________________
द्वादशारनयचक्रम्
लिङ्गलिङ्गित्वशङ्कानिरासः]
९१५ न्यायशास्त्रे च, तद्यथा-यत्र धूमस्तत्राग्निः, यत्कृतकं तदनित्यमिति सपक्षे साध्यसाधनधर्मयोरग्निधूमयोः कृतकानित्यत्वयोश्च तद्वति देशान्तरे वस्त्वन्तरे वा घटादौ सहभावदर्शनात् समन्वयवृत्त्या साधर्म्यदृष्टान्त उच्यते, कस्मात् ? तथाप्रत्यक्षसम्बन्धित्वविवक्षया हेतोः प्रसिद्धस्य सा[धन] धर्मत्वेनाप्रसिद्धस्य च साध्यधर्मत्वेन विवक्षितत्वादित्यर्थः, यत्पुनरत्राशयते त्वया लिङ्गस्य लिङ्गिनो वा लिङ्गित्वं[लिङ्गत्वञ्च] प्रसक्तमिति, एतस्या आशङ्काया अनुपपत्तिरेव, प्रसिद्धस्य धर्मस्य साधनत्वात् अप्रसिद्धस्य साध्यत्वात् कुतो । लिङ्गलिङ्गिव्यतिकरदोषाशङ्का, लिङ्येकदोषाशङ्कानुपपत्तिरेवेत्यर्थः, धर्मिण एवैकस्य प्रदेशशब्देवाच्यस्य लिङ्गत्वाल्लिङ्गित्वाञ्च, लिङ्ग्येक देशत्वाद्वा लिङ्गिनो धर्मस्येव लिङ्ग लिङ्गी वेति कृत्वा नाग्निलिङ्गी न धूमो लिङ्गम् , तथा कृतकानित्यत्वे, तस्मादलिङ्गता धूमस्यापि नालिङ्गित्वादेव, अन्यालिङ्गित्वाच्चाने[रलिङ्गिता]नालिङ्गत्वादेव [अन्यालिङ्गत्वाच]तस्मात् प्रत्यक्षतरसम्बन्धित्वविवक्षितत्वान्न सङ्कीर्येयातां लिङ्गलिङ्गिनौ, अतः प्रसिद्धधर्मलिङ्गद्वारेणाप्रसिद्धधर्मलिङ्गिद्वारेण चैकस्यैव साधनत्वात् साध्यत्वाच्च व्यवस्थितमेव लिङ्गलिङ्गित्वमिति । 10
यत्पुनरिदं लिङ्गलिङ्गयेकरूपापादनं सम्बन्धिना द्वितीयसम्बन्धिरूपेण भवितव्यमिति, एषोऽन्यायः, प्रत्यक्षाप्रत्यक्षत्वविशेषदर्शनात् , न हि चैत्राश्वादिसम्बन्धिनां प्रत्यक्षाप्रत्यक्षाणां नियमोऽस्त्येकः प्रत्यक्ष इति द्वितीयेनापि प्रत्यक्षेण भवितव्यञ्चेति, तथा संयोगित्वसाध्यसाधकत्व. ................यथैकः संयोगी तथा द्वितीय इति, अत एव चैवं वक्तुमयुक्तं यथा त्वया विश्रब्धमुच्यते-यथा हि सत्यपि द्विगतत्व इत्यादि यावत्तद्वदिह न भवतीति 15 तन्न घटत इति ब्रूमः-ननु तद्वदेवेह संयोगिनोरपि लिङ्गलिङ्गिनोः, संयोगित्वात् , स्थाण्वादिसंयोगिवत् , यथा हि स्थाणुश्येनयोः संयोगः सकर्माकर्मकत्वाभ्यामतुल्यः तथा मल्लव्यङ्गुलाकाशादिसंयोगसंयोगिनाम् ।
(यत्पुनरिति) यत्पुनरिद सम्बन्धवादिनं प्रतीत्यापि यदेतल्लिङ्गलिङ्येकरूपापादनं, एषोऽन्यायः, कोऽयं ? नियमः-[एक]सम्बन्धिना द्वितीयेन सम्बन्धिरूपेण भवितव्यमिति, नैष नियमोऽस्ति, प्रत्यक्षाप्रत्य- 20
वत्त्वमुपदर्य साध्यधर्मवत्ता प्रदर्श्यते प्रधानोपसर्जनभावेन, संयोगिवत्परस्पराश्रिताधाराधेयभावेन चेति भावः । तद्वति देशान्तरे महानसादौ, इदं यत्र धूमः तत्राग्निरित्यस्य निदर्शनम् , वस्त्वन्तरे वा घटादाविति यत्कृतकं तदनित्यमित्यस्य । कस्मात् साधर्म्यदृष्टान्त इत्यत्राह-तथा प्रत्यक्षेति । लिङ्गलिझिनोः संयोगिवद्वत्तौ संयोगस्य द्विनिष्ठत्वाल्लिङ्गधर्मेण लिङ्गिनापि भवितव्यमिति यदाशङ्कितं तत्प्रसिद्धधर्मस्य लिङ्गत्वादप्रसिद्धधर्मस्य लिङ्गित्वाच्च न युक्तमित्याह यत्पुनरत्रेति । लिङ्गयेकदेशत्वशङ्कापि न, प्रदेशस्यैवैकस्य लिङ्गत्वाल्लिङ्गित्वाच्चेत्याह-लिङ्येकेति । इदमेव स्फुटीकरोति । लिङ्येकदेशत्वाद्वेति, लिङ्गिनो देशस्य ये धर्मा: 25 पर्वतत्वादयस्तेषां यथान्यलिङ्गत्वं लिङ्गित्वं वा तथा लिङ्गिधर्मयोधूमान्योर्न लिङ्गमलिङ्गिभावः, एवं कृतकत्वानित्यत्वयोरपि, तथा च धूमस्याप्यलिङ्गता, अलिङ्गित्वादन्यालिङ्गित्वाच, अग्नेरप्यलिङ्गिता, अलिङ्गत्वादन्यालिङ्गत्वाच्चेति भावः । एकस्य धर्मिण एव लिङ्गत्वे लिङ्गित्वे च सङ्करः स्यादित्यत्राह-प्रत्यक्षेतरेति, प्रत्यक्षसम्बन्धित्वविवक्षया लिङ्गत्वमितरसम्बन्धित्वविवक्षया चैकस्यैव प्रदेशस्य लिङ्गित्वमिति न सङ्कर इति भावः । लिङ्गलिङ्गिभावाव्यवस्था निरस्यति-अत इति । साध्यसाधनयोः साहचर्यादिसम्बन्धिवादी मन्यते यदेकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयतीति न्यायमवलम्ब्यैकसम्बन्धिना द्वितीयसम्बन्धिरूपेण भवितव्यमिति लिङ्गलिङ्गिनोरेक-30 रूपतामापादयति तदपि न न्याय्यमित्याह-यत्पुनरिदमिति । व्याचष्टे-यदिति। सपक्षे दर्शनाद्विपक्षेऽदर्शनात् पक्षे एकदर्शने तत्सम्बन्धिना पक्षणापरसम्बन्धिरूपेण भवितव्यमिति पूर्वपक्षाभिप्रायः। तन्मतं निराचष्टे-नैष नियमोऽस्तीति । हेतुमाह
१ सि.क्ष. दृष्टान्तच्यते।xxक्ष ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org