________________
तद्भावदर्शनान्नियमः] द्वादशारनयचक्रम्
९१३ अत्रास्माभिरुच्यते तद्भावदर्शनादेव साध्यसाधनधर्मयोः । विधेः संयोगिवद्वृत्तिर्नाधाराधेययोरिव ॥ (ग्रन्धकर्तुः ) इति, यत्तद्भावदर्शनं स एवाग्निधूमो भवति तेनैवाग्निना धूमेन भूयते तद्देशेन्धनादिसम्बन्धेन, नान्येन, न सोऽग्निधूमो न भवतीति तद्भावस्यास्वनिवृत्तिहेतुना वा भूतस्य दर्शनादेव धूमो धूमो भवन्नेवाग्निं गमयति न तु यत्र न दृष्टस्तदवच्छेदेन, तद्भावाग्रहणे दोषदर्शनात् , अतद्भावान्वयशब्दार्थतायामग्निधूमविपक्षव्यावृत्तिमात्रेष्टावनिष्टं । स्यात् , अधूमस्य पटस्याभावो घटो वन्ध्यापुत्रो वा स्यात् एवं लिङ्गिन्यपि तथा तत्रेत्यभूतान्ययसाधनार्थातथार्थत्वात् , अतस्तद्भावदर्शनादेव तु साध्यसाधनधर्मयोस्तथाभूतान्वयदर्शनहेतोः लिङ्गिनि परस्परप्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावात् संयोगिवद्वृत्तिर्न तु कुण्डबदरयोराधाराधेययोरिव, तुल्यकक्षत्वादुभयोः।
(अत्रेति) अत्रास्माभिरुच्यते-'तद्भावदर्शनादेव' इत्यादिश्लोकस्तद्विपरीतार्थः, संयोगिवत् , नाधारा-10 धेयवदिति, तद्भावदर्शनं यत्तदित्यादि, स एवाग्निधूमो भवति तेनैवाग्निना धूमेन भूयते तद्देशेन्धनादिसम्बन्धेन, नान्येन-अयोग्न्यादिनाऽवादितो वा धूमेन भूयते, न सोऽग्निधूमो न भवति भवत्येवेति तद्भावस्यास्वनिवृत्तिहेतुना वा भूतस्य दर्शनादेव धूमो धूमो भवन्नेवाग्निं गमयति, न यत्र न दृष्टस्तदवच्छेदेन, त्वन्मतेनाधूमो न भवति यतस्तस्मादनग्निर्न भवतीति तद्भावाग्रहणे दोषदर्शनात् , को दोष इति चेदुच्यते-अंतद्भावान्वयशब्दार्थतायां विधिरूपतद्भावान्वयशब्दार्थविपरीतकल्पनायामग्निरत्र धूमादित्यस्मिन्ननुमानेऽग्निधूमविपक्षव्यावृत्तिमात्रेष्टौ 15 अनिष्टं-अधूमस्य पटस्याभावो घटो वन्ध्यापुत्रो वा स्यात् , अनिष्टञ्चैतदेष लिङ्गे दोषः, एवं लिङ्गिन्यपि तथाअननेरपचनस्याभाव उदकं खपुष्पं वा स्यादसम्बद्धम् , अनिष्टश्चैतदपि, किं कारणं ? तत्रेत्यभूतान्वय साध
धूमत्वेनाग्निमग्नित्वेन गमयतीति धूमत्वेनाग्नित्वेन विधेयभूतेनानुबद्धा व्याप्तिन, किन्तु अधूमव्यावृत्त्याऽनग्निव्यावृत्त्या प्रतिषेध्याभावात्मनाऽनुबद्धा व्याप्तिरिति स्वार्थानुमानं विवेचितमिति भावः । यद्यदात्मना भवति तदेव साध्यम् , यस्तस्य परिणामः तदेव साधनम् , अग्निरेव धूमो भवतीति साध्यमग्निः साधनञ्च धूमः, अयमेव साध्यसाधननियम इत्याशयेनाचार्य आह-अत्रास्माभि- 20 रिति । अत्रार्थे कारिकामाह-तद्भावदर्शनादेवेति । साध्यसाधनयोः संयोगिवद्वृतिः, न त्वाधाराधेयभावेन, तद्भावस्य तथाऽदर्शनादित्याह-संयोगिवदिति। पर्वतादिदेशेन्धनादिसामग्रीसन्निधानेऽग्निधूमरूपेण परिणमति, न त्वयोऽग्निरबादिर्वा धूमात्मना परिणतो भवति, अग्निधूमो न भवतीति न, किन्तु भवत्येवेति नाग्निधूमस्यात्मीयतानिवर्तकहेतुः, तेन भूतो धूमोऽग्नेर्भाव इति तद्भावस्य धूमस्य दर्शनादेव भवनात्मको धूमोऽग्निं गमयति, न त्वधूमव्यावृत्त्यात्मनैव धूमोऽनग्निव्यावृत्त्यात्मनाऽग्निम् , तद्भावग्रहणव्यतिरेकेण तथाऽभ्युपगमे दोषदर्शनादित्याह-स एवाग्निरिति, अवनिवृत्तिहेतुना वाऽभूतस्येति पाठे धूमनिवृत्तावहेतुरयोन्या- 25 दिरवादिर्वा तेनाभूतस्येत्यर्थः । अन्यव्यावृत्त्यात्मना साध्यसाधनभावे दोषमादर्शयति-अतद्भावेति, तद्भावरूपो योऽन्वयो विधिरूपोऽग्निधूमादिशब्दार्थः तद्विपरीतकल्पनायां अन्यापोहरूपव्यतिरेकशब्दार्थकल्पनायामित्यर्थः, अग्निरत्र धूमादित्यनुमाने धूमादिशब्दस्य यद्यधूमव्यावृत्तिरेवार्थस्तर्हि अधूमः-धूमभिन्नः पटादिः, तझ्यावृत्तिर्घटो वन्ध्यापुत्रो वा असम्बद्धः स्यात् , एवमग्निरित्यनग्निभूतपटादिव्यावृत्तिर्घटो वा वन्ध्यापुत्रो वा स्यात् , धूम एवाग्निरेव तथाविध इति न स्यात् , एवं लिङ्गे लिङ्गिनि च दोष आपद्यत इति भावः । कुतस्तथाविधो घटो वा वन्ध्यापुत्रो वा स्यादित्यत्राह-तत्रेत्यभूतान्वयेति, त्वया हि यत्र धूमस्तत्राग्निरित्यस्य 30 यत्राधूमव्यावृत्तिः तत्रानग्निव्यावृत्तिरित्यर्थों मन्यते न तु भावरूपेण यत्र धूमस्तत्रा निरिति, स चार्थो घटखपुष्पादिसाधारणत्वाद
१ सि. क्ष. छा. डे. मतदभावा० । २ सि. क्ष. डे. अनिष्टं हि तत्, एषलिङ्गि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org