________________
द्वादशारनयचक्रम् .
.
maamanammam
wwwwww
अग्निमहेशलिङ्गसाधनम्]
९३१ णस्तथा-तेन प्रकारेण तथा अनेकधर्मणो वस्तुनः सिपाधयिषितधर्मविशिष्टस्य साध्यत्वात् तत्प्रसिद्धधर्मविशिष्टस्य साधनत्वात् , तथा चाह-'साध्यत्वापेक्षया चात्र धर्मधर्मिव्यवस्था, न गुणगुणित्वेनेत्यदोषः' ( ) इति, उपचारादेवेदमुच्यत इति चेत् स्यान्मतं सत्यं[न]परमार्थतो लिङ्गलिङ्गिभाव एकस्य वस्तुनः सिद्धसाध्यधर्मविशिष्टस्य, तथाप्युपचारकृताद्धर्मभेदात् भिन्नमिवाभिन्नमप्युच्यत इत्येतच्चायुक्तम् , यस्मादत्र तत्त्वं मृग्यते सुहृत्सूपचार इत्यादि यावत् साध्यत्व[ात् धर्मिणस्तथेति गतार्थं सव्याख्यानम् , तस्मात् । सिद्धमग्निमत्त्वधूमवत्त्वविशिष्टस्यैव देशस्य लिङ्गत्वं लिङ्गित्वञ्च ।
तदुपसंहृत्य त्वां प्रति यदसिद्धं प्रस्तुतमग्निमद्देशलिङ्गत्वं तत्साधयामः, तद्यथा
एवन्त्वग्निमद्देशस्य लिङ्गत्वम्, धूमवत्त्वसाधकलिङ्गानन्यत्वात् धूमवत्त्वस्वात्मवदेव, ननु नाग्निमत्त्वस्य लिङ्गत्वम् , व्यभिचारात् प्रमेयत्ववदिति, न, धूमवस्तुत्वानुमानभूतपाण्डुत्वबहलत्वाविच्छिन्नमूलत्वादिरूपेण धूमत्वनिश्चयकरेण लिङ्गत्वस्य नियतत्वात्तत्र लिङ्गित्वदोषप्रसङ्ग- 10 स्यावतार एव नास्ति, प्रत्यक्षत्वात्, तथाऽग्नेरपि प्रत्यक्षत्वे धूमस्य लिङ्गिनो लिङ्गित्वमव्यभिचारित्वोपपादनेन, यदि त्वग्निमत्त्वं प्रमेयत्ववद्धमं व्यभिचरेत् ततो धूमस्य धूमत्वमेव सन्दिह्येत कुतोऽलिङ्गत्वम्?, अग्यविनाभावित्वेनैव तु धूमत्वसिद्धेः स्यात् पक्षधर्मत्वाल्लिङ्गत्वं तथाऽग्नेरपि धूमसिद्धौ लिङ्गत्वम् ।
(एवन्त्विति) एवन्त्वग्निमद्देशस्य लिङ्गत्वमिति प्रतिज्ञा, हेतुः-धूमवत्त्वसाधकलिङ्गानन्यत्वादिति, 15 दृष्टान्तः-धूमवत्त्वस्वात्मवदेव, यथा धूमवत्त्वस्वात्मा देशस्य तदनन्यत्वाल्लिङ्गम् , तथाऽग्निमत्त्वस्वामी तदनन्यदेशस्य लिङ्गमेव, तदनन्यत्वञ्च प्रतिपादितमेवेति, अत्राह-नाग्निमत्त्वस्य लिङ्गत्वं व्यभिचारित्वात् , साधनभावादिव तदन्यथाऽनुपपत्त्या धर्म्यपि साध्यं भवतीत्यर्थः । तद्व्यवस्थामाह-अनेकधर्मेण इति। अग्नेः साध्यत्वेन तद्वद्देशस्यापि साध्यत्वात्तयोर्धर्मधर्मिभावो न तु विशेषणविशेष्यभावलक्षणो गुणगुणिभाव इत्यादर्शक तद्वचनं प्रमाणयतिसाध्यत्वापेक्षया चेति । स एव प्रदेशः साध्यः स एव च प्रदेशः साधनमित्येकस्यैव प्रदेशस्य साध्यसाधनभावो लिङ्कलिङ्गिभावो 20 वोपचारत एव स्यान्न परमार्थतः धर्मभेदाद्धर्मिभेदाभ्युपगमात्, न तु वस्तुतो धर्मी भिन्न इत्याशयेनाशङ्कते-उपचारादिति व्याचष्टे-स्यान्मतमिति । यद्यत्र विषये तत्त्वं सुहृद्भावेन वेत्तुमिच्छसि तर्हि वदाम इत्याशयेनोत्तरयति यस्मादत्रेति, मूलं नोपलभ्यते । उपसंहरति-तस्मादिति । तदेवमेकस्यैव साध्यत्वसाधनत्वसमर्थनमुपसंहृत्य वाद्यनभ्युपगतमग्निमद्देशस्य लिङ्गित्वं साधयतीति दर्शयति-तदुपसंहृत्येति । समुदायस्य साध्यत्वाद्धर्ममात्रे च धर्मिण्यमुख्येऽप्येकदेशत्वात् साध्यत्वमुपचर्यते । अनुमानप्रयोगमाह-एवन्त्विति । प्रतिज्ञाहेतुदृष्टान्तान् पृथग्दर्शयति-एवन्त्वग्निमदिति, अग्निमद्देशो धर्मी लिङ्गत्वं साध्यधर्मः, 25 धूमवत्त्वसाधकं देशरूपं यल्लिङ्ग तदनन्यत्वादिति हेत्वर्थः, धूमवत्त्वस्वात्मा दृष्टान्तः। दृष्टान्ते साध्यसाधने घटयति-यथेति, धूमवत्त्वस्वरूप हि धूमवत्त्वसाधको यो धूमवद्देशस्तदनन्यत्वात्तल्लिङ्गम् , धूमवतो हि लिङ्गत्वे धूमवत्त्वखात्माऽपि लिङ्गमेव धूमवद्धूमवत्त्वयोरभिन्नत्वात् तथैवाग्निमत्त्वस्वात्मापि धूमवत्त्वसाधकलिङ्गभूतधूमवद्देशानन्यत्वाङ्गिमिति अभिमत्त्वखरूपभूताग्निमद्देशस्य लिङ्गत्वं सिद्धमिति भावः । अग्निमद्देशस्य धूमवत्त्वसाधकलिङ्गभूतधूमवद्देशानन्यत्वमसिद्धमित्यत्राह-तदनन्यत्वञ्चेति, एकस्यैव देशस्य प्रसिद्धधर्मापेक्षया साधनत्वमप्रसिद्धधर्मापेक्षया च साध्यत्वमित्युपपादितमेवेति भावः । धूमवत्त्वसाधकलिङ्गानन्यत्वात् 30 अग्निमद्देशस्य लिङ्गत्वं न सेत्स्यति, अयोगुडाङ्गाराद्यग्निमद्देशस्य धूमवत्त्वाभावेन तन्निरूपितलिङ्गता नानिमत्त्वे, विनाभावात् , प्रमेयत्ववत्, नहि प्रमेयत्वं नित्यत्वलिङ्ग भवितुमर्हति नित्यत्वशून्यघटादिव्यक्तिवृत्तित्वात् , एवमग्निमत्त्वमपि धूमवत्त्वव्यभिचारि न लिङ्गम् धूमवत्त्वन्तु लिङ्गमग्निमत्त्वाव्यभिचारित्वादिति शङ्कते-नाग्निमत्त्वस्येति । समाधत्ते-नेति । अग्नित्वद्रव्यत्वसत्त्वाद्यवच्छिन्नोऽग्निः
१४४क्ष।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org