Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 344
________________ तद्भावदर्शनान्नियमः] द्वादशारनयचक्रम् ९१३ अत्रास्माभिरुच्यते तद्भावदर्शनादेव साध्यसाधनधर्मयोः । विधेः संयोगिवद्वृत्तिर्नाधाराधेययोरिव ॥ (ग्रन्धकर्तुः ) इति, यत्तद्भावदर्शनं स एवाग्निधूमो भवति तेनैवाग्निना धूमेन भूयते तद्देशेन्धनादिसम्बन्धेन, नान्येन, न सोऽग्निधूमो न भवतीति तद्भावस्यास्वनिवृत्तिहेतुना वा भूतस्य दर्शनादेव धूमो धूमो भवन्नेवाग्निं गमयति न तु यत्र न दृष्टस्तदवच्छेदेन, तद्भावाग्रहणे दोषदर्शनात् , अतद्भावान्वयशब्दार्थतायामग्निधूमविपक्षव्यावृत्तिमात्रेष्टावनिष्टं । स्यात् , अधूमस्य पटस्याभावो घटो वन्ध्यापुत्रो वा स्यात् एवं लिङ्गिन्यपि तथा तत्रेत्यभूतान्ययसाधनार्थातथार्थत्वात् , अतस्तद्भावदर्शनादेव तु साध्यसाधनधर्मयोस्तथाभूतान्वयदर्शनहेतोः लिङ्गिनि परस्परप्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावात् संयोगिवद्वृत्तिर्न तु कुण्डबदरयोराधाराधेययोरिव, तुल्यकक्षत्वादुभयोः। (अत्रेति) अत्रास्माभिरुच्यते-'तद्भावदर्शनादेव' इत्यादिश्लोकस्तद्विपरीतार्थः, संयोगिवत् , नाधारा-10 धेयवदिति, तद्भावदर्शनं यत्तदित्यादि, स एवाग्निधूमो भवति तेनैवाग्निना धूमेन भूयते तद्देशेन्धनादिसम्बन्धेन, नान्येन-अयोग्न्यादिनाऽवादितो वा धूमेन भूयते, न सोऽग्निधूमो न भवति भवत्येवेति तद्भावस्यास्वनिवृत्तिहेतुना वा भूतस्य दर्शनादेव धूमो धूमो भवन्नेवाग्निं गमयति, न यत्र न दृष्टस्तदवच्छेदेन, त्वन्मतेनाधूमो न भवति यतस्तस्मादनग्निर्न भवतीति तद्भावाग्रहणे दोषदर्शनात् , को दोष इति चेदुच्यते-अंतद्भावान्वयशब्दार्थतायां विधिरूपतद्भावान्वयशब्दार्थविपरीतकल्पनायामग्निरत्र धूमादित्यस्मिन्ननुमानेऽग्निधूमविपक्षव्यावृत्तिमात्रेष्टौ 15 अनिष्टं-अधूमस्य पटस्याभावो घटो वन्ध्यापुत्रो वा स्यात् , अनिष्टञ्चैतदेष लिङ्गे दोषः, एवं लिङ्गिन्यपि तथाअननेरपचनस्याभाव उदकं खपुष्पं वा स्यादसम्बद्धम् , अनिष्टश्चैतदपि, किं कारणं ? तत्रेत्यभूतान्वय साध धूमत्वेनाग्निमग्नित्वेन गमयतीति धूमत्वेनाग्नित्वेन विधेयभूतेनानुबद्धा व्याप्तिन, किन्तु अधूमव्यावृत्त्याऽनग्निव्यावृत्त्या प्रतिषेध्याभावात्मनाऽनुबद्धा व्याप्तिरिति स्वार्थानुमानं विवेचितमिति भावः । यद्यदात्मना भवति तदेव साध्यम् , यस्तस्य परिणामः तदेव साधनम् , अग्निरेव धूमो भवतीति साध्यमग्निः साधनञ्च धूमः, अयमेव साध्यसाधननियम इत्याशयेनाचार्य आह-अत्रास्माभि- 20 रिति । अत्रार्थे कारिकामाह-तद्भावदर्शनादेवेति । साध्यसाधनयोः संयोगिवद्वृतिः, न त्वाधाराधेयभावेन, तद्भावस्य तथाऽदर्शनादित्याह-संयोगिवदिति। पर्वतादिदेशेन्धनादिसामग्रीसन्निधानेऽग्निधूमरूपेण परिणमति, न त्वयोऽग्निरबादिर्वा धूमात्मना परिणतो भवति, अग्निधूमो न भवतीति न, किन्तु भवत्येवेति नाग्निधूमस्यात्मीयतानिवर्तकहेतुः, तेन भूतो धूमोऽग्नेर्भाव इति तद्भावस्य धूमस्य दर्शनादेव भवनात्मको धूमोऽग्निं गमयति, न त्वधूमव्यावृत्त्यात्मनैव धूमोऽनग्निव्यावृत्त्यात्मनाऽग्निम् , तद्भावग्रहणव्यतिरेकेण तथाऽभ्युपगमे दोषदर्शनादित्याह-स एवाग्निरिति, अवनिवृत्तिहेतुना वाऽभूतस्येति पाठे धूमनिवृत्तावहेतुरयोन्या- 25 दिरवादिर्वा तेनाभूतस्येत्यर्थः । अन्यव्यावृत्त्यात्मना साध्यसाधनभावे दोषमादर्शयति-अतद्भावेति, तद्भावरूपो योऽन्वयो विधिरूपोऽग्निधूमादिशब्दार्थः तद्विपरीतकल्पनायां अन्यापोहरूपव्यतिरेकशब्दार्थकल्पनायामित्यर्थः, अग्निरत्र धूमादित्यनुमाने धूमादिशब्दस्य यद्यधूमव्यावृत्तिरेवार्थस्तर्हि अधूमः-धूमभिन्नः पटादिः, तझ्यावृत्तिर्घटो वन्ध्यापुत्रो वा असम्बद्धः स्यात् , एवमग्निरित्यनग्निभूतपटादिव्यावृत्तिर्घटो वा वन्ध्यापुत्रो वा स्यात् , धूम एवाग्निरेव तथाविध इति न स्यात् , एवं लिङ्गे लिङ्गिनि च दोष आपद्यत इति भावः । कुतस्तथाविधो घटो वा वन्ध्यापुत्रो वा स्यादित्यत्राह-तत्रेत्यभूतान्वयेति, त्वया हि यत्र धूमस्तत्राग्निरित्यस्य 30 यत्राधूमव्यावृत्तिः तत्रानग्निव्यावृत्तिरित्यर्थों मन्यते न तु भावरूपेण यत्र धूमस्तत्रा निरिति, स चार्थो घटखपुष्पादिसाधारणत्वाद १ सि. क्ष. छा. डे. मतदभावा० । २ सि. क्ष. डे. अनिष्टं हि तत्, एषलिङ्गि । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430