Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 346
________________ द्वादशारनयचक्रम् लिङ्गलिङ्गित्वशङ्कानिरासः] ९१५ न्यायशास्त्रे च, तद्यथा-यत्र धूमस्तत्राग्निः, यत्कृतकं तदनित्यमिति सपक्षे साध्यसाधनधर्मयोरग्निधूमयोः कृतकानित्यत्वयोश्च तद्वति देशान्तरे वस्त्वन्तरे वा घटादौ सहभावदर्शनात् समन्वयवृत्त्या साधर्म्यदृष्टान्त उच्यते, कस्मात् ? तथाप्रत्यक्षसम्बन्धित्वविवक्षया हेतोः प्रसिद्धस्य सा[धन] धर्मत्वेनाप्रसिद्धस्य च साध्यधर्मत्वेन विवक्षितत्वादित्यर्थः, यत्पुनरत्राशयते त्वया लिङ्गस्य लिङ्गिनो वा लिङ्गित्वं[लिङ्गत्वञ्च] प्रसक्तमिति, एतस्या आशङ्काया अनुपपत्तिरेव, प्रसिद्धस्य धर्मस्य साधनत्वात् अप्रसिद्धस्य साध्यत्वात् कुतो । लिङ्गलिङ्गिव्यतिकरदोषाशङ्का, लिङ्येकदोषाशङ्कानुपपत्तिरेवेत्यर्थः, धर्मिण एवैकस्य प्रदेशशब्देवाच्यस्य लिङ्गत्वाल्लिङ्गित्वाञ्च, लिङ्ग्येक देशत्वाद्वा लिङ्गिनो धर्मस्येव लिङ्ग लिङ्गी वेति कृत्वा नाग्निलिङ्गी न धूमो लिङ्गम् , तथा कृतकानित्यत्वे, तस्मादलिङ्गता धूमस्यापि नालिङ्गित्वादेव, अन्यालिङ्गित्वाच्चाने[रलिङ्गिता]नालिङ्गत्वादेव [अन्यालिङ्गत्वाच]तस्मात् प्रत्यक्षतरसम्बन्धित्वविवक्षितत्वान्न सङ्कीर्येयातां लिङ्गलिङ्गिनौ, अतः प्रसिद्धधर्मलिङ्गद्वारेणाप्रसिद्धधर्मलिङ्गिद्वारेण चैकस्यैव साधनत्वात् साध्यत्वाच्च व्यवस्थितमेव लिङ्गलिङ्गित्वमिति । 10 यत्पुनरिदं लिङ्गलिङ्गयेकरूपापादनं सम्बन्धिना द्वितीयसम्बन्धिरूपेण भवितव्यमिति, एषोऽन्यायः, प्रत्यक्षाप्रत्यक्षत्वविशेषदर्शनात् , न हि चैत्राश्वादिसम्बन्धिनां प्रत्यक्षाप्रत्यक्षाणां नियमोऽस्त्येकः प्रत्यक्ष इति द्वितीयेनापि प्रत्यक्षेण भवितव्यञ्चेति, तथा संयोगित्वसाध्यसाधकत्व. ................यथैकः संयोगी तथा द्वितीय इति, अत एव चैवं वक्तुमयुक्तं यथा त्वया विश्रब्धमुच्यते-यथा हि सत्यपि द्विगतत्व इत्यादि यावत्तद्वदिह न भवतीति 15 तन्न घटत इति ब्रूमः-ननु तद्वदेवेह संयोगिनोरपि लिङ्गलिङ्गिनोः, संयोगित्वात् , स्थाण्वादिसंयोगिवत् , यथा हि स्थाणुश्येनयोः संयोगः सकर्माकर्मकत्वाभ्यामतुल्यः तथा मल्लव्यङ्गुलाकाशादिसंयोगसंयोगिनाम् । (यत्पुनरिति) यत्पुनरिद सम्बन्धवादिनं प्रतीत्यापि यदेतल्लिङ्गलिङ्येकरूपापादनं, एषोऽन्यायः, कोऽयं ? नियमः-[एक]सम्बन्धिना द्वितीयेन सम्बन्धिरूपेण भवितव्यमिति, नैष नियमोऽस्ति, प्रत्यक्षाप्रत्य- 20 वत्त्वमुपदर्य साध्यधर्मवत्ता प्रदर्श्यते प्रधानोपसर्जनभावेन, संयोगिवत्परस्पराश्रिताधाराधेयभावेन चेति भावः । तद्वति देशान्तरे महानसादौ, इदं यत्र धूमः तत्राग्निरित्यस्य निदर्शनम् , वस्त्वन्तरे वा घटादाविति यत्कृतकं तदनित्यमित्यस्य । कस्मात् साधर्म्यदृष्टान्त इत्यत्राह-तथा प्रत्यक्षेति । लिङ्गलिझिनोः संयोगिवद्वत्तौ संयोगस्य द्विनिष्ठत्वाल्लिङ्गधर्मेण लिङ्गिनापि भवितव्यमिति यदाशङ्कितं तत्प्रसिद्धधर्मस्य लिङ्गत्वादप्रसिद्धधर्मस्य लिङ्गित्वाच्च न युक्तमित्याह यत्पुनरत्रेति । लिङ्गयेकदेशत्वशङ्कापि न, प्रदेशस्यैवैकस्य लिङ्गत्वाल्लिङ्गित्वाच्चेत्याह-लिङ्येकेति । इदमेव स्फुटीकरोति । लिङ्येकदेशत्वाद्वेति, लिङ्गिनो देशस्य ये धर्मा: 25 पर्वतत्वादयस्तेषां यथान्यलिङ्गत्वं लिङ्गित्वं वा तथा लिङ्गिधर्मयोधूमान्योर्न लिङ्गमलिङ्गिभावः, एवं कृतकत्वानित्यत्वयोरपि, तथा च धूमस्याप्यलिङ्गता, अलिङ्गित्वादन्यालिङ्गित्वाच, अग्नेरप्यलिङ्गिता, अलिङ्गत्वादन्यालिङ्गत्वाच्चेति भावः । एकस्य धर्मिण एव लिङ्गत्वे लिङ्गित्वे च सङ्करः स्यादित्यत्राह-प्रत्यक्षेतरेति, प्रत्यक्षसम्बन्धित्वविवक्षया लिङ्गत्वमितरसम्बन्धित्वविवक्षया चैकस्यैव प्रदेशस्य लिङ्गित्वमिति न सङ्कर इति भावः । लिङ्गलिङ्गिभावाव्यवस्था निरस्यति-अत इति । साध्यसाधनयोः साहचर्यादिसम्बन्धिवादी मन्यते यदेकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयतीति न्यायमवलम्ब्यैकसम्बन्धिना द्वितीयसम्बन्धिरूपेण भवितव्यमिति लिङ्गलिङ्गिनोरेक-30 रूपतामापादयति तदपि न न्याय्यमित्याह-यत्पुनरिदमिति । व्याचष्टे-यदिति। सपक्षे दर्शनाद्विपक्षेऽदर्शनात् पक्षे एकदर्शने तत्सम्बन्धिना पक्षणापरसम्बन्धिरूपेण भवितव्यमिति पूर्वपक्षाभिप्रायः। तन्मतं निराचष्टे-नैष नियमोऽस्तीति । हेतुमाह १ सि.क्ष. दृष्टान्तच्यते।xxक्ष । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430