________________
९३२
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
व्यभिचरति ह्यग्निमत्वं, प्रदेशस्य धूमवत्त्वादृतेऽपि देशान्तरे कालान्तरे वा अयोगुडाङ्गारादिषु दृष्टत्वात्, किमिव ? प्रमेयत्ववत् - यथा नित्यः शब्दः प्रमेयत्यादाकाशवदित्युक्ते प्रमेयत्वं घटादावनित्ये विनापि नित्यत्वेन दृष्टम्, तथाऽग्निमत्त्वं धूमवत्त्वेनेति व्यभिचारित्वादग्निमत्त्वस्यासाधकत्वम्, धूमवष्ट्वस्य तु भवत्यग्निमन्वेन विनाऽदृष्टत्वादित्यत्र ब्रूमः, न धूमवस्तुत्वानुमानेत्यादि - धूमस्य हि वस्तुत्वे आत्मलाभेनैव अनुमानभूतेन5 अभ्यविनाभूतेन लिङ्गत्वं नियतम्, पाण्डुत्वबहलत्वाविच्छिन्न मूलत्वादिरूपेण धूमत्वनिश्चयकरेण तत्र लिङ्गित्वदोषप्रसङ्गस्यावतार एव नास्ति प्रत्यक्षत्वात्, सिद्धत्वादेव लिङ्गत्वात्, तथा मेरपि प्रत्यक्षत्वे धूमस्य लिङ्गिनो लिङ्गित्वमव्यभिचारित्वोपपादनेनेत्यादि - यदि त्वग्निमत्त्वं प्रमेयत्ववद्धूमं व्यभिचरेत् ततो धूमस्य धूमत्वमेव सन्दिह्येत तवापि नीहारादिभावेन अबद्धमूलादित्वात्, तस्मात् सैन्दिग्धा सिद्धो हेतुः स्यामः कुतोऽस्य लिङ्गत्वम् ? अन्यविनाभावित्वेनैव तु बद्धमूलत्वादिरूपेण धूमत्वसिद्धेः स्यात् पक्ष10 धर्मत्वाल्लिङ्गत्वम् तथा ।
wwww
www
www.wwwwwwwwww
www
इतर आह
www
अथात्र किं प्रतिपत्तव्यं धूमलिङ्गादग्निप्रतिपत्तिवदग्नेरपि धूमप्रतिपत्तिः स्यादिति ? अथ किं विषयः सम्प्रधारः ? दर्शितन्यायदेश साध्यताया हेतोः, तस्माद्युक्तमेव लिङ्गस्य लिङ्गिनो वा लिङ्गित्वम्, धूमस्य लिङ्गित्वापत्तौ तु प्रमेयत्ववदग्निमत्त्वव्यभिचारालिङ्गत्वाभाव एव, धूमसंयो15 गित्वमेवाग्नेर्गमकं दृष्टम्, यत्र यत्र धूमः तत्र तत्राग्निरिति, तस्मादग्नेरन्यथा संयोगित्वम्, अन्यथा धूमस्य, न हि सर्वत्राग्नौ धूमो दृष्टः, मा भूदेष दोष इति देशसाध्यतेष्यते तस्याश्च सिद्धसाधनन्यायविरोधदोष इति ।
?
( अथात्रेति ) अथात्र किं प्रतिपत्तव्यं धूमलिङ्गादग्निप्रतिपत्तिवदमेरपि धूमप्रतिपत्तिः स्यात् वस्तुनो लिङ्गलिङ्गित्वविशेषाप्रतिपत्तौ तु दृष्टोऽविशेष इत्यभिप्रायः, आचार्योऽत्राप्यविशेष मापादयितुकामः
20 धूमत्वपाण्डुत्वतात्वपार्णत्व बहलत्वाद्यवच्छिन्नस्य धूमस्य जनकः, येनैव रूपेण तयोर्जन्यजनकभावस्तेनैव रूपेण गम्यगमकभावःकारणाश्रितैरग्नित्वादिभिर्विना कार्याश्रितास्ते स्वभावा न भवन्ति तस्मात्तयोरविनाभावित्वम्, एवं कारणस्थैरग्नित्वादिभिर्यावद्भिः कार्यमविनाभावि भवति, कारणगततावद्धर्माणां हेतुः कार्यं गमकम्, कार्यस्य तदव्यभिचारित्वात् तस्मात् पाण्डुत्वादिधर्मपुरस्कारेणव धूमस्याग्निनाऽऽत्मलाभात् तद्धर्मपुरस्कृते धूमे एवाभिलिङ्गत्वं नियतमतो न तत्र लिङ्गित्वप्रसङ्गः, प्रत्यक्षत्वात् अत एव च तस्य लिङ्गत्वमेवेति भावः । प्रत्यक्षसिद्धस्य लिङ्गत्वादभिर्यदा प्रत्यक्षो धूमोऽप्रत्यक्षस्तदा धूमस्य लिङ्गित्वं न हि सोऽग्निमत्त्वं व्यभि25 चरतीति कृत्वेत्याह-तथाऽग्नेरपीति । अव्यभिचारित्वमुपपादयति-यदि त्विति, यद्यग्निरहितेऽपि देशे धूमः स्यात् अनित्ये प्रमेयत्त्ववत्तर्हि तस्य धूमत्वे संशयः स्यात् किं धूमोऽयं नीहारो वेति, अग्निकार्यभूतस्याविच्छिन्न मूलत्वादिधर्मावच्छिन्नस्याभावात्, इष्टश्चैष संशयस्तवापि, तस्माद्भूमः संदेहविषयत्वेन सन्दिग्धासिद्धः स्यादिति भावः । बद्धमूलत्वादिविशिष्टधूमस्य त्वम्यविनाभावि - त्वाद्धूमत्वसिद्धेः पक्षधर्मतया लिङ्गत्वमित्याह - अन्यविनाभावित्वेनैवेति । एवममेरपि धूमानुमानलिङ्गत्वमित्याह - तथेति । धूमाभयोर्लिङ्गलिङ्गित्वेऽविशेषात् परस्परेण परस्परप्रतिपत्तिः किं विज्ञेयेत्याशङ्कते - अथात्रेति । अभिप्रायप्रदर्शनपूर्वकं व्याचष्टे
१ छा. 'दनन्यत्वस्या० । २ सि. छा. क्ष. डे. 'लाभेनैवनुमान० । ३. सि. क्ष. छा. डे. संविद्धा सिद्धाहेतुः । ४ ×× सि. । ५ सि.क्ष. छा. डे. 'लिङ्गित्वावि० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org