SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ धूमाझ्यौः परपरलिङ्गता ] द्वादशारनयचक्रम् ९३३ तमेव वाचयितुञ्चाह - अथ किं विषयः सम्प्रधार इति, इतर आह- दर्शितन्यायदेश साध्यत [[ ] या हेतो: - दर्शितो www www ww ऽयं न्यायो देश एवाग्निमत्त्वेन साध्यः साधनं धूमवत्त्वेनेति, तस्माद्युक्तमेव लिङ्गस्य लिङ्गिनो वा लिङ्गित्वं न विरुध्यत एतत्, किन्तु धूर्मस्य लिङ्गित्वापत्तौ त्वित्यादि, सत्यपि संयोगित्वाविशेषे धूमसंयोगित्वमेवाग्नेर्गमकं दृष्टम्, यत्र यत्र धूमस्तत्र तत्राग्निरिति, धूमवत्त्वस्य लिङ्गित्वे प्रमेयत्ववदग्निमत्त्व [स्य ] व्यभिचारात् लिङ्गत्वाभाव एव, तस्मादग्नेरन्यथासंयोगित्वं, अन्यथा धूम[स्य ] स्यात्, न हि सर्वत्रेत्यादि, यत्र यत्राग्निस्तत्र तत्र धूम इत्य - 5 शक्यमनुमानम्, अनुगमाभावात्, सर्वत्रानौ धूमाभावात् मा भूदेष दोष इति देशसाध्यतेष्यते तस्याश्च देशसाध्यतायामपि सिद्धसाधनन्यायविरोधदोषः, धूमादग्निरिति अग्नेः सिद्धत्वात् 'साध्यत्वेनेप्सितः पक्षः ' इति लक्षण नवतारः प्रकाशितप्रकाशनवद्वैयर्थ्यमिति । www www अत्र ब्रूमः -- अग्निसाधनवदेव हि धूमसाधने व्यभिचारः धूमो ह्यग्निं विना वासगृहेऽपनीताग्निकै 10 दृष्टः, अरणिनिर्मन्धने वा भूतानिके, सम्भाव्यतेतु धूमदर्शनादग्निरत्रेति, अग्निदर्शनाद्वा धूमोऽत्रेति, अग्ने रन्धनगृहधूमवत्, वैधर्म्येण निजलवत्, धूमोऽग्नेरन्यत्र न सम्भवति, सम्भवार्थत्वेनेतरवत्, शक्यत एव प्रतीतिरपि तथा, अथ बालिशरुतवत्तु अलं क्रीडितेन । अग्निसाधनवदेव हीत्यादि, अग्निधूमयोरविशिष्टगम्यगमकभावापादनग्रन्थो गतार्थः, वासगृहेऽपनीताग्निके विना दृष्टः, अरणिनिर्मन्थने वा भूतानिके, तस्मात्तुल्यो व्यभिचारः, कथमनुमानसम्भवः ? 15 अथात्र किमिति । अत्र किं विषया ते सम्प्रधारणेत्याचार्यः पृच्छति - अथेति । तत्र स आह- दर्शितम्या येति, प्रसिद्धाप्रसिद्धनिबन्धनदेशसाध्यतामुक्त्वाऽग्निमद्देशस्य लिङ्गत्वव्यवस्थापनाद्धेतोरित्यर्थः । एवं तर्हि युक्तमेवाविशेषालिङ्गस्य लिङ्गिनो वा लिङ्गित्वं को विरोधोऽत्र, नास्त्येवेत्याह- तस्माद्युक्तमेवेति । तदेवमविशिष्टतां प्रसाध्य अबुधवादिबालिशक्रीडितकं दर्शयतिधूमस्य लिङ्गित्वापत्तौ त्विति, केवलं धूमत्वेन धूमस्य लिङ्गित्वापत्तौ तु संयोगवशाद्गम्यगमकभावत्वेन प्रमेयत्ववदग्निमत्त्वं व्यभिचारि भवेत्, अतो न तस्य लिङ्गत्वम्, किन्तु धूमसंयोगित्वमेव गमकं संयोगित्वस्याविशिष्टत्वेऽपि एवञ्च धूमसंयोगित्वं 20 विलक्षणमेव गमकम्, तच्च संयोगित्वमनावन्याडकू धूमे चान्याडक्, यतः यत्र यत्र धूमः तत्र तत्रा मिरित्यनुगतरूपतया धूमसंयोगित्वे एव गमकत्वस्य दर्शनात्, यत्र यत्र चाग्निस्तत्र तत्र धूम इत्यनुगमाभावात् नाग्निमत्त्वं लिङ्गम्, अग्निसंयोगित्वस्य विलक्षणत्वादिति भावः । संयोगित्वाविशेषेऽपि धूमवत्त्वं न लिङ्गीत्याह - धूमवत्त्वस्येति । संयोगित्वमुभयत्र विलक्षणमिति दर्शयति-तस्मादग्नेरिति । अग्निसंयोगित्वं न लिङ्गमित्याह-यत्र यत्रेति । अथाग्नेरलिङ्गत्वापत्तिदोषवारणाय देशसाध्यत्वेऽभ्युपगम्यमाने तु अग्नेःसिद्धत्वेन धूमादग्निरिति माने सिद्धसाधनता प्रसङ्गात् साध्यत्वेनेप्सितः पक्ष इति न्यायावयवभूतप्रतिज्ञाविरोधः, अग्निरत्रेति वाक्यस्य साध्यत्वेनेप्सितपक्षबोधकत्वाभावादित्याह मा भूदेष इति । पक्षलक्षणमाह-साध्यत्वेनेति, साध्यत्वप्रकारकेच्छाविषयीभूतो यः स पक्षः, इत्यर्थः, अग्नेश्च सिद्धत्वेन पुनरग्निमत्त्वप्रकारकेच्छाविषयत्वे पक्षस्य क्रियमाणे प्रकाशितस्य पुनः प्रकाशनवद्वैयर्थ्यमेव स्यादिति भावः । यदुक्तं धूमवत्त्वस्य लिङ्गित्वे प्रमेयत्ववदभिमत्त्वव्यभिचारालिङ्गत्वाभावः सोऽयं व्यभिचारो धूमस्य लिङ्गत्वेऽपि तुल्य एव इत्याशयेनाचार्य उत्तरयति-अग्निसाधनवदेव हीति, वासगृहेऽमावपनीतऽपि धूमो दृष्टः, अ० निर्मन्थने भूतेऽप्यनौ धूमो दृष्ट इति यत्र यत्र धूमस्तत्र तत्राग्निरित्यनुगमाभावाद् धूमस्यापि व्यभिचारित्वमेवेत्याशयेन व्याकरोति - अग्निधूमयोरिति । इत्थं व्यभिचारसंभवेऽपि धूमसंयोगित्वस्यानिगमकत्वमिष्यते तर्ह्यविशेषादग्निसंयोगित्वस्यापि धूमगमकत्वं स्यात् उक्तञ्च 'संयोग्यादिषु 25 30 १ सि.क्ष. छा. डे. तस्मादयु० । २ सि. क्ष. छा. डे. धूमत्वमि० । ३ सि. क्ष. छा. डे. इत्याशंक्यमनु० । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy