Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 307
________________ ८७६ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे इति, यदिद मुक्तमर्थान्तरापोहेन स्वार्थाभिधानमिति, अत्रार्थान्तरं नामाऽन्योऽर्थ इति यस्माद्भवति तस्मात्तत्तावद्विचार्यते, स किमन्योऽर्थः स एव भवति विधिना? उतान्यो न भवतीत्यपोहेन ? . एतदयुक्तं यत इत्यादि । यावन्न घटेते इति, यस्मात्तावदन्वयव्यतिरेकावपीह न घटेते दूरत 5 एव यावर्थाभिधान हेतू तुल्यातुल्यवृत्त्यवृत्तिभ्यां भवत इत्यभिमतौ, तस्मादयुक्तं सम्बन्धसौकर्यमिति प्रतिज्ञातं तदुपपादनार्थमाह-अन्यापोहार्थनैर्मूल्यात्' इत्यादि श्लोकः, अपोहाथ[f]भावात् सम्बन्धाभावः स्वार्थगन्धस्याप्यदर्शनात् संशयबीजमपि नास्ति कुतो व्यभिचाराऽऽशङ्केत्युपन्न्यासः, ततो यदिदमुक्तं चोद्यपक्ष एवार्थान्तरापोहेन स्वार्थाभिधानमित्यत्रार्थान्तरं नामान्योऽर्थ इति यस्माद्भवति तस्मात्तत्तावद्विचार्यते-स किमन्योऽर्थः स एव भवति विधिना अन्याख्योऽर्थ उच्यते ? उतान्यो न भवतीत्यपोहेन ? इति द्वयी कल्पना स्यात् । 10 तत्र यदि तावन्मतमन्य इति स एव भवतीति ततः तच्छब्दोत्पाद्यविज्ञानविषयत्वात् स इति शब्देन यद्विज्ञानं तस्य स्वार्थ एवान्याख्यार्थो विषयः संवृत्तः, ततश्च स्वार्थे तस्मिन्नव्यावृत्त्या विधिनैव प्रतिपन्ने किमपोहेन क्रियते ? अर्थप्रतीतेवृत्तत्वात् , अथापि स्यादन्यापोहेन प्रयोजनमित्थं तदा तस्मिन् विधिनाऽन्यविज्ञानकाले यद्यन्यो भवति ततः स न भवति, अथ स भवत्यन्यो न भवतीत्यर्थादापन्नं तदन्ययोरुभयोरपि तत्त्वतश्च स्वत एव 10 सिद्धम् , तस्मात् स्यादप्यनयोरन्यापोहप्रत्ययः उपसर्जनो विधिर्न भवितुमर्हति, असत्योपाधि. सत्यशब्दार्थत्वात् , इत्थमन्यप्रतिपत्तिविधिरेव न व्यावृत्तिः। - (तत्रेति) तत्र यदि तावन्मतमन्य इति स एवान्याख्यो भवतीति ततः स इति शब्देनोत्पद्यते यद्विज्ञानं तस्य विज्ञानस्य स्वार्थोऽभिधेय एवान्याख्यार्थो विषयः संवृत्तः स एव, ततश्च तस्मिन्नव्यावृत्याऽन्याख्येऽर्थे विधिनैव प्रतिपत्तेः किमन्यापोहेन क्रियते ? नार्थोऽपोहेनेत्यर्थः, कस्मात् ? अर्थप्रतीतेर्वृत्तत्वात् 20 अर्थप्रतीत्यर्थो हि शब्दप्रयोगः, अन्यापोहकल्पना च तदभिधानस्वरूपपरिज्ञानार्था तदर्थप्रतीतौ व्यर्था सा, अथापि स्यादन्यापोहेन प्रयोजनमित्थं स्यात् , नान्यथा, तद्यथा-तदा तस्मिन् विधिनाऽन्यविज्ञानकाले यद्यन्यो यस्मात्तावदिति, शब्दस्यार्थाभिधानेऽन्वयव्यतिरेको द्वारमिति यदुक्तं तदेव न घटत इति भावः । दूषणं कारिकयाऽऽहभन्यापोहार्थेति, अन्यापोहरूपार्थस्य निर्मूलतयाऽसम्भवात्, शब्देन केनापि रूपेणार्थस्यानभिधानादभिधेयबहुत्वासम्भवेन संशयासम्भवात् व्यभिचाराभावाच्च श्रुतिसम्बन्धदौष्कर्यमिति भावः । तत्रान्यापोहार्थनमूल्यं दर्शयितुमाह-ततो यदिदमुक्त25 मिति, अर्थान्तरापोहेन खार्थाभिधानं त्वयोक्तं तत्रान्योऽर्थोऽर्थान्तरमुच्यते, अन्यश्वासावर्थः किं विधिरूपेण उत प्रतिषेधरूपेण प्रोच्यत इति भावः । तत्र प्रथम पक्षं दूषयितुमाह-तत्र यदि तावदिति । तद्व्याचष्टे-तत्र यदि तावन्मतमिति । यद्यन्याख्यार्थः स एव स्यात्तर्हि तच्छब्दजन्यविज्ञानविषयः अन्याख्योऽर्थः स एवाभिधेयो जातः स च नान्यव्यावृत्तो विधिना च प्रतिपन्न इति तत्प्रतिपत्त्यर्थोऽन्यापोहो निरर्थक इति भावः । अन्यापोहवेयर्थे हेतुमाह-अर्थप्रतीतेरिति, अर्थविषयप्रतिपत्तिजनकत्वप्रकारकेच्छाविषयत्वेन शब्दप्रयोगस्यान्यापोहव्यतिरेकेणापि शब्देनार्थविषयप्रतीते॥तत्वाद्वैयर्थ्यमिति भावः । 30 अन्यापोहप्रकल्पना च शब्दवाच्यार्थस्वरूपपरिज्ञानाय भचेत्, तढिनव तदर्थप्रतिपत्तौ तु तत्वल्पना व्यथेवेत्याह-अन्यापोहेति । एवमपि यद्यन्यापोहस्य प्रयोजन मिष्यते तर्हि वक्ष्यमाणप्रकारेणैव स्यादित्याह-अथापीति | शब्देनाभिधेये विधिना१क्ष. भाव इ. सि, भावत इ० । २ सि. क्ष. वैर्मल्मात् । ३ सि. ग्रंथस्या० क्ष. यथस्या० । सि. भ. नाव्याख्योऽर्थ । Jain Education International 2010_04. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430