________________
mmmmmmmmmma
mommmmm
अवधारणविचारः]
द्वादशारनयचक्रम् देशस्यैव वाऽभावात् , तथा च तयोरग्निधूमयोरप्यभावापत्तेः, नाप्यग्निरत्रैवेत्यवधार्यते, तत्प्रदेशामितोऽन्येषामनीनामनग्नित्वाभ्युपगमे प्रत्यक्षादिप्रसिद्धिविरुद्धार्थत्वात् प्रतिज्ञादोषात् , तत्प्रदेशव्यतिरिक्तेषु प्रदेशेष्वम्यभावात् यत्र यत्र धूमस्तत्र तत्राग्निरिति दृष्टान्तो न शक्यो वक्तुमतस्तन्निरासः, नाप्यग्निरत्र भवत्येवेत्यवधार्यते, भवेतिप्रयोगाव्यवहारेण[हि ] न भवत्यपि कदाचिदिति, किं कारणं ? सदाऽग्निधूमाभावात् , तत्र-तस्मिन् देशे कादाचित्काग्निव्युदासो निरर्थकः, सततमग्निधूमयोरभावात् , तस्माद्विवक्षिते देशे तस्मि- । स्तस्मिन् काले भवत्यग्निरिति प्रतिज्ञार्थः, कस्मात् ? अव्युत्पत्तिविध्यनवधृते:-विधिनैवाव्युत्पादिता[न]वधारणेनोक्तत्वात् , रक्तमिदं करवीरपुष्पमित्यव्युत्पन्नरक्तश्वेतविशेषणाय पुरुषायैव तन्निरूपणार्या रक्तमेव श्वेतमेवेत्यवधारणानपेक्षा प्रतिज्ञा। ___ धूमश्च पक्षधर्मोऽनुबद्धरूप एवाग्निना भवति, किमर्थम्, अग्निसहचरितत्वाग्निनिमित्तत्वख्यापनार्थम् , इह क्वचित् सहचरिभावो यथा रूपस्पर्शयोः, क्वचित् निमित्तनैमित्तिकभावो 10 यथा दण्डघटयोः, इह तु व्यवयवमेव लिङ्गम्, तत्राविनाभावी सहचरिभावः सहचरो यस्मिन् विद्यत इति सहचरी धूमस्याग्निः, इनिः सप्तम्यर्थे, अस्य त्रिविधोऽर्थः अस्मिन् विद्यत एव, न न विद्यत एव, न च न विद्यतेऽपि क्वचिदिति, तस्मिन् हि किल सति विद्यत एवाग्निः, न
त्यवधारणेऽपरव्यवच्छेदप्रतीत्या तत्र च पृथिवीत्वादीनामपरेषां धर्माणां प्रदेशे सद्भावात् पृथिवीत्वादीनां तत्राभावे चाग्नेरप्यभावः स्यात् तस्य पृथिवीत्वादिसामानाधिकरण्यनियमात्, पृथिवीत्वादीनां तत्राभावे देशोऽपि नैव भवेत् तस्य पृथिव्याद्यात्मकत्वा- 15 दित्यादिदोषाऽऽसजनान तथावधारणं युज्यत इति भावः । द्वितीयावधारणस्याशक्यत्वमाह-नाप्यग्निरत्रैवेतीति, अनेन हि अग्नेः स्थानान्तरवृत्तिता व्यवच्छिद्यते तथा च स्थानान्तरीयाग्नीनामनग्मित्वं प्रसज्यते, अत्र वृत्तेरेवाग्नित्वात् , इष्टापत्तौ तव प्रतिज्ञा प्रत्यक्षादिप्रसिद्धिविरुद्धार्था भवेत्. प्रत्यक्षादिभिरन्यत्र प्रसिद्धस्याग्नित्वव्यवच्छेदादिति भावः । दोषान्तरमप्याह-तत्प्रदेशेति । अमेरेतत्प्रदेशमात्रवृत्तित्वे प्रदेशान्तरावृत्तेः साध्यसाधनयोाप्तिप्रदर्शनाय यत्र यत्र धूमस्तत्राग्निः यथा महानसादिरिति दृष्टान्तोद्भावनमशक्यं स्यादिति नैतदप्यवधारणं चाविति भावः। तृतीयावधारणनिरासायाह-नाप्यग्निरत्र भवत्येवेतीति, अनेन 20 हि प्रदेशेन सहाग्नेरसम्बन्धो व्यवच्छिद्यते, एवञ्चाग्निरनेत्येवोच्यते भवतिशब्दपरित्यागेन, ततश्च ज्ञायतेऽत्र कदाचिदग्निर्न भवत्यपीति, नहि सर्वदा प्रदेशोऽग्निमान् धूमवांश्च, किन्तु कदाचिदेव, अनेनावधारणेन च कादाचित्काग्नियोगस्य व्यवच्छेदो निरर्थको भवेत् , तस्मादिदमप्यवधारणं न युक्तमिति भावः । एवञ्च देशकालाद्यपेक्षयैव साध्यस्य प्रतिज्ञानमित्याशयेनाह-तस्माद्विवक्षित इति, उक्तञ्च परैरपि 'ततो देशाद्यपेक्षाग्निसाधने धूमवत्तया । गृह्यमाणस्य देशस्य धर्मिता न विरुध्यते ॥ इति । सर्वस्मिन् वाक्येअवधारणमिति न बुध्यामहे, अनवगतरक्तत्वश्वेतत्वादिविशेषणाय पुरुषाय तद्वोधनार्थ रक्तमिदं करवीरपुष्पमित्यपदिष्टे नावधारणस्य 25 रक्तमेव श्वेतमेवेत्येवंविधस्य विषयं पश्यामः, येन वाक्येनानेकार्थों गम्यते समानश्रुत्या तत्रातिप्रसक्तौ तद्वारणायावधारणं क्रियेत, अवगतस्य वा पुनर्विधाने नियमो युज्येत, अग्निरत्रेति च वाक्यं नानेकार्थगमकम्, अव्युत्पन्न प्रति बोधनाय विहितमतोऽनवधारणं विधानमेव तदिति समाधत्ते-अव्युत्पत्तीति, नास्ति व्युत्पत्तिर्यस्य सोऽव्युत्पत्तिस्तस्मै विधेरवधृतिर्नास्ति यस्मिन् तद्वाक्यमव्युत्पत्तिविध्यनवधृतिरूपं तस्मादिति विग्रहः अव्युत्पन्नं पुरुष प्रति अनवधारणपूर्वकमर्थविधायक वाक्यमिदमिति भावः । तत्र दृष्टान्तमाह-रक्तमिदमिति। प्रतिज्ञामुक्त्वा हेतुमाह-धूमश्चेति । अग्निनाऽनुबद्ध एव धूमः पक्षधर्मो भवतीत्यत्र 30
सि.क्ष, छा.डे. तदाच ययोरग्नि०। २ सि.क्ष. छा. डे. यत्राग्निस्तत्रः। ३ सि.क्ष. छा. डे. तत्रधूम इति । ४xx क्ष. प्रती इत आरम्य यावत् ९३९ पृष्टे x चिहं तावन्नास्ति ।
द्वा० ४१ (११८)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org