________________
९३४
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
www.www
सम्भाव्यते तु धूमदर्शनादभिरत्रेति, अग्निदर्शनाद्वा धूमोऽत्रेति, तत्पुनः प्रमाणान्तर [व] गते देशेऽग्नित एवं धूमो बद्धमूलत्वादिभिः, धूमाद्वाऽग्निरिति, तत्र दृष्टान्तः - अग्नेः रन्धनगृहधूमवदिति - त्वरित पचनकरणार्थाज्ञप्ताग्निहस्तसूपकारके रन्धनगृहे धूमः सम्भवतीति, वैधर्म्येण यत्र धूमासम्भवस्तत्रान्नेरप्यसम्भवो निर्जलवदिति, धूमोऽग्नेरन्यत्र न सम्भवतीति, अन्वयस्यार्थः सम्भवार्थत्वेन इतरवदिति, धूमवत्, यथा धूमो मौ 5 सम्भवति स कदाचित् कचित्, तथाऽग्निर्धूमे सम्भवतीत्यन्वयार्थः, शक्यत एव प्रतीतिरपि तथा, अथ बालिश []वत्त्विति, अलमियताक्रीडितेनेति ।
वस्तुतः प्रतिपत्तितश्च प्रतिपादितमपि किमर्थं न प्रतिपद्यसे ? अवयवनिरूपणेनापि प्रतिपादयिष्यामः-अग्निरत्रेत्यस्यां प्रतिज्ञायां अग्निरेवात्रेति नावधार्यते, तत्र पृथिवीत्वादि सद्भावात्, देशस्यैव वा भावात् तथा च तयोरग्निधूमयोरप्यभावापत्तेः नाप्यग्निरत्रैवेति, 10 तत्प्रदेशव्यतिरिक्तेषु प्रदेशेष्वन्यभावात्, यत्र यत्र धूमस्तत्र तत्राग्निरिति न शक्यते वक्तुम्, नाप्यनिरत्र भवत्येवेति भवतिप्रयोगाव्यवहारेण हि भवत्यपि कदाचित्, तत्र कादाचित्काग्निव्युदासो निरर्थकः सततमग्निधूमयोरभावात्, तस्माद्विवक्षिते देशे काले च भवत्यग्निरिति प्रतिज्ञार्थः, अव्युत्पत्तिविध्यनवधृतेः, रक्तमिदं करवीरपुष्पमित्यादिप्रतिज्ञावत् ।
( वस्तुत इति ) वस्तुतः प्रतिपत्तितश्च प्रतिपादितमप्यस्माभिर्न प्रतिपद्यसे लिङ्गलिङ्गित्वाविशेषं 15 किमर्थम् ? यद्यपि न प्रतिपद्यसे तथाप्यत उत्तरमवयवनिरूपणेनापि प्रतिपादयिष्यामः, अग्निरत्रेत्यस्यां प्रतिज्ञायामित्यादि, अग्निरेवात्रेति नावधार्यते तावत्, तत्र पृथिवीत्वादिसद्भावात् तदभावेऽमेरेव दुर्लभत्वात्
1
येष्वस्ति प्रतिबन्धो न तादृशः । न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ॥ इति । तर्हि कथमनुमानं सम्भाव्यते इत्याहसम्भाव्यत इति, सम्भावना च योग्यत्वाभिमानः, धूमदर्शनेनाग्निसम्भावना क्रियते भवत्वग्निरत्र धूमादिति, अग्निदर्शनाद्वा धूमः सम्भाव्यते भवतु धूमोऽत्राग्नेरिति, स च धूमो बद्धमूलत्वादिधर्मविशिष्टः, सम्भावकश्च केनापि प्रमाणेनात्र देशे परिज्ञातोऽ20 ग्निरिति भावः। अनिदर्शनाद्वा धूमोऽत्रेति सम्भावनायामनिधूमौ समीकरोति तत्पुनरिति । धूमसम्भावनायां दृष्टान्तं साधर्म्य - भूतमाह-अग्नेरिति । अग्नेः प्रमाणान्तरावगतत्वं दर्शयति त्वरितेति, खामिना त्वरितं पचेत्याज्ञप्तोऽग्निहस्तः सूपकारो यत्र तस्मिन् पाकगृहे धूमसम्भावना यथा भवति तद्वदित्यर्थः । महाहदादौ धूमसम्भवो नास्त्यत एवाग्निसम्भवोऽपि नास्तीति वैधर्म्य - निदर्शनमाह वैधर्म्येणेति । अत्र व्याप्त्यर्थमाह धूमोऽग्नेरिति, अग्निरहिते देशे धूमस्य सम्भावना नास्तीत्यर्थः, साध्याभावव्यापकः साधनाभाव इति भावः, इतरवदिति, अग्निसाधकधूमवदित्यर्थः, अभौ सत्येव हि धूमः सम्भवतीति यथा तत्र 25 व्याप्त्यर्थः तथा धूमसाधकाग्निरपि बद्धमूलत्वादिविशिष्टे धूमे सत्येव भवतीति भावः । एवं सम्भावनामाश्रित्य प्रतीतिरपि तथैव सम्भावनारूपैव भवितुं शक्यत इत्याह- शक्यत एवेति प्रतीतिरपि धूमेनाग्निसम्भावनाया अग्निना धूमसम्भावनाया वा प्रतीतिरित्यर्थः । सर्वमिदं बालक्रीडनमेव न वस्तुभूतमत ईदृशचर्चयाऽलमियाह - अथ बालिशेति । युक्तिभिर्वस्तुभूतमर्थं निरूपितमपि यदि नाभ्युपगम्यते तर्हि प्रतिज्ञाघटकपदार्थनिरूपणेन प्रतिपादयिष्यामि लिङ्गलिङ्गित्वाविशेषमित्याह-वस्तुत इति । प्रचुराभिरुपपत्तिभिर्लिङ्ग लिङ्गिभावाविशेषे प्रतिपादितेऽपि किमर्थं न त्वयाऽभ्युपगम्यते ? भवतु, प्रतिज्ञावयवनिरूपणे नापीदानीं प्रतिबोधयिष्यामीति वक्तव्यनिर्देशं करोति वस्तुतः प्रतिपत्तितश्चेति, वस्तुस्थितिप्रतिपादनेन युक्तिभिः प्रतिपादनेन चेत्यर्थः । प्रतिज्ञावाक्यं हि अग्निरत्रेति, तत्र त्रिधाऽवधारणं भवितुमर्हति अग्निरेवात्रेति अग्निरत्रैवेति, अग्निरत्र भवत्येवेति वा, तत्र न प्रथममवधारणं कर्तुं शक्यमित्याह-अग्निरेवात्रेति । यद्यपि शब्दप्रयोगस्य व्यवच्छेदफलत्वादवश्यमेवावधारयितव्यम्, परन्त्वग्निरेवा
१ सि. क्ष. छा डे. त्वरिततरण ।
30
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org