावेतौ सहचरिनिमित्तिनैमित्तकभावावयवौ, तदेव हि तत् , इह तु व्यवयवमेव लिङ्गम् , तत्राविनाभावीत्यादि, सहचरिभावं तावदादौ निरूपयामः, सोऽविनाभाव एव, तद्व्याख्या निरूपणार्थी सहचर इत्यादि, सहचरो यस्मिन् विद्यत इति सहचरी धूमस्याग्निरिति, इनिप्रत्ययः सप्तम्यर्थे, अस्य त्रिविधोऽर्थः, अस्मिन् विद्यत एव, अग्निधूमे, अग्नित एव चायमिति पक्षधर्मावधारणम् , न न विद्यत एवेति सपक्षाननुगतो विपक्ष एव सन्निति [च] विरुद्ध[7]साधारणानैकान्ति[क]का मा 10 भूदिति, न च न विद्यतेऽपि कचित् सहचरी धूम इति साधारणानैकान्तिकशङ्का मा भूदिति चे, तद्व्या चष्टे-तस्मिन् हि किल सतीति, पराभिमतस्य धूमे लिङ्गिन्यग्निलिङ्गत्वस्य व्युदासार्थम् , तदुदाहरणानिसति विद्यत एवाग्निर्न न विद्यते, वात्यादिवदित्यसिद्धव्युदासेन, न च न विद्यतेऽपि धूमसहचर[s]योऽग्निधूमवदिति साधारणानैकान्तिकशङ्काव्युदासेन, न वाऽसपक्षसहचरे न विद्यत एव कृतकमिव नित्य इति विरुद्धासाधारणानैकान्तिकशङ्काव्युदासेन, एवमसिद्धेत्यायुक्तोपसंहारो गतार्थः । 15 कारणमाह-अग्नीति, पक्षधर्मभूतो धूमोऽग्निना सहचरित एव, अमिनिमित्ताऽऽत्मलाभ एवेति प्रदर्शनार्थमग्निनानुबद्धरूप इत्युक्तमिति भावः। साध्यसहचरितत्वसाध्यनिमित्तत्त्वोभयविशिष्ट एव हेतुः साध्यानुबद्धरूप इत्याशङ्काव्यावर्तनाय व्याख्यातिइह क्वचिदिति, रूपेण स्पर्शानुमाने रूपस्पर्शयोः सहचरिभाव एव न निमित्तनैमित्तिकभावः। दण्डघटयोस्तु निमित्तनमित्तिकभाव एव न सहचरिभावः, इमौ च द्वाववयवावविनाभावस्य, यतः सहचरिभाव एवाविनाभावः, निमित्तनैमित्तिकभाव एष चाविनाभावः, न ह्यवयवावयविनोरस्ति कश्चिद्भेदः, अग्निधूमोदाहरणे तु व्यवयवमेव लिङ्गं भवतीत्युभाभ्यामग्निनाऽनु20 बद्धरूप एव धूमः पक्षधर्मो भवतीति भावः। अथ सहचरिभावरूपमविनाभावं निरूपयति-तत्राविनाभावीति । सहचरिभावशब्दार्थमाह-सहचर इति । धूमेन सह चरत्यसावनिरिति सहचरोऽग्निः, सोऽस्मिन्नस्तीति सहचरी 'अत इनिठनी' इति मत्त्वर्थे इनिप्रत्ययः । अत्रावधारणत्रैविध्यात् त्रिविधोऽर्थो भवतीत्याह-अस्य त्रिविधोऽर्थ इति, अस्मिन्धूमे सहचरोऽग्निर्विद्यत एवेत्येकोऽर्थः, धूमे हि सति विद्यत एवाग्निधूमस्याग्नित एव भाव इति धूमस्य पक्षधर्मावधारणम् , तेन सत्त्वरूपाऽसिद्धियुदतेति भावः । द्वितीयमर्थमाह-न न विद्यत एवेतीति, सति धूमेऽग्निर्न विद्यते एवेति नेत्यर्थः, यथा 25 नित्यः शब्दः कृतकत्वादित्यत्र कृतकत्वे हि सति नित्यत्वं घटादौ न विद्यत एव, अत एवासौ हेतुविरुद्ध उच्यते, तथा शब्दो त्वादित्यत्र शब्दत्वे सति नित्यत्वमनित्यत्वं वा न विद्यत एव शब्देऽद्याप्यसिद्धत्वात्, अत एवासौ हेतुरसाधारणा नैकान्तिक उच्यते, अग्निस्तु न विद्यत एवेति न तस्मादनेनावधारणेन सपक्षाननुगतः-सपक्षावृत्तिरसाधारणानकान्तिको विपक्ष एव च वर्तमानो विरुद्धो हेतुश्च व्यावर्तिताविति भावः । तृतीयमर्थमाह-न च न विद्यतेऽपि क्वविदिति, सति धूमे सहचरोऽग्निः न विद्यतेऽपि क्वचित्, अपिशब्दात् विद्यते न विद्यतेऽपि क्वचिदिति न चेत्यर्थः, अयोम्यादौ सत्यपि धूमो न विद्यतेऽपि धारणानकान्तिक उच्यते. तद्यावृत्तिः कृता भवतीति भावः । सामान्येनार्थत्रयं सङ्गमयति-तस्मिन् हि किलेति धूमे हि सत्यमिः विद्यत एव, न न विद्यते एव, न च न विद्यतेऽपि क्वचिदिति भावः । सङ्गमनप्रदर्शनप्रयोजनं प्रकाशयति पराभिमतस्येति । व्यावर्त्यहेतूदाहरणपूर्वकमर्थत्रयं दर्शयति-सति विद्यत एवेति । असपक्षसहचर इति, सपक्षभिन्ने पक्षे विपक्षे वा सहचरे हेतौ सति साध्यं न विद्यत एवेत्यर्थः, पक्षसहचरो हेतुः शब्दत्वं विपक्षसहचरश्च हेतुः कृत सि. छा. . चरावित्यादि । २ सि. छा. डे. चातद्वयाचष्टौ । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430