Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 373
________________ mmam mmmmmm ९४२ न्यायागमानुसारिणीव्याख्यासमैतम् [उभयनियमा ग्रहणमव्यभिचारात्, व्यभिचारात्त्वनुमानाभासं वृक्षापादिवत् , यथा वृक्षः क्षुपो वाऽत्र धूमा दित्यनुमानाभासं व्यभिचारादर्शनबलेनैव तथाविधदर्शनबुद्ध्यनुबद्धमेवानुमानमपि । न हीत्यादि, योषिद्गण्डपाण्डुत्वं न गमयत्यग्निम् , अभूताग्निधूमत्वात् , धूमभूतं तु पाण्डुत्वं गमयत्यग्निम् , धूमभूताग्नित्वात् , विधेरेव तद्भावस्य तद्भावत्वेनैव गमकत्वात् , यथा चेदमित्यादि, पाण्डुत्वादि5 विशेषस्य धूमभूतत्वेन गमकत्व[व]त् द्रव्यत्वादिसामान्यस्यापि धूमभूतेर्गमकत्वमग्नेरिति भावना यावत् पाण्डुत्ववदिति, एवं तावद्धूमभूतसामान्यविशेषधर्माणां गमकत्वं तुल्यं 'विधेः, एवं गम्यत्वनियमाविशेषः, तथाप्यनेरपि द्रव्यत्वसामान्यगतिरग्निभूतत्वात् , नोदकादितद्व्यतिरिक्तद्रव्यत्वगतिः, अतद्भूतत्वात् , यत्तु धूमो दीप्त्यादीत्यादि, दीप्तितैक्ष्ण्यादिविशेषागतिरपि तद्भावदर्शनविधेरेव तथा चान्यथा च-दीप्तितैक्ष्ण्यादिरूपेण तद्विरहितत्वेन च दृष्टत्वाद्व्यभिचारात् , नात्यन्तभूतशीतादिव्यभिचारादसम्बद्धादगतिः, किं तर्हि ? सम्बन्ध10 व्यभिचारादेव, किञ्चान्यत्-दर्शनविधेरेवानुमानलक्षणोपपत्तेः स एवैषितव्य इत्यत आह-तद्भावदर्शनानु बन्धेन हि बुद्ध्युत्पत्तिरनुमानमित्येतदनुमानलक्षणञ्च, तव्याचष्टे-धूमवत्त्वमित्यादि, यदा धूमवत्त्वं प्रदेशस्याग्निमत्त्वानुबद्धमेवेत्यैकान्तिकं ग्रहणं तदाऽनुमानं भवति, धूमादग्निरत्रेति, तस्यामेरेकान्तेनैव ग्रहणमव्यमिष्टम् । धूमगतं तु तद्गमयत्यग्निम् , तस्यैव धूमभूतत्वात् , योषिद्गण्डपाण्डुत्वं तु योषिद्गण्डभूतं न त्वग्निपरिणामजन्यधूमभूतमतोऽत्रापि नविधेरेव तद्भावत्वेनैव रूपेण पाण्डुत्वं गमकम्, न तु पाण्डुत्वसामान्यरूपेणेत्याशयेनाह-योषिद्दण्डपाण्डत्वमिति । 15 लिङ्गगता विशेषा एव गमका न सामान्यमिति यदुच्यते त्वया तन्न युक्तम् , तद्भावस्यैव गमकत्वे तन्त्रत्वाद्विशेषा इव सामान्यमपि यदि तद्भावो भवेत्तर्हि कः प्रतिरुन्ध्यात् तस्य गमकतासामर्थ्यमित्याशयेन साम्यं सामान्यविशेषयोदर्शयति-यथा चेदमित्यादीति, द्रव्यत्वादीन्यपि तद्भावत्वेनैव रूपेण गमयन्त्यग्निं न तु सामान्यरूपेणेति भावः । तदेवं लिङ्गगतसामान्यविशेषयोस्तद्धावत्वेनैव गमकत्वेनाविशेषत्ववत् लिङ्गिगतसामान्यमपि न सामान्यरूपतो गम्यमपि तु तद्भावत्वेनैवेत्याह-एवं गम्यत्वनियमाविशेष इति, सामान्यमेव गम्यं न तु विशेषा इत्येवं विशेषो नास्ति गम्यताप्रयोजकतद्भावनियमस्योभयत्राविशिष्टत्वादिति भावः । अग्निगत20 सामान्यस्यापि तद्भावेनैव गमकत्वमाह-अग्नेरपीति । यदेव द्रव्यत्वमग्निभूतं तदेव द्रव्यत्वं तद्भावत्वाद्गम्यम् , अग्निव्यतिरिक्तोद कादिगतं द्रव्यत्वं तु न धूमेन गम्यम् , अग्निभावत्वाभावात्तस्येति भावः । धूमस्य दीप्तितेक्षण्यादीनामप्रकाशकम् , कारणस्थयावत्स्वभावैविना कार्य न भवति तावत्स्वभावानां कारणं गमकं भवति अग्निस्थदीप्तितैश्ण्यादिखभावैर्विनापि धूमो जायत इति ते व्यभिचारान्न गम्या इति यदुक्तं त्वया तदपि तद्भावदर्शन विधेरेवेत्याह-यत्तु धूम इति। दीयादीनां क्वचिदग्नौ तद्भावदर्शनात् क्वच्चिच्चामावतद्भावत्वेन दर्शनाच्च तद्भावदर्शनविधेरेव धूमात्तेषामगतिरिति भावः । तद्भावदर्शनमाह-तथा चान्यथा चेति, 25 दीप्यादिभिरग्नेस्तद्भावप्रतिबन्धो नास्ति व्यभिचारादिति भावः । ननु दीप्यादिविरहितत्वं क्व दृष्टम् ? किमत्यन्तशीतभूतेऽनौ ? नासावमिरेव भवति कुतो व्यभिचारः ? सति ह्यनौ दीयादीनां विरहे स्याद्व्यभिचारः इत्याशङ्कायामाह-नात्यन्ते ति, न हि वयं तत्र व्यभिचारं ब्रूमः, तत्र तेषां सम्बन्धाभावात् , किन्तु यत्र क्वचिदग्नौ दीप्यादिसम्बन्धो नास्ति तत्र व्यभिचारो बोध्य इति भावः । तद्भावदर्शनविधेरभ्युपगम एवानुमानलक्षणं तद्भावदर्शनव्याया हि बुद्ध्युत्पत्तिरनुमानमित्येवमुपपद्यत इत्याह-दर्शनविधेरे वेति । प्रदेशस्य धूमवत्त्वमग्निमत्त्वप्रतिबद्धमेव, न हि प्रदेशस्य धूमवत्त्वं तस्याग्निमत्त्वमन्तरेण सम्भवतीति यदेकान्तेन गृह्यते तदा 30 तजन्यं विज्ञानमनुमानं धूमादत्रा निरिति भवति तथाविधमेकान्तग्रणं धूमवत्त्वस्याग्निमत्त्वव्यभिचारित्वाभावादिति व्याचष्टे-यदा धूमवत्त्वमिति । यदा तु व्यभिचारो भवेत्तदा तदनुमानाभासं भवति यथा कश्चिदत्र वृक्षः, अत्र क्षुपो वा इति प्रतिज्ञाय यदि धूमादिति हेतुं प्रयुयात् तदिदमनुमानमाभासं भवति, तत्र ज्वलनतक्ष्ण्यादिव्यभिचारदर्शनादग्निमत्त्वानुबद्धत्वाभावादित्याह सि.क्ष. डे. छा. धूम भूयते। २सि. क्ष. छा. डे. विधिरेव । ३ सि. यत्तु धूमो दीप्ल्यादित्यादि । ४ सि.क्ष. छा. डे, दर्शने विधिरेव । ५ सि.क्ष.छा. डे. नात्यन्ताभू०। ६ सि.क्ष. छा. डे. विधिरेवा। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430