Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 345
________________ ९१४ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे नार्थातथार्थत्वात्-यत्र धूमस्तत्राग्निरित्यन्वयसहितः साधनार्थः तथार्थः सत्यः, तद्भावात्-तत्प्रदेशसम्बन्ध्यग्निधूमभावादन्यथा त्वदिष्टातदभावात्मकस्याभूतान्वयसाधनार्थस्यातथार्थत्वादनन्तरनिर्दिष्टानिष्टंप्राप्तिः, अत एतस्मिदिष्टतद्भावदर्शनादेव तु साध्यसाधनधर्मयोरग्निधूमयो:-तथाभूतान्वयदर्शनहेतोः संयोगिनोरङ्गुल्योरिव-यथैवास्य तथापि द्वितीयस्यापि तद्भावा विशिष्ठा वृत्तिरिष्टा सा चाधाराधेय[योरिव]प्रधानोपसर्जनभावेना5 विनाभावात् प्राग्व्याख्यातनिर्व[च]न[गम]कगम्यभावेनैकवस्तुधर्मत्वात् कृतकानित्यत्ववत् , यथा हि प्रागभावप्रध्वंसाभावलक्षण एक एव हि अभूत्वा भवन् भूत्वा चाभवन् कृतकश्चानित्यश्च भावः साध्यसाधनाख्यां लभते तथेहाग्निधूमाख्य एक एव साध्यसाधनव्यपदेशं लभते प्रदेशेन्धना दिर्भावः, तस्मात् साध्यसाधनधर्मयोलिङ्गिन्याधारे परस्परप्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावात् संयोगिवद्वृत्तिर्न तु कुण्डबदरयोराधाराधेययोरिव प्रवृत्तिरनुमाने तुल्यकक्षत्वादुभयोरिति । 10 एवञ्च सपक्षे साध्यसाधनधर्मयोः सहभावदर्शनात् समन्वयवृत्त्या तथाप्रत्यक्षसम्बन्धित्वविवक्षया साधर्म्य दृष्टान्त उच्यते तथा प्रसिद्धस्य धर्मस्य साधनत्वादप्रसिद्धस्य साध्यत्वात् कुतो लिङ्गलिङ्गिव्यतिकरदोषाशङ्का ? धर्मिण एवैकस्य लिङ्गत्वाल्लिङ्गित्वाच्च नाग्निर्लिङ्गी न धूमो लिङ्गम् प्रत्यक्षतरसम्बन्धित्वविवक्षितत्वान्न सङ्कीर्येयातां लिङ्गलिङ्गिनौ । एवञ्च सैपक्ष इत्यादि, एवमेव चास्मदुक्तन्यायमुपोदलयति साधर्म्यदृष्टान्तप्रयोगो लोकप्रसिद्धो 15 सत्यार्थः, अत उक्तो दोष इति भावः । तदेव व्याचष्टे-यत्र धूम इति, भावरूपेणान्वयसहितः साधनार्थः सत्यः, तं विहाय स्वदिष्टः योऽधूमाभावानम्याभावयोरभावरूपोऽन्वयस्तत्सहितः साधनार्थः न तथार्थः-असत्यः, तस्मादधुनैवोक्तो दोषः प्राप्नोतीति भावः । अथ परस्परसाध्यसाधनभावमाह-अत एतहीति, अतः तद्भावदर्शनादेव प्रदेशादेरेकस्यैवाग्निधूमश्च भावौ, यो ह्यग्निमत्प्रदेशः स एव धूमवान् भवति, तस्माद्भूमो यथा तद्भावस्तथाऽग्निरपि, तद्भावलक्षणा वृत्तिरुभयत्राविशिष्टा, यत्र धूमस्तत्राग्निरिति सत्यभूतान्वयदर्शनाच्च संयोगिवद्वृत्तिरङ्गुल्योरिव, यथाऽङ्गुलेरेकस्य करे यः संयोगः स एवापरस्याप्यङ्गुलेरेवं करे साध्यसाधनधर्मयोर20 विशिष्टा वृत्तिरिष्टा, न त्वाधाराधेययोः कुण्डबदरयोरिवेति भावः । संयोगिवद्वृत्तौ हेतुमाह-प्रधानोपसर्जनभावेनेति, धूमाग्यो संयोगिवद्वृत्तिः प्रधानोपसर्जनभावेन तत्रैव प्रदेशे नियतभावत्वात् , एकस्यैव प्रदेशस्याग्निममवत्तया विभागविवक्षायां साध्यसाधनधर्मभावात् , य एव च प्रदेशोऽग्निमान् स एव धूमवान् यथा य एव शब्दादिः कृतकः स एवानित्यः, इत्येकवस्तुधर्मत्वात्कृतकत्वानित्यत्वयोः गम्यगमकता तथैवात्रापीति भावः। दृष्टान्तमाह-कृतकानित्यत्ववदिति, शब्दो हि खोत्तरभाविशब्द प्रागभावरूपः, स्वपूर्वोत्पन्नशब्दप्रध्वंसरूपः, यद्वा शब्दादिकार्यमभूत्वा भवति, अतः प्रागभावात्मकम् , भूत्वा च नावतिष्ठतेऽतः 25 प्रध्वंसाभावरूपः अभूत्वा भवन् कृतक उच्यते य एव भावः स एव भूत्वाऽभवन्ननित्य उच्यते परस्पराश्रितत्वाच्चाधाराधेयतया परस्परं प्रधानोपसर्जनभावेन नियतत्वात् कृतकत्वानित्यत्वे साधनसाध्यधर्मभावं भजेते, न तु कुण्ड एवाधारः बदरमेवाधेयमित्याधाराधेयभावेनेति भावः । दार्शन्तिकमाह-तथेहेति, प्रदेशेन्धनादिर्भाव एवैकोऽग्निधूमश्च, अग्निमत्प्रदेश एव च धूमवान् भवति तस्मात्तस्यैवाग्निविशिष्टस्य धूमविशिष्टत्वेन साध्यत्वात् साधनत्वाच्च स्वयमात्मनैवात्मनः प्रधानोपसर्जनभावेन विवक्षायां लिङ्गित्वं लिङ्गत्वचाधारत्वमाधेयत्वञ्च परस्पराश्रितत्वादिति भावः । अनुमान इति, अनुमाने हि साध्यं साधनं च समानश्रेणिकं दृश्यते 30 न त्वाधाराधेयभावेन, किन्तु तयोरेकस्मिन् लिङ्गिनि प्रदेश एवाधाराधेयभाव इति भावः । उक्तं न्यायं दृष्टान्त उपोद्वलयतीत्याह एवञ्च सपक्ष इति । व्याचष्टे-एवमेव चेति, प्रतिबन्धप्रसाधकप्रमागविषयसाध्यसाधनधर्माधिकरणीभूतो धर्मी साधर्म्यदृष्टान्तो यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं वर्तते, तत्र हि यो यो धूमवान् यत्र यत्र वा धूम इति प्रत्यक्षादिप्रसिद्धसाधनधर्म १ सि. क्ष. छा. डे. निर्दिष्टानिर्दिष्ट । २ सि. क्ष. छा. डे. तच्चाधा० । ३ सि. क्ष. सपक्षेत्यादि । For Private & Personal Use Only www.jainelibrary.org Jain Education International 2010_04

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430