SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ९१६ न्यायागमानुसारिणीव्याख्यासमेतम् [ उभयनियमारे क्षत्व विशेषदर्शनात् धूमाम्यादिषु तद्दर्शयति न हि चैत्राश्वेत्यादि, स्वस्वाम्यादि सप्तविधसम्बन्धेषु चैत्राश्वादिसम्बन्धिनां प्रत्यक्षाप्रत्यक्षाणां नहि नियमोऽस्ति एकः प्रत्यक्ष इति द्वितीयेनापि प्रत्यक्षेण भवितव्यश्चेति, तथा संयोगित्व साध्यसाधकत्वेत्यादि गतार्थे यथासंख्यं निदर्शने यावद्यथैकः संयोगी तथा द्वितीय इति नहीति वर्त्तते, उक्तादेव न्यायादयुक्तमेवं भवितुम्, अत एव चैवं वक्तुमयुक्तं यथा त्वया यत एवं विश्र - B ब्धमुच्यते गुणदोषविचारणनिरपेक्षेण निःशङ्केन, कथमयुक्तमिति चेदिदं तद्दर्श्यतेऽस्माभिः यथा हि सत्यपि द्विगतत्व इत्यादि यावत् तद्वदिह न भवतीति, संयोगिनोस्तुल्य आधाराधेययोरिव न भवतीति, तन्न घंटत इति, तत्र वयं तन्न घटत इति ब्रूमः, तद्यथा ननु तद्वदेवेह - आधाराधेयवदेव संयोगिनोरपि लिङ्गलिङ्गिनोर्धूमायोः न यथैकस्य प्रत्यक्षस्य संयोगस्तथा द्वितीयस्याप्रत्यक्षस्येति पक्षः, संयोगित्वादिति हेतु:, स्थाण्वादिसंयोगिवदिति दृष्टान्तः, यथा हि स्थाणुश्येनयोः संयोगिनो: स्थाणोरकर्मणः श्येनस्य सकर्मणश्च 10 संयोगः सकर्माकर्मकत्वाभ्यामतुल्यः तथा मल्लद्व्यङ्गुलः काशादिसंयोगसंयोगिनाम्, तथा चैत्राश्वादीनामप्यत्यन्तप्रियवाहनादित्वाद्युपलक्षितत्वे प्रत्यक्षाप्रत्यक्षादित्वेनैव विशेष इति । www यत्तूक्तं स्वत्वादिप्रत्यक्षत्वात् द्वितीयस्य स्वस्य स्वामिनो वा तेन सहैवावगतत्वात् अन्यापेक्षत्वाच्च सम्बन्धस्य शेषसिद्ध्यर्थं स्मृत्यानर्थक्यमितितदयुक्तमुक्तम्, अथान्यथा मन्येथस्तन्न तस्य प्रकारस्यानुक्तत्वात्, स्वस्वाम्यादिभावेन सम्बन्धादिति वचनादिति । यत्क्तमित्यादि सम्बन्धवादिनमेव प्रति अन्यापोहिकेन पर्यनुयुज्य यदुक्तं दोषयुक्तं यदि स्वस्वा 15 प्रत्यक्षेति, एकसम्बन्धिनो धूमस्य प्रत्यक्षेऽप्यपरसम्बन्धिनोऽग्नेर प्रत्यक्षात् तन्नियमो नास्तीति भावः । सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानमिति सांख्यानामनुमानलक्षणम्, तत्र सप्तविधसम्बन्धस्तैर्विवक्षितः, एकस्मात् प्रत्यक्षात् अविनाभाविलिङ्गप्रत्यक्षादपरस्य लिङ्गिनः सिद्धिरिति तदर्थः, नासौ नियमो युज्यत इति दर्शयति-स्वस्वाम्यादीति, खखाम्यादिसप्तविधसम्बन्धेन सम्बन्धिनोर्नायं नियमोऽस्ति न ह्यप्रतिबद्धात्मनां चैत्राश्वादीनां क्वचित्सहदर्शनेऽपि सर्वत्रैकस्य प्रत्यक्षादपरेणापि प्रत्यक्षेण भवित20 व्यमित्यस्ति नियमः, एवं स्वस्वामिभावसम्बन्धभिन्नेषु सम्बन्धेष्वपि नियमव्यभिचारो भाव्यः । तथैवाह तथा संयोगित्वेति । एवञ्च यथा हि सत्यपि द्विगतत्वे सम्बन्धस्य न कदाचिदाधार आधेयधर्मा भवति, नाप्याधेय आधारधर्मा, तथा न कदाचिल्लिङ्ग लिङ्गि भवति, लिङ्गि च लिङ्गम्, संयोगी तु यथैकस्तथा द्वितीय इति न तद्वदिति यत्त्वया निःशङ्कमुक्तं तन्न युज्यत इत्याह-अत एव चैवमिति । तदीयाभिप्रायमेव दर्शयति-संयोगिनोरिति, व्याप्तिलक्षणः सम्बन्धः संयोगिनोस्तुल्यो न भवति, किन्त्वा - धाराधेययोरिव भवतीति भावः । तन्निराकरोति-तत्र वयमिति, आधाराधेयभावलक्षणः सम्बन्धो द्विष्टोऽपि नैकरूपया वृत्त्या 25 द्वयोर्वर्त्तते, न हि यादृशी व्यापकधर्मे वृत्तिस्तादृश्येव व्याप्यधर्मे, संयोगस्य तूभयत्राविशेषादेष प्रसङ्गः स्यादिति न घटते संयोगोऽपि नैकरूपेण द्वयोर्वर्तते, एकत्र प्रत्यक्षसम्बन्धी, अपरत्र त्वप्रत्यक्षसम्बन्धीति भावः । आधाराधेयभावसाम्यमेवानुमानतो दर्शयतिन यथैकस्येति एकस्य साधनादेः प्रत्यक्षस्येत्यर्थः । हेतुं दृष्टान्ते घटयति-यथा हीति । स्थाणुश्येनपक्षिणोः संयोगोऽन्यतर कर्मजन्यः, श्येनकर्म गाहि श्येनस्याकर्मणा स्थाणुना संयोगो भवति, अतः तत्संयोगो नोभयत्र 'तुल्यः, सकर्माकर्मगतत्वात् सकर्मवृत्तिसंयोगवान् श्येनः, अकर्मवृत्तिसंयोगवान् स्थाणुरिति नोभयत्राविशिष्टः संयोगः, एवमुभयकर्म जसंयोगसंयोगिनोर्मध्योद्र्यङ्गुलयोरन्यतरकर्म30 जन्यसंयोग संयोगिनोर्घटाकाशसंयोगिनोर्नै कविधत्वमृह्यमिति भावः । एवं चैत्राश्वादावपि चैत्रः प्रत्यक्षः स्वामी अश्वः तस्यात्यन्तं प्रियभूतो वाहनरूपः स्वत्ववानित्यसमानता विज्ञेयेत्याह- तथेति, प्रत्यक्षाप्रत्यक्षत्वादिनैवेत्यत्रादिना स्वस्वामिभावादिविशेषो ग्राह्यः । सम्बन्धवादिनं प्रति बौद्धेनोक्तं दोषं दूषयितुं तदुक्तिमुपन्यस्यति यत्तक्तमिति । तदुक्ति विशदीकरोति-सम्बन्धवादिन १ सि. क्ष. छा. घटदिति । २. सि. क्ष. डे. छा. यत्तूणामित्यादि । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy