________________
९१४
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे नार्थातथार्थत्वात्-यत्र धूमस्तत्राग्निरित्यन्वयसहितः साधनार्थः तथार्थः सत्यः, तद्भावात्-तत्प्रदेशसम्बन्ध्यग्निधूमभावादन्यथा त्वदिष्टातदभावात्मकस्याभूतान्वयसाधनार्थस्यातथार्थत्वादनन्तरनिर्दिष्टानिष्टंप्राप्तिः, अत एतस्मिदिष्टतद्भावदर्शनादेव तु साध्यसाधनधर्मयोरग्निधूमयो:-तथाभूतान्वयदर्शनहेतोः संयोगिनोरङ्गुल्योरिव-यथैवास्य तथापि द्वितीयस्यापि तद्भावा विशिष्ठा वृत्तिरिष्टा सा चाधाराधेय[योरिव]प्रधानोपसर्जनभावेना5 विनाभावात् प्राग्व्याख्यातनिर्व[च]न[गम]कगम्यभावेनैकवस्तुधर्मत्वात् कृतकानित्यत्ववत् , यथा हि प्रागभावप्रध्वंसाभावलक्षण एक एव हि अभूत्वा भवन् भूत्वा चाभवन् कृतकश्चानित्यश्च भावः साध्यसाधनाख्यां लभते तथेहाग्निधूमाख्य एक एव साध्यसाधनव्यपदेशं लभते प्रदेशेन्धना दिर्भावः, तस्मात् साध्यसाधनधर्मयोलिङ्गिन्याधारे परस्परप्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावात् संयोगिवद्वृत्तिर्न तु कुण्डबदरयोराधाराधेययोरिव प्रवृत्तिरनुमाने तुल्यकक्षत्वादुभयोरिति । 10 एवञ्च सपक्षे साध्यसाधनधर्मयोः सहभावदर्शनात् समन्वयवृत्त्या तथाप्रत्यक्षसम्बन्धित्वविवक्षया साधर्म्य दृष्टान्त उच्यते तथा प्रसिद्धस्य धर्मस्य साधनत्वादप्रसिद्धस्य साध्यत्वात् कुतो लिङ्गलिङ्गिव्यतिकरदोषाशङ्का ? धर्मिण एवैकस्य लिङ्गत्वाल्लिङ्गित्वाच्च नाग्निर्लिङ्गी न धूमो लिङ्गम् प्रत्यक्षतरसम्बन्धित्वविवक्षितत्वान्न सङ्कीर्येयातां लिङ्गलिङ्गिनौ ।
एवञ्च सैपक्ष इत्यादि, एवमेव चास्मदुक्तन्यायमुपोदलयति साधर्म्यदृष्टान्तप्रयोगो लोकप्रसिद्धो
15 सत्यार्थः, अत उक्तो दोष इति भावः । तदेव व्याचष्टे-यत्र धूम इति, भावरूपेणान्वयसहितः साधनार्थः सत्यः, तं विहाय
स्वदिष्टः योऽधूमाभावानम्याभावयोरभावरूपोऽन्वयस्तत्सहितः साधनार्थः न तथार्थः-असत्यः, तस्मादधुनैवोक्तो दोषः प्राप्नोतीति भावः । अथ परस्परसाध्यसाधनभावमाह-अत एतहीति, अतः तद्भावदर्शनादेव प्रदेशादेरेकस्यैवाग्निधूमश्च भावौ, यो ह्यग्निमत्प्रदेशः स एव धूमवान् भवति, तस्माद्भूमो यथा तद्भावस्तथाऽग्निरपि, तद्भावलक्षणा वृत्तिरुभयत्राविशिष्टा, यत्र धूमस्तत्राग्निरिति
सत्यभूतान्वयदर्शनाच्च संयोगिवद्वृत्तिरङ्गुल्योरिव, यथाऽङ्गुलेरेकस्य करे यः संयोगः स एवापरस्याप्यङ्गुलेरेवं करे साध्यसाधनधर्मयोर20 विशिष्टा वृत्तिरिष्टा, न त्वाधाराधेययोः कुण्डबदरयोरिवेति भावः । संयोगिवद्वृत्तौ हेतुमाह-प्रधानोपसर्जनभावेनेति, धूमाग्यो
संयोगिवद्वृत्तिः प्रधानोपसर्जनभावेन तत्रैव प्रदेशे नियतभावत्वात् , एकस्यैव प्रदेशस्याग्निममवत्तया विभागविवक्षायां साध्यसाधनधर्मभावात् , य एव च प्रदेशोऽग्निमान् स एव धूमवान् यथा य एव शब्दादिः कृतकः स एवानित्यः, इत्येकवस्तुधर्मत्वात्कृतकत्वानित्यत्वयोः गम्यगमकता तथैवात्रापीति भावः। दृष्टान्तमाह-कृतकानित्यत्ववदिति, शब्दो हि खोत्तरभाविशब्द
प्रागभावरूपः, स्वपूर्वोत्पन्नशब्दप्रध्वंसरूपः, यद्वा शब्दादिकार्यमभूत्वा भवति, अतः प्रागभावात्मकम् , भूत्वा च नावतिष्ठतेऽतः 25 प्रध्वंसाभावरूपः अभूत्वा भवन् कृतक उच्यते य एव भावः स एव भूत्वाऽभवन्ननित्य उच्यते परस्पराश्रितत्वाच्चाधाराधेयतया
परस्परं प्रधानोपसर्जनभावेन नियतत्वात् कृतकत्वानित्यत्वे साधनसाध्यधर्मभावं भजेते, न तु कुण्ड एवाधारः बदरमेवाधेयमित्याधाराधेयभावेनेति भावः । दार्शन्तिकमाह-तथेहेति, प्रदेशेन्धनादिर्भाव एवैकोऽग्निधूमश्च, अग्निमत्प्रदेश एव च धूमवान् भवति तस्मात्तस्यैवाग्निविशिष्टस्य धूमविशिष्टत्वेन साध्यत्वात् साधनत्वाच्च स्वयमात्मनैवात्मनः प्रधानोपसर्जनभावेन विवक्षायां लिङ्गित्वं लिङ्गत्वचाधारत्वमाधेयत्वञ्च परस्पराश्रितत्वादिति भावः । अनुमान इति, अनुमाने हि साध्यं साधनं च समानश्रेणिकं दृश्यते 30 न त्वाधाराधेयभावेन, किन्तु तयोरेकस्मिन् लिङ्गिनि प्रदेश एवाधाराधेयभाव इति भावः । उक्तं न्यायं दृष्टान्त उपोद्वलयतीत्याह
एवञ्च सपक्ष इति । व्याचष्टे-एवमेव चेति, प्रतिबन्धप्रसाधकप्रमागविषयसाध्यसाधनधर्माधिकरणीभूतो धर्मी साधर्म्यदृष्टान्तो यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं वर्तते, तत्र हि यो यो धूमवान् यत्र यत्र वा धूम इति प्रत्यक्षादिप्रसिद्धसाधनधर्म
१ सि. क्ष. छा. डे. निर्दिष्टानिर्दिष्ट । २ सि. क्ष. छा. डे. तच्चाधा० । ३ सि. क्ष. सपक्षेत्यादि ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_04