Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 365
________________ ९३४ न्यायागमानुसारिणीव्याख्यासमेतम् [ उभयनियमारे www.www सम्भाव्यते तु धूमदर्शनादभिरत्रेति, अग्निदर्शनाद्वा धूमोऽत्रेति, तत्पुनः प्रमाणान्तर [व] गते देशेऽग्नित एवं धूमो बद्धमूलत्वादिभिः, धूमाद्वाऽग्निरिति, तत्र दृष्टान्तः - अग्नेः रन्धनगृहधूमवदिति - त्वरित पचनकरणार्थाज्ञप्ताग्निहस्तसूपकारके रन्धनगृहे धूमः सम्भवतीति, वैधर्म्येण यत्र धूमासम्भवस्तत्रान्नेरप्यसम्भवो निर्जलवदिति, धूमोऽग्नेरन्यत्र न सम्भवतीति, अन्वयस्यार्थः सम्भवार्थत्वेन इतरवदिति, धूमवत्, यथा धूमो मौ 5 सम्भवति स कदाचित् कचित्, तथाऽग्निर्धूमे सम्भवतीत्यन्वयार्थः, शक्यत एव प्रतीतिरपि तथा, अथ बालिश []वत्त्विति, अलमियताक्रीडितेनेति । वस्तुतः प्रतिपत्तितश्च प्रतिपादितमपि किमर्थं न प्रतिपद्यसे ? अवयवनिरूपणेनापि प्रतिपादयिष्यामः-अग्निरत्रेत्यस्यां प्रतिज्ञायां अग्निरेवात्रेति नावधार्यते, तत्र पृथिवीत्वादि सद्भावात्, देशस्यैव वा भावात् तथा च तयोरग्निधूमयोरप्यभावापत्तेः नाप्यग्निरत्रैवेति, 10 तत्प्रदेशव्यतिरिक्तेषु प्रदेशेष्वन्यभावात्, यत्र यत्र धूमस्तत्र तत्राग्निरिति न शक्यते वक्तुम्, नाप्यनिरत्र भवत्येवेति भवतिप्रयोगाव्यवहारेण हि भवत्यपि कदाचित्, तत्र कादाचित्काग्निव्युदासो निरर्थकः सततमग्निधूमयोरभावात्, तस्माद्विवक्षिते देशे काले च भवत्यग्निरिति प्रतिज्ञार्थः, अव्युत्पत्तिविध्यनवधृतेः, रक्तमिदं करवीरपुष्पमित्यादिप्रतिज्ञावत् । ( वस्तुत इति ) वस्तुतः प्रतिपत्तितश्च प्रतिपादितमप्यस्माभिर्न प्रतिपद्यसे लिङ्गलिङ्गित्वाविशेषं 15 किमर्थम् ? यद्यपि न प्रतिपद्यसे तथाप्यत उत्तरमवयवनिरूपणेनापि प्रतिपादयिष्यामः, अग्निरत्रेत्यस्यां प्रतिज्ञायामित्यादि, अग्निरेवात्रेति नावधार्यते तावत्, तत्र पृथिवीत्वादिसद्भावात् तदभावेऽमेरेव दुर्लभत्वात् 1 येष्वस्ति प्रतिबन्धो न तादृशः । न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ॥ इति । तर्हि कथमनुमानं सम्भाव्यते इत्याहसम्भाव्यत इति, सम्भावना च योग्यत्वाभिमानः, धूमदर्शनेनाग्निसम्भावना क्रियते भवत्वग्निरत्र धूमादिति, अग्निदर्शनाद्वा धूमः सम्भाव्यते भवतु धूमोऽत्राग्नेरिति, स च धूमो बद्धमूलत्वादिधर्मविशिष्टः, सम्भावकश्च केनापि प्रमाणेनात्र देशे परिज्ञातोऽ20 ग्निरिति भावः। अनिदर्शनाद्वा धूमोऽत्रेति सम्भावनायामनिधूमौ समीकरोति तत्पुनरिति । धूमसम्भावनायां दृष्टान्तं साधर्म्य - भूतमाह-अग्नेरिति । अग्नेः प्रमाणान्तरावगतत्वं दर्शयति त्वरितेति, खामिना त्वरितं पचेत्याज्ञप्तोऽग्निहस्तः सूपकारो यत्र तस्मिन् पाकगृहे धूमसम्भावना यथा भवति तद्वदित्यर्थः । महाहदादौ धूमसम्भवो नास्त्यत एवाग्निसम्भवोऽपि नास्तीति वैधर्म्य - निदर्शनमाह वैधर्म्येणेति । अत्र व्याप्त्यर्थमाह धूमोऽग्नेरिति, अग्निरहिते देशे धूमस्य सम्भावना नास्तीत्यर्थः, साध्याभावव्यापकः साधनाभाव इति भावः, इतरवदिति, अग्निसाधकधूमवदित्यर्थः, अभौ सत्येव हि धूमः सम्भवतीति यथा तत्र 25 व्याप्त्यर्थः तथा धूमसाधकाग्निरपि बद्धमूलत्वादिविशिष्टे धूमे सत्येव भवतीति भावः । एवं सम्भावनामाश्रित्य प्रतीतिरपि तथैव सम्भावनारूपैव भवितुं शक्यत इत्याह- शक्यत एवेति प्रतीतिरपि धूमेनाग्निसम्भावनाया अग्निना धूमसम्भावनाया वा प्रतीतिरित्यर्थः । सर्वमिदं बालक्रीडनमेव न वस्तुभूतमत ईदृशचर्चयाऽलमियाह - अथ बालिशेति । युक्तिभिर्वस्तुभूतमर्थं निरूपितमपि यदि नाभ्युपगम्यते तर्हि प्रतिज्ञाघटकपदार्थनिरूपणेन प्रतिपादयिष्यामि लिङ्गलिङ्गित्वाविशेषमित्याह-वस्तुत इति । प्रचुराभिरुपपत्तिभिर्लिङ्ग लिङ्गिभावाविशेषे प्रतिपादितेऽपि किमर्थं न त्वयाऽभ्युपगम्यते ? भवतु, प्रतिज्ञावयवनिरूपणे नापीदानीं प्रतिबोधयिष्यामीति वक्तव्यनिर्देशं करोति वस्तुतः प्रतिपत्तितश्चेति, वस्तुस्थितिप्रतिपादनेन युक्तिभिः प्रतिपादनेन चेत्यर्थः । प्रतिज्ञावाक्यं हि अग्निरत्रेति, तत्र त्रिधाऽवधारणं भवितुमर्हति अग्निरेवात्रेति अग्निरत्रैवेति, अग्निरत्र भवत्येवेति वा, तत्र न प्रथममवधारणं कर्तुं शक्यमित्याह-अग्निरेवात्रेति । यद्यपि शब्दप्रयोगस्य व्यवच्छेदफलत्वादवश्यमेवावधारयितव्यम्, परन्त्वग्निरेवा १ सि. क्ष. छा डे. त्वरिततरण । 30 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430