Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 308
________________ अन्यापोहार्थनेर्मूल्यम्] द्वादशारनयचक्रम् भवति ततः स न भवति, अथ स भवति अन्यो न भवतीयर्यादापन्नं तदन्ययोरुभयोरपि तत्त्वं, तश्च स्वत एव सिद्धम् , तस्मात् स्यादप्यनयो:-तदन्ययोरन्यापोहप्रत्ययः स चोपसर्जनो विधिर्न भवितुमर्हति, कस्मात् ? असयोपाधिसत्यशब्दार्थत्वात् , इत्थमन्यप्रतिपत्तिबिधिरेव न व्यावृत्तिः। ____ अथान्यो न भवतीति तस्याप्यन्यस्य यदि व्यावृत्तिरेव स्वरूपम् , ततोऽपि प्रश्नाव्यवस्था, सर्वत्रास्याक्षेपस्य तुल्यत्वादुक्तवत् , अन्यत्वस्य चोभयविषयत्वात् तदग्रहणे कोऽसावन्यः । यदपोहादन्यापोहः स्यात् , कुतो वान्यो न भवतीत्युच्यते ? यतोऽस्यान्यस्यान्यत्वं सिद्ध्येत् निर्धार्यमेतदन्यत्वम् । (अथेति) अथान्यो न भवति-अथ मा भूदेष दोष इत्यन्यो न भवतीति तस्याप्यन्याख्यस्यार्थस्य व्यावृत्तिरेव अभ्यो न भवतीति स्यात् स्वरूपम् , ततः किं ? ततोऽपि प्रश्नाव्यवस्था-सोऽपि योऽन्यो न भवतीत्युच्यमानोऽर्थः किं स एव भवति, उतान्यो न भवतीति पृच्छयसे त्वम् , तत्र यदि स एव भवतीति ब्रूयास्त्वं 10 पूर्ववद्विधिरर्थः, अथान्यो न भवति सोऽप्यन्यः तथा प्रष्टव्यः योऽन्यो न भवतीत्युच्यते ततोऽप्यन्यः प्रष्टव्य इति प्रश्नानवस्था । कस्मात् ? सर्वत्रास्याक्षेपस्य तुल्यत्वादुक्तवत् , किञ्चान्यत्-अन्यत्वस्य चोभयविषयत्वात्अन्य इति स उच्यतेऽन्यापेक्षया, सोऽप्येतदपेक्षया, अयमस्मादन्यो यमस्मादन्य इति, तयोर्द्वयोरपि स्वरूपतः सिद्धौ द्विष्ठं तदन्यत्वं सिद्ध्यति ततस्तस्यान्यत्वस्योभयविषयत्वात् तदग्रहे कोऽसावन्यः ? तयोरन्ययोविधि. रूपेणाग्रहणे कोऽसावन्यो नाम ? यदपोहादन्यापोहः स्यात् , कुतो वाऽन्यो न भवतीत्युच्यते ? यतोऽस्या- 15 न्यस्यान्यत्वं सिद्धयेत् यतोऽन्यः, योऽन्य इत्येतद् द्विष्ठत्वादन्यत्वस्य निर्धार्यमेतदन्यत्वम्-नान्यथा 'निर्धारयितुं शक्यमित्यभिप्रायः । एवन्तु न स कश्चिदर्थों भविता, उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि न दृश्यत एव, अन्यो न भवतीत्युच्यमाने उभयतोऽपि न भवति न भवतीत्यन्यस्याव्याऽन्यताविज्ञानकाले तत्तदन्ययोरुपस्थितौ परस्परमेदप्रत्ययः पश्चादर्थतो भवति सोऽन्यस्माद्भिन्नः, अन्यश्च तस्माद्भिन्न इत्यन्योन्यमन्या-30 पोहप्रत्ययो जायते स उपसर्जन एव, असत्योपाधिसत्यशब्दार्थत्वादिति शब्दादन्यप्रतीतिर्विधिरूपत एव न व्यावृत्तिरूपत इति भावः। एवमन्यापोहवैयर्थ्यप्रसङ्गे तद्वारणाय वादी प्राह-अथान्य इति । व्याचष्टे-अथ मा भूदिति, द्वितीयो विकल्प एषः, अन्यापोह इत्यत्रान्याख्याऽर्थो न विधिरपि तु सोऽप्यन्यापोहरूप एवेति न पूर्वदोष इति भावः । अत्रानवस्थामापादयितुमाह-ततोऽपीति, अन्यस्य यद्यन्यो न भवतीति स्वरूपमुच्यते तत्राप्यन्यपदार्थः स एव, उतान्यापोहः, आधे विधित्वप्रसक्तिरन्ये सोऽप्यन्यः किं स एवोतान्यो न भवतीत्येवं प्रश्नस्याविरतिरिति भावः । हेतुमाह-सर्वत्रेति । अन्यत्वस्य प्रतियोग्य नुयोगिविषयत्वात् प्रतियोग्यनु 25 योगिनोश्च विधिरूपेशाग्रहणे तत्स्वरूपापरिज्ञानात् कस्य कस्मादन्यत्वमित्याशयेनाह-अन्यत्वस्य चेति । सोऽन्यापेक्षयाऽन्य .. इत्युच्यत इति तस्मिन्नन्यप्रतियोगिकान्यता, अन्योऽपि तच्छब्दवाच्यार्थप्रतियोगिकान्यतावानिति प्रतियोगिनोऽन्यस्यानुयोगिनस्तस्य च विधिरूपतः सिद्धौ सत्यां प्रतियोग्यनुयोगिनिष्ठमन्यत्वं सेत्स्यति नान्यथा, तयोहि तदन्ययोरसिद्धी व कस्मादन्यता स्यादिति नान्यापोह इति भावः । उभयविषय-वमेवाह-अन्य इतीति तस्मिन्नन्यत्वमन्यापेक्षमिति भावः । सोऽपीति अन्यस्मिन्नपि तत्त्वमेतदपेक्षमिति भावः । तत्त्वान्यत्वयोः स्वतःसिद्धौ अयम यस्मादन्य इत्युभ ापेक्षमन्यत्वं सिद्ध्यति नान्य- 30 थेयाह-तयोद्वयोरपीति । अन्यताया निर्धायतामह-यतोऽस्येत । अन्यताया अनिर्णीतत्वेन्यापोहवान काश्चद्भवति, .. तदन्ययोस्तत्त्वान्यत्वानिर्णयात्तस्मिन् तत्त्वस्यान्यस्मिन्नन्यत्वस्य चाभावः प्रसज्यत इत्याह-एवन्तु नेति । तदेव व्याचष्टे -सि.क्ष. छाडेर्थस्यानव्या ...सि.क्ष. छाडे..मिर्धारित । ... . . ' _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430